| YouTube Channel

क्रमुकफलं (kramukaphalaM)

 
शब्दकल्पद्रुमः
Sanskrit
क्रमुकफलं,
क्ली,
(क्रमुक एव फलम् क्रमुकस्यगुवाकादिवृक्षस्य फलं वा ।) गुवाकम् इतिराजनिर्घण्टः
(यथा, माघे ।“आस्वादितार्द्रक्रमुकाः समुद्रात्”
क्रमुकाः क्रमुकफलानीत्यर्थः
) अस्य गुणपर्य्यायौगुवाकशब्दे द्रष्टव्यौ