क्रव्यादः (kravyAdaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः
सिंहजातीयः नरः वन्यपशुः।
"सिंहस्य ग्रीवा सटया आवृता अस्ति।"
श्येनः, पत्री, शशादः, शशादनः, कपोतारिः, क्रव्यादः, क्रूरः, वेगी, खगान्तकः, करगः, लम्बकर्णः, रणप्रियः, रणपक्षी, पिच्छवाणः, स्थूलनीलः, भयङ्करः, शशघातकः, खगान्तकः, घातिपक्षी, नीलपिच्छः, सत्काण्डः, पतद्भीरुः, ग्राहकः, मारकः
पक्षिविशेषः-यः भारतदेशे सर्वत्र दृश्यते।
"श्येनः काकसदृशः श्वेतोदरः नीलपृष्ठवान् अस्ति।"
श्येनः, क्रव्यादः, क्रूरः, आपतिकः, नखदारणः, पुङ्खः, प्राजिकः, लम्बकर्णः, वेगी, शशघातकः, शशघाती, शशघ्नी, स्थूलनीलः, पतद्भीरुः
एका खगजातिः।
श्येनेन झटिति मूषकः परिगृहीतः। / "श्येनाः प्रशस्ताः प्रकृतस्वरास्ते"[श.क]"
असुरः, दैत्यः, दैतेयः, दनुजः, इन्द्रारिः, दानवः, शुक्रशिष्यः, दितिसुतः, पूर्वदेवः, सुरद्विट्, देवरिपुः, देवारिः, कौणपः, क्रव्यात्, क्रव्यादः, अस्रपः, आशरः, रात्रिञ्चरः, रात्रिचरः, कव्वूरः, निकषात्मजः, यातुधानः, पुण्यजनः, नैर्ऋतः, यातुः, रक्षः, सन्ध्याबलः, क्षपाटः, रजनीचरः, कीलापाः, नृचक्षाः, नक्तञ्चरः, पलाशी, पलाशः, भूतः, नीलाम्बरः, कल्माषः, कटप्रूः, अगिरः, कीलालपः, नरधिष्मणः, खचरः
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
"पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।"
सिंहः, मृगेन्द्रः, पञ्चास्यः, हर्यक्षः, केशरी, हरिः, पारीन्द्रः, श्वेतपिङ्गलः, कण्ठीरवः, पञ्चशिखः, शैलाटः, भीमविक्रमः, सटाङ्कः, मृगराट्, मृगराजः, मरुत्ज्लवः, केशी, लम्नौकाः, करिदारकः, महावीरः, श्वेतपिङ्गः, गजमोचनः, मृगारिः, इभारिः, नखरायुधः, महानादः, मृगपतिः, पञ्चमुखः, नखी, मानी, क्रव्यादः, मृगाधिपः, शूरः, विक्रान्तः, द्विरदान्तकः, बहुबलः, दीप्तः, बली, विक्रमी, दीप्तपिङ्गलः
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
"अस्मिन् काव्ये कविना शिवरायस्य तुलना सिंहैः कृता।"
क्रव्यादः
एकः अग्निष्वात्तस्य वर्गः ।
"क्रव्यादस्य वर्णनं वायुपुराणे वर्तते"
क्रव्यादः
कांस्यमक्षिकस्य युतिः ।
"क्रव्यादस्य उल्लेखः भावप्रकाशे वर्तते"
शब्दकल्पद्रुमः
Sanskritक्रव्यादः, (क्रव्यं मांसमत्ति । अद् उपपदे “कर्म्म-ण्यण्” । ३ । २ । १ । इति अण् । कृत्तं छिन्नं तदेवपुनर्व्विशेषतः कृत्तं पक्वञ्च भुङ्क्ते इति कृत्तविकृत्त-पक्वशब्दस्य पृषोदरात् क्रव्यादेशः । इति का-शिका ।) राक्षसः । इत्यमरः ॥
सिंहः । श्येनः ।इति राजनिर्घण्टः ॥
शवभक्षकाग्निः । यथा, “क्रव्यादो मृतभक्षणे” । इति तिथ्यादितत्त्वम् ॥
मांसाशिनि त्रि । इति धरणी ॥
(पुरा किल केन-चिद्रक्षसाग्निमुखादियमेव सा भृगुभार्य्या पुलो-मेति विदितेनैवापहृतायान्तस्यां पुलोमायां मह-र्षिर्भृगुरत्यन्ताऽमर्षमाहरन् त्वं सर्व्वभक्षो भविष्य-सीति तस्मै वह्नये शापं प्रददौ तेन हि तस्यक्रव्यादत्वं प्रसिद्धम् । ततः शप्तेनापि तेनाग्निदेवे-नात्मनः सर्व्वभक्षकत्वरूपशापं परिहर्त्तुकामेनसर्व्वभक्षः सन्कथं देवादीनां मुखं भविष्यामीतिचिन्तयता अग्निहोत्रेषु यज्ञसत्रक्रियासु च आत्मनः संहारश्चक्रे । पितामहस्तु देवादिभिरनुरुद्धोवह्नेः स्वप्रभावमनुस्मारयन् कौशलेन हुतभागग्र-हणस्वीकारमकारयत् । एतद्विवरणन्तु महाभा-रते । १ । ६--७ अध्याययोर्द्रष्टव्यम् । तद्यथा, भृगुरुवाच ।“केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षते ।न हि त्वां वेद तद्रक्षो मद्भार्य्यां चारुहासिनीम् ॥
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा ।विभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥
पुलोमोवाच ।अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता ।ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥
साहं तव सुतस्यास्य तेजसा परिमोक्षिता ।भस्मीभूतन्तु तद्रक्षो मामुत्सृज्य पपात वै ॥
सूत उवाच ।इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् ।शशापाग्निमतिक्रुद्धः सर्व्वमक्षो भविष्यसि” ॥
“शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् ।किमिदं साहसं ब्रह्मन् कृतवानसि मां प्रति” ॥
“अमावास्याञ्च पितरः पौर्णमास्याञ्च देवताः ।मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥
सर्व्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम्” ॥
“चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः ।द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्ज्जिताः ।विनाग्निना प्रजाः सर्व्वास्तत आसन् सुदुःखिताः ॥
अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन् वचः ।अग्निशापात्क्रियाभ्रंशात्भ्रान्ता लोकास्त्रयोऽनघाः ।विदध्वमत्र यत्कार्य्यं न स्यात् कालात्ययो यथा ।अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु ॥
अग्नेरावेदयच्छापं क्रियासंहारमेव च ।भृगुणा वै महाभाग ! शप्तोऽग्निः कारणान्तरे ॥
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा ।हुतभुक् सर्व्वभूतेषु सर्व्वभक्षत्वमेष्यति ॥
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत् ।उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥
लोकानामिह सर्व्वेषां त्वं कर्त्ता चान्त एव च ।त्वं धारयसि लोकांस्त्रीन् क्रियाणाञ्च प्रवर्त्तकः ॥
स तथा कुरु लोकेश ! नोच्छिद्येरन् क्रिया यथा ।कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशन ! ॥
त्वं पवित्रः सदा लोके सर्व्वलोकगतिश्च ह ।न त्वं सर्व्वशरीरेण सर्व्वभक्षत्वमेष्यसि ॥
अपाने ह्यर्च्चिषो यास्ते सर्व्वं भोक्ष्यन्तिताः शिखिन् ! ।क्रव्यादा च तनुर्य्या ते सा सर्व्वं भक्षयिष्यति ॥
यथा सूर्य्यांशुभिः स्पृष्टं सर्व्वं शुचि विभाव्यते ।तथा त्वदर्च्चिर्निर्द्दग्धं सर्व्वं शुचि भविष्यति ॥
त्वमग्ने ! परमं तेजः स्वप्रभावाद्विनिर्गतम् ।स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ! ॥
देवानाञ्चात्मनो भागं गृहाण त्वं मुखे हुतम्” ।“एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् ॥
जगाम शासनं कर्त्तुं देवस्य परमेष्ठिनः” ॥
* ॥
अतएव ऋङ्मन्त्रेण क्रव्यादाख्याग्नेः शान्तिकर्म्मा-दिष्वपसारणं जातवेदोऽग्नेरादानं प्रोक्तम् ।यथा, ऋग्वेदे । १० । १६ । ९ ।“क्रव्यादमग्निं प्रहिणोमि दूरंयमराज्ञो गच्छतु रिप्रवाहः ।इहैवायमितरो जातवेदादेवेभ्यो हव्यं वहतु प्रजानन्” ॥
“क्रव्यं आमिषं अत्ति क्रव्यादः तं तीव्रमग्निं दूरंविप्रकृष्टे देशे प्रहिणोमि प्रगमयामि । रिप्रं पापंतस्य वाहः वोढा यद्वा रिप्रं पापं वहति उपपदे“कर्म्मण्यण्” इति वह + अण् । सोऽग्निः यमराज्ञःयमो राजा येषां तान् यमराजकान् प्रदेशान्गच्छतु प्राप्नोतु । अथ शान्तिकर्म्मार्थं उपासनेइतरः क्रव्यादादन्यः जातवेदा अग्निः इहैव देशेदेवेभ्यः देवार्थं हव्यं वहुतु” ॥
इति भाष्यम् ॥
क्रव्यं मांसं अत्ति । अद् + उपपदे “कर्म्मण्यण्” ।३ । २ । १ । इत्यण् । रुरुनामाममांसाशिमृगभेदः ।यथा, भागवते । ५ । २६ । ११ ।“एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादानाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देह-म्भरः” ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“अद भक्षणे”@} 2 आदकः-दिका, आदकः-दिका, 3 जिघत्सकः-त्सिका
4 अत्ता-त्री, आदयिता-त्री, जिघत्सिता, त्री
5 अदन्-ती, आदयन्-न्ती, जिघत्सन्-न्ती
अत्स्यन्-ती-न्ती, आदयिष्यन्-ती-न्ती, जिघत्सिष्यन्-ती-न्ती
6 आ 7 दयमानः, आदयिष्यमाणः
सस्या 8 त्, आमात्, क्रव्यात् 9 10, क्रव्या 11 दः, प्रा 12 णात्, आमिषा 13 दः
14 जग्धम्-ग्धः-ग्धवान्, 15 अन्नम्-न्नवान्
आदितम्-तः, जिघत्सितम्-तः-तवान्, 16 घसः, अन्ना 17 दी, पुत्रादिनी, आदिवान्, जक्षि 18 वान्, अद् 19 मरः, जिघत् 20 सुः, अत्तव्यम्, आदयितव्यम्, जिघत्सितव्यम्
अदनीयम्, आदनीयम्, जिघत्सनीयम्
आद्यम्, आद्यम्, जिघत्स्यम्
ईषददः-दुरदः-स्वदः
अद्यमानः, आद्यमानः, जिघत्स्यमानः
21 घासः, घसः, 22 न्यादः 23, निघसः, आदः, 24 संघसः 25, प्रघसः, जिघत्सः
26 अत्तुम्-आदको 27, आदयितुम्, जिघत्सितुम्
28 अदनम्, आदनम्, जिघत्सनम्
जग्धिः, आदना, जिघत्सा, जिघत्सयिषा
जग्ध्वा, आदयित्वा, जिघत्सित्वा
प्रजग्ध्य, समाद्य, प्रजिघत्स्य, आदम् २, जग्ध्वा २, आदम् २, आदयित्वा २, जिघत्सम् २
जिघत्सित्वा २ 29 अत्त्रिः, 30 अद्रिः
01 (२१)
02 (२-अदादिः-१०११-सक-अनि। पर।)
03 [[५। ‘लुङ्सनोर्घसॢ’ (२-४-३७) इति घसॢ। ‘सस्स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारः।]]
04 [[६। ‘एकाच उपदेशे--’ (७-२-१०) इतीण्णिषेधः।]]
05 [[आ। ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः’ धा। का। २। ४४।]]
06 [पृष्ठम्००२०+ ४१]
07 [[१। ‘अदेः प्रतिषेधः’ (वा-१-३-८७) इति अस्य भक्षणार्थत्वेऽपि आत्मनेप- दित्वमेव।]]
08 [[२। ‘अदोऽनन्ने’ (३-२-६८) इति विट्।]]
09 [[B। ‘व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिस्स निशाचरैः’ भ। का। ६-९४।]]
10 [[३। ‘क्रव्ये च’ (३-२-६९) इति विट्।]]
11 [[४। ‘वाऽसरूपो--’ (३-१-९४) इति न्याये- नाणपि।]]
12 [[C। ‘वालितो दूरभाग् रामः बाणं प्राणादमत्यजत्’ भ। का। ६। १२३।]]
13 [[ड्। ‘तव विदितविषादो दृष्टकृत्स्नामिषादः’ भ। का। १०-१७।]]
14 [[५। ‘अदो जग्धिर्ल्यप् ति किति’ (२-४-३६) इति जग्ध्यादेशः।]]
15 [[६। ‘बहुलं तणि, अन्नवधक--’ (२-४-५४) इति वार्तिकात् प्रयोगोऽयमपि साधुः। ‘अन्नाण्णः’ (४-४-८५) इति निर्देशाच्च।]]
16 [[७। ‘अच्युपसंख्यानम्-’ (वा। २-४-३७) इति घसॢ।]]
17 [[८। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
18 [[९। ‘लिट्यन्यतरस्याम्’ (२-४-४०) इति घसॢ विकल्पेन। ‘वस्वेकाज्--’ (७-२-६७) इति इट्।]]
19 [[१०। ‘सृघस्यदः क्मरच्’ (३-२-१६०) इति तच्छीलादिषु कर्तृषु क्मरच् प्रत्ययः।]]
20 [[E। ‘जिघत्सोः नूनमापादि ध्वंसोऽयं तां निशाचरात्’ भ-का ६-३१।]]
21 [[११। ‘घञपोश्च’ (२-४-३८) इति घसॢ।]]
22 [[१२। ‘नौ ण च’ (३-३-६०) इति वा अप्।]]
23 [[F। ‘व्याप्नुवन्तो दिशोऽन्यादान् कुर्वन्तस्सव्यधान् हरीन्’ भ। का। ७-५६। अविद्यमानः न्यादः = आहारः येषां तान् इत्यर्थः।]]
24 [[ङ्। ‘आदरेण गमं चक्रुर्विषमेष्वप्यसंघसाः’ भ। का। ७-५६।]]
25 [[१३। ‘उपसर्गेऽदः’ (३-३-५९) इत्यप्।]]
26 [[१४। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति तुमुण्ण्वुलौ।]]
27 (वा याति)
28 [पृष्ठम्००२१+ ३४]
29 [[१। औणादिकः त्रिन् प्रत्ययः (द। उ। १। ३७।)। ॠषिः।]]
30 [[२। औणादिकः (द। उ। १-३४।) क्रिन् प्रत्ययः।]]
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
