| YouTube Channel

क्रमागतं (kramAgataM)

 
शब्दकल्पद्रुमः
Sanskrit
क्रमागतं, त्रि, (क्रमेणागतं आयातम् ।) क्रमायातम् ।पितृपितामहादिक्रमेण प्राप्तम् यथा, --“अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रदासपरिग्रहाः ।अस्वतन्त्रस्तत्र गृही यत्र तत् स्यात् क्रमागतम्”
इति व्यवहारतत्त्वे नारदः
(तथा मनुः ।२ १८ ।“तस्मिन् देशे आचारः पारम्पर्य्यक्रमागतः ।वर्णानां सान्तरालानां सदाचार उच्यते”
)