| YouTube Channel

क्रमज्या (kramajyA)

 
शब्दसागरः
English
क्रमज्या
f.
(-ज्या) (In astronomy, ) The sine of a planet's declination.
E.
क्रम्
going, and ज्या sine.
Yates
English
क्रम-ज्या (ज्या) 1.
f.
Sine of decli-
nation or distance.
Wilson
English
क्रमज्या
f.
(-ज्या) (In astronomy, ) The sine of a planet's declination.
E.
क्रम going, and ज्या sine.
Monier Williams Cologne
English
क्रम—ज्या
f.
id.,
Sūryas.
ii, 32 and 60.
Apte Hindi
Hindi
क्रमज्या
स्त्री*
क्रम-ज्या -
"ग्रह की लंब रेखा, क्षय"
L R Vaidya
English
krama-jyA {% f. %} the sine of a planet, declination.
वाचस्पत्यम्
Sanskrit
क्रमज्या स्त्री ग्रहाणां स्पष्टाधिकारे सि० शि० उक्ते घतु-र्विंशत्यर्द्धजीवाभेदे तन्मानं तत्रोक्तं यथा“तत्त्वाश्विनो नन्दसमुद्रवेदाश्चन्द्राद्रिषट्का गगनाङ्कनागाःपञ्चाभ्ररुद्रास्तिथिविश्वतुल्या आद्यैर्निरुक्ता नखवाण-चन्द्राः नन्दावनीशैलभुवो दिगङ्कचन्द्रा हुताशग्रहपू-र्णदस्राः तुरङ्गषट्काकृतयः कुरामसिद्धाः शराष्टेषुयमाःक्रमेण गजाश्विभान्यङ्कशराष्टदस्रास्तुरङ्गसप्तग्रहलोच-नानि अम्भोधिकुम्भ्यभ्रगुणास्तुरङ्गशैलेन्दुरामा रसभू-तदन्ताः कुदन्तलोका द्वितुरङ्गदेवा गोऽभ्राब्धिलोकाःकुगुणाब्धिरामाः भुजङ्गलोकाब्धिगुणाः क्रमज्या” मू०“इह हि स्पष्टीकरणप्रभृति सर्वकर्मार्घज्याभिः प्रतिपा-द्यते यतो ग्रहवलये कोऽप्यवधिभूतः प्रदेशोमध्य-शब्देनोच्यते तस्मान्मध्यसूत्रात् तिर्यक्स्थोग्रहो वलये-ऽर्धज्याग्रे भवति अतोऽर्धज्याभिः सर्वं कर्म तत्रभगणकलाङ्कितवृत्तचतुर्थांशे ईदृशान्येव चतुर्विंशति-र्ज्यार्धानि भवन्ति” प्रमिता० २४ क्रमज्याङ्काश्च यथा२२५ ४४९ ६७१ ८९० ११०५ १३१५ १५२० ।१७१९ १९१० २०९३ २२६७ २४३१ २५८५ ।२७२८ २८५९ २९७७ ३०८४ ३१७७ ३२५६ ।३३२१ ३३७२ ३४०९ ३४३१ ३४३८ ।तासां तथामानं समर्थितं सू० सि० रङ्गनाथाभ्यां यथा“राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते तत्तद्वि-भक्तलब्धोनमिश्रितं तद् द्वितीयकम् आदोनैवं क्रमात्पिण्डान् भक्त्वा लब्धोनसंयुताः खण्डकाः स्युश्चतुर्विंश-ज्ज्यार्धपिण्डाः क्रमादमी” सू० सि० ।“एकराशिकलानामष्टादशशतानामष्टमोंऽशस्तत्त्वाश्विमितः२२५ प्रथममाद्यं ज्यार्धं सम्पूर्णजीवार्धपिण्डकः कथ्यतेतदभिज्ञैः ततः प्रथमज्यार्धात् तेन प्रथमज्यार्धेन भक्ता-ल्लब्धेन हीनमन्यस्याप्रसङ्गात् प्रथमज्यार्धमनेन युक्तं तत्प्रथमज्यार्धं द्वितीयकं ज्यार्धं भवति द्विगुणप्रथममे-कोनम् तृतीयादीनामानयनार्थमुक्तप्रकारमतिदिशतिआद्येनेति प्रथमज्यार्द्धपिण्डेन एवमुक्तरीत्या क्रमात्सिद्धपिण्डान् भक्त्वा लब्धैरूनमाद्यं खण्डमनेन युताःखण्डका असिद्धाव्यवहितसिद्धज्यार्धपिण्डा असिद्धपिण्डाभवन्ति यथा प्रथमखण्डं २२५ प्रथमभक्तं फलं तेनहीमं खण्डं २२४ तेन युक्तं द्वितीयखण्डं ४४९ तच्चप्रथमभक्तं फलम् अर्धाधिकावयवस्यैकाधिकत्वेन ग्रह-णस्य साम्प्रदायिकत्वात् फलैक्येन रीनं प्रथमम् २२२अनेन द्वितीयखण्डो ४४९ युतस्तृतीयम् ६७१ एवमिदंप्रथमखण्डभक्तं फलम् अनेन पूर्वफलैक्येन युतं जातंसर्व्वफलैक्यम् अनेन प्रथमं खण्डं हीनम् २१९ अनेनतृतीय ६७१ युतं चतुर्थम् ८९० एवमिदं प्रथमखण्डभक्तंफलं पूर्व्वलब्धैक्येन रीनं प्रथमखण्डरूपं २१९ज्यान्तररूपखण्डकमतेन हीनं २१५ चतुर्थ ८९० युतंपञ्चमं ११०५ एवमग्रेऽपि अथोक्तरोत्याऽसङ्ख्यखण्डानांसम्भवात् खण्डनियममाह स्युरिति एवं चतुर्वंशत्स-ङ्ख्याका ज्यार्धपिण्डाः कार्या तदधिकाः “एक-विंशाच्च विंशाच्च षष्ठात् पञ्चदशादपि सप्तमाद्द्वादशात् स-प्तदशान्नार्धोत्तरं मतम्” इति ब्रह्मसिद्धान्तोक्तस्थलेऽर्धा-धिकावयवस्यैकाधिकत्वेन ग्रहणम् इतिध्येयम् ।गणितस्याविकृतत्वात् सिद्धाः पिण्डाः कथं नोक्ताः? इत्यतआह क्रमादिति अमी सिद्धाः पिण्डाः क्रमात्समनन्तरमेवोच्यन्ते अत्रोपपत्तिः समायां भूमौ वृत्तंभगणकलाङ्कितं तिर्यगूर्ध्वाधरव्यासमितरेखाभ्यां चतुर्भागंकार्यं तत्रोर्द्ध्वरेखासक्तपरिधिप्रदेशादुभयत्र समविभागंविगणय तदग्रयोर्बद्धं सूत्रं वृत्ते द्विगुणविभागमितस-म्पूर्णचापस्य सम्पूर्णज्या अत्र गणिते ऊर्द्ध्वरेखातोऽर्द्धज्याया एव प्रयोजनात् तदर्घचापस्यज्यार्धमर्धज्या ।एवं वृत्तचतुर्थांश ऊर्द्ध्वरेखातोऽभीष्टांशानां चापार्धाका-राणामर्धज्या अमीष्टा गण्याः तत्र भगवता स्वेच्छयावृत्तचतुर्धांशे त्रिराशिमिते चतुर्विंशज्ज्याः कल्पितास्त-ज्ज्ञानं तु वृत्ते चक्रकलानामङ्कितत्वात् तत्परिधिव्यासार्धंत्रिराशिज्यान्तिमा ३४३८ यदा भनन्दाग्निमितपरिधौ३९२७ खवाणसूर्य १२५० मितो व्यासस्तदा चक्रकलापरि-धौ इत्यनुपातेन व्यासानयनम् यथा चक्रकलाः२१६०० खवाणसूर्य १२५० पुणाः २७०००००० भनन्दाग्नि३९२७ भक्ता व्यासः ६८७६ एतदर्धमन्तिमा ज्या ३४३८ ।अथ वृत्ते चापज्ययोर्विवेके तयोरतुल्यत्वमपि भगवताकोऽपि वृत्तभागः समोऽस्त्यन्यथामलकादौ सर्षपाद्य-वस्थानं स्यादिति मत्वा तद्भागस्यज्या तत्तुल्यैवेत्युक्तम् ।“वृत्तस्य षण्णवत्यंशो दण्डवद्दृश्यते तु सः” इति शाक-ल्योक्तेः प्रथमज्या चक्रकलाद्वादशांशरूपैकराशिकला-नामष्टमोऽंशस्तत्त्वाश्विमितः २२५ एतन्मितमेव प्रथमचाप-मत एतदन्तरेणाभीष्टा ज्याश्चतुर्वंशत् अथ चतुर्विंशतिजीवानां यथोत्तरमुपचयात् तदन्तररूपखण्डानां यथो-त्तरमपचयस्य वृत्ते ज्याङ्कनेन प्रत्यक्षत्वाज्ज्यान्तररूप-खण्डानामन्तरं यथोत्तरमुपचितमिति द्वाविंशतित्रयो-विंशतिचतुर्विंशतिज्यानामन्तरयोरन्तरमिदं परमं खण्डा-न्तरं सूक्ष्मज्योत्पत्तिप्रकारेणावगतं १५ १६ ४८ ।अथ यदि त्रिज्ययेदं खण्डकान्तरं तदा प्रथमज्ययाकिमित्य नुपातेन फलप्रमाणयोः फलेनापवर्त्त्य प्रमाणस्थानेतत्त्वाश्विनोऽनेन भक्तः प्रथमर्ज्या फलं पूर्व्वद्वितीय-खण्डयोरन्तरम् अनेन पूर्व्वखण्डं हीनं द्वितीयंखण्डं भवति तत्र पूर्व्वखण्डं प्रथमज्यातुल्यमेव ।द्वितीयखण्डं प्रथमज्यायां युतं द्वितीयज्या एवमस्या-स्तत्वाश्विभागलन्धं द्वितीयतृतीयखण्डकयोरन्तरमनेनद्वितीयखण्डमूनं तृतीयखण्डमित्यनेन द्वितीयज्या युतातृतीयज्या एवं चतुर्थ्याद्याः तत्र पूर्बमर्धाभ्यधिकग्र-हणेनोत्तरत्राधिकान्तरपातसम्भावनया क्वचित् क्वचिदर्धा-भ्यधिकावयवस्यैकाधिकत्वेन ग्रहणम् इत्युपपन्नं श्लोक-द्वयम्” रङ्ग० उत्क्रमज्याङ्कास्तु ज्याशब्दे वक्ष्यन्ते