| YouTube Channel

क्रद (krada)

 
शब्दसागरः
English
क्रद r. 1st cl. (क्रदते) or (इ) क्रदि (क्रन्दति) 1. To confound, to confuse.
2. To
To grieve, to be confused
also (क्रन्दति)
1. To call, to cry out.
2.
To weep, to shed tears: see क्रन्द.
Wilson
English
क्रद r. 1st cl. (क्रदते) or (इ) क्रदि (क्रन्दति)
1 To confound, to confuse.
2 To grieve, to be confused
also (क्रन्दति)
1 To call, to cry out.
2 To weep, to shed tears: see क्रन्द.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्रद्
मूलधातुः:
क्रद
धात्वर्थः:
आह्वाने रोदने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः (आह्वाने अक. रोदने सक)
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्रदति, क्रदयति
अनुबन्धादिविशेषः:
घटादिः
शब्दकल्पद्रुमः
Sanskrit
क्रद, रोदने आह्वाने इति कविकल्पद्रुमः
(भ्वां--परं--अकं--आह्वाने सकं--सेट् इदित् ।)इ, क्रन्द्यते ततोऽक्रन्दीद्दशग्रीव इति क्रन्दतिभर्त्तारमिवाभिपन्नम् दुर्गादासमते तु षमङानुबन्धी यथा, ष, क्रन्दा म, क्रन्दयति ङ, क्रन्दते इति
क्रद, वैक्लव्यविकलत्वयोः इति कविकल्प-द्रुमः
(भ्वां--आत्मं--अकं--सेट्--घटां ।) ष, क्रदा ।म, क्रदयति ङ, क्रदते इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
क्रद रोदने वैकल्ये अक० आह्वाने
सक०
भ्वा०
पर०
इदित्सेट् क्रन्दति अक्रन्दीत् चक्रन्द भावे क्रन्द्यते क्रन्दि-तम् अव्यक्तशब्दकरणे “अक्रन्ददाग्नः स्तनयन्निव द्यौः”यजु० १२ अक्रन्दत् क्रन्दति विस्फूर्जति” वेददी० ।“यदक्रन्दः प्रथमं जायमानः” यजु० २९, १२ ।अनु + क्रन्दनेनानुगमने
सक०
अनुक्रन्दति पुत्रम् क्रन्दनेनानुयातिअभि + आभिमुख्येन शत्रुप्रभृतेराह्वाने
सक०
“अभिक्रन्दन्वृषायसे” ऋ० १० २१ “अभिक्रन्दन् आभिमुख्येनयुद्धार्थं शत्रूनाह्वन्” भा० “आभिमुख्येन शब्दकरणेअक० “अभिक्रन्द स्तनय गर्भम्” ऋ० ८३ ।“अभिक्रन्द भूम्यभिमुखं क्रन्द शब्दाय” मा० ।आ + आह्वानपूर्ब्धकरोदने
सक०
“आक्रन्दत् भीमसेनंवै” भा० व० १५७ अ० सम्यक्क्रन्दने “आक्रन्दिषुःसखीनह्वन्” भट्टिः “तदीयमाक्रन्दितमार्त्तसाधोः” रघुः ।सम् + + सम्यगाह्वानपूर्व्वकक्रन्दने “हा तात! धर्म्मरा-जेति समाक्रन्दन्महाभये” मा० आश्र० १०७३ श्लो०नि + यथानामशब्दोच्चारणे “न्यकन्दीज्जन्म प्रब्रुवाणोयथास्य शब्दस्तथा नामेरयति वाचम्” निरु० ।प्र + स्तवने “प्र वः स्पडक्रन्त् सुविता यः” ऋ० ५९ ।“अक्रन् स्तौति” भा० वेदे गणव्यत्ययात् शपीलुक् ।वि + विशेषेण क्रन्दने सम् सम्यक् क्रन्दने
क्रद वैकल्ये म्वा० आत्म० अक० सेट घटादि० क्रदते अक्रदिष्टचक्रदे णिच् क्रदयति यङ् वेदे कनिक्रद्यते यङलुकि कनिक्रत्ति कनिक्रदीति “उपस्थे वृषभः कनि-क्रदत्” ऋ० ७७ “कनिक्रदत् शब्दं कुर्वन्” मा० ।अनु + अनुगमने
सक०
“संनशेयं क्षौणीरनुचक्रदे” ऋ०८ १० “अनचक्रदे अनुगच्छति” भा०