| YouTube Channel

क्रयनियम (krayaniyama)

 
Shabdartha Kaustubha
Kannada
क्रयनियम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಾರುವವನ ಮತ್ತು ಕೊಳ್ಳುವವನು ಕಟ್ಟಲೆ /ವ್ಯಾಪಾರದ ನಿಬಂಧನೆ
व्युत्पत्तिः - > क्रये नियमः
वाचस्पत्यम्
Sanskrit
क्रयनियम
पु०
क्रवे नियमः क्रेष्टविक्रेत्रोर्नियमभेदे चनियमः “भूयसा वस्नमचरत् कनीयोऽविक्रीतो अकानिषंपुनर्यन् भूयसा कनीयो नारिरेचीद्दीना दक्षा विदुहन्ति प्रबाणम्” ऋ० ४, २४, ९, भाष्ये दर्शितो यथा-“अत्र ऋग्द्वेये संप्रदायविद्भिः पूर्वाचार्यैः केचित् श्लोकाःपठ्यन्ते तएव लिख्यन्ते “अल्पं यः पतिगृह्णातिमूल्यं पण्येन भूयसा क्रेतारं पुनर्गच्छन्नविक्रीतस्त्वयंमया इति ब्रुवन् कामयते पुनर्मूल्यस्य पूरणम् वि-क्रेता पुनर्मूल्यं भूयसा प्रपूरयेत् हीनं लभतेवस्नंयदा विक्रीतवान् पुरा यथासमयमेव स्यात्तयोर्नपुनरन्यथा अयं विक्रय एवेति समयश्चेत् कृतोभवेत् अथमूल्यार्थमेतत् स्याद्विचार्यैव तु निर्णयः इत्येवं समयोऽकारि तदा मूल्यं प्रपूर्यते तत्मादादौ मया कार्य्यः स-भयोऽत्रेति चिन्तयत् वामदेवो वशीकृथ शक्रं स्तोत्रेणभूयसा विक्रीणन् समयं चक्रैन्द्रं इममित्यृव्वा ।अतश्च द्व्यृच एकार्थो भूयसा वस्नमित्ययमिति अय-मर्थः प्रतिपाद्यते कश्चित् भूयसा भूम्ना पण्येन द्रव्येणकनोयोऽल्पतरं वस्नं पसु मूल्पं धनमचरत प्राप्नोति पु-नर्यन् क्रेतारं पुनर्गच्छन् विक्रेतायमर्थो मयान विक्रीतइति ब्रुवन् कानिषं मूल्यपूर्त्तिं कामयते व्यत्ययेनोत्तमपुरुषः विक्रेता भूयसा धनेन कनीयोऽल्पतरं मूल्यंनारिरेचीत् क्रेतुः सकाशान्न रिक्तीकरोति लभतइत्यर्थः दीना असमर्था दक्षाः समर्थाश्च वाणं वचनंविप्रदुहन्ति यथोक्तं क्रयकाले तथैव लभन्ते”“कैमं दशभिर्मभेन्द्रं क्रीणाति घेनुभिः यदा वृत्त्राणिजंघनदथैनं मे पुनर्ददत्” ऋ० ४, २४, १०, “मम मदीयमिदं स्वभूतमिन्द्रं धेनुभिः प्रीणयित्रीभिर्दश-भिर्दशसंख्याकाभिः स्तुतिभिः कः क्रीणति क्रयं करोतिहे तदानींक्रेतारोयुष्माकं मध्य एवमपि समयः क्रियते यदा-ऽयमिन्द्रो वृत्त्राणि त्वदीयान् शत्रून् जंघनत् हन्यात् अथा-नन्तरमेवैनमिन्द्रं मे मह्यं पुनर्ददत् पुनर्दद्यात्” भा० ।“निश्चित्य वस्त तन्मूल्यमुभयोः सम्मतौ शिवे! पर-स्पराज्ञाकरणं क्रयसिद्धिस्ततो भवेदिति” “क्रयसिद्धिर-दुष्टानां गुणश्रवणतो भवेत् विपर्यये तद्गुणानानन्थथाभवति क्रयः” महा० नि० त०