| YouTube Channel

क्रयविक्रयः (krayavikrayaH)

 
Wordnet
Sanskrit
Synonyms:
क्रयविक्रयः
noun
केषामपि वस्त्वादीनां क्रयणस्य विक्रयणस्य क्रिया।
"जनानां मतं प्राप्तुं नेतारः क्रयविक्रयस्य अपि व्यवहारः कुर्वन्ति।"
Synonyms:
वाणिज्यम्, वाणिज्या, वणिक्पथम्, वणिग्भावः, क्रयविक्रयः, सत्यानृतम्, निगमः, पणाया, पाणः, महाजनकर्म
noun
वस्तूनां निर्माणम् तथा क्रयविक्रययोः कार्यम्।
"रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।"
शब्दकल्पद्रुमः
Sanskrit
क्रयविक्रयः,
पुं,
(क्रयेण सह विक्रयः ।) वाणिज्यम् ।केना वेचा इति भाषा यथा, --“ऋणदानं तथादानं वस्तूनां क्रयविक्रयम् ।न कुर्य्यात् गुरुणा सार्द्धं शिष्यो भूत्वा कदाचन”
इति तन्त्रसारः
(केचित्तु एतौ द्विवचनान्ताविच्छन्ति तत्र द्वन्दःयथा, क्रयश्च विक्रयश्च तौ क्रयविक्रयौ ।यदुक्तं मनुसंहितायाम् ।“आगमं निर्गमस्थानं तथा वृद्धिक्षयावुभौ ।विचार्य्य सर्व्वपण्यानां कारयेत् क्रयविक्रयौ
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽथवा गते ।कुर्व्वोत चैषां प्रत्यक्षमर्थसंस्थापनं नृपः”