क्रत्वर्थ (kratvartha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiक्रत्वर्थः
"पुं* , त*स*" - -
यज्ञ के प्रयोजन को पूरा करने के लिए साधनभूत सामग्री
वाचस्पत्यम्
Sanskritक्रत्वर्थ क्रतवेऽयम् अर्थेन सह नित्यस० विशेष्यतिङ्गताच, क्रतुरर्थोयस्य वा । क्रतूपकारके । तल्लक्षणादिकञ्चजै० सू० भाष्ययोर्दर्शितं यथा“अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा” १ सू० । “तृतीयेऽध्यायेश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोग-लक्षणमुक्तम् । इह इदानीं क्रत्वर्यपुरुषार्थौ जिज्ञास्येते, --कः क्रत्वर्थः? कः पुरुषार्थः? इति, यापि प्रयोजका-प्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थ-पुरुषार्थजिज्ञासैव । कथम्? । अङ्गं क्रत्वर्थः, प्रधानंपुरुषार्थः, फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः, प्रयोजकः कश्चित् पुरुषार्थो, ऽप्रयोजकः क्रत्वर्थः । तस्मात्“क्रत्वर्थपुरुषार्थयोर्जिज्ञासा”--इति सूत्रितम् । तत्रअथातःशब्दौ प्रथमे एवाध्याये प्रथमसृत्रे वर्णितौ ।अथेति प्रकृतं शेषविनियोगलक्षणमपेक्षते । अतः--इतिक्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते । क्रतये यः, सक्रत्वर्थः, पुरुषाय यः, स पुरुषार्थः । जिज्ञासाशब्दोऽपितत एव समधिगतः, --ज्ञातुमिच्छा जिज्ञासा--इति ।तदेतत् प्रतिज्ञासूत्रम्, --“क्रत्वर्थपुरुषार्थयोर्जिज्ञासा”--इति” । (४ । १ । १) शवरभाष्यम्“यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाऽवि-भक्तत्वात्” सू० २ ।“अथ किंलक्षणः क्रत्वर्थः, किंलक्षणः पुरुषाथः इतिलक्षणं वाच्यं, तथा हि लवीयसी प्रतिपत्तिः, उपदेशे गरीयसी तदुच्यते, --यस्मिन् प्रीतिः पुरु-षस्यं, (यस्मिन्कृते पदार्थे पुरुषस्य प्रीतिर्भवति) स पुरु-षार्थः पदार्थः । कुतः? । तस्य लिप्सा अर्थेन चभवति, न शास्त्रेण, क्रत्वर्थो हि शास्त्रात् अवगम्यते, नअन्यथा, अविभक्तो हि पुरुषार्थः प्रीत्या, यो यः प्री-तिसाधनः स पुरुषार्थः । पुरुषार्थं लक्षिते तद्विपरीतःक्रत्वर्थः--इति क्रत्वर्थस्य लक्षणं सिद्धम् (१ वर्ण्णकम्) ।एवं वा सूत्रं वर्ण्यते, --दर्शपूर्णमासयोराम्नायते, --‘अन-तिदृश्यं स्तृणाति अनतिदृश्यमेवैनं प्रजया पशुभिः करोति० इति तथा आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात्, वत्सजानुम् पशुकामस्य वेदिं कुर्यात्, गोदी हनेन पशुकामस्यप्रणयेत्”--इत्येवमादीति । तत्र संशयः, --किम् एवञ्जा-तीयकाः क्रत्वर्थाः उत पुरुषार्थाः--इति । किं प्राप्तम्--क्रत्वर्थाः इति । कुतः? प्रत्यक्ष उपकारस्तेभ्यो दृश्यतेक्रतोः, पुरीषहरणं वेदिस्तरणं च, तदुक्तं, (२ । १ । ३ सू०)द्रव्यगुणसंस्कारेषु वादरिः’--इति । तस्मात् क्रत्वर्थाः-एवं प्राप्ते ब्रूमः, यस्मिन प्रीतिः पुरुषस्य स पुरुषार्थ एवइति, पीतिस्तेभ्यो निर्वर्त्त्यते, तस्मात् एते पुरुषार्थाः--इति ।‘ननु प्रत्यक्षः उपकारः क्रतोर्दृश्यते--इत्युक्तम्’ । उच्यते-सत्यं दृश्यते, न तु क्रतोरुपकाराय एभ्यः सङ्कीर्त्तितेभ्यः, फलेभ्य एते श्रूयन्ते, न च य उपकरोति स शेषः, यस्तुयदर्थः श्रूयते, स तस्य शेषः--इत्युक्तं(३ । १ । २ सू०)‘शेषःपरार्थत्वात्’--इति । (२ वर्णकम्)एवं वा, द्रव्यार्जनम् उदाहरणम्, इह द्रव्यार्जनंतैस्तैर्नियभैः श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्यजयादिना, वैश्यस्य कृष्यादिना । तत्र सन्देहः, --किं क्र-त्वर्थो द्रव्यपरिग्रहः उत पुरुषार्थ इति । किं प्राप्तम्क्रत्वर्थो नियमात्, यद्येष पुरुषार्थः स्यात्, नियमोऽन-र्थको भवेत्, प्रत्यक्षेण एतत् अवगम्यते, --नियमादनिय-माच्चार्जितं द्रव्यं पुरुषं प्रीणयति--इति, तस्मात् क्रत्वथुःकामश्रुतिभिश्चास्य सहैकवाक्यता दृष्टा, इतरथा, अनुमे-येन फलवाक्येन सहैकवाक्यतां यायात् । लिङ्गं चापिभवति, --’अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्, यस्याहिताग्नेः सतोऽग्निर्गृ हान् दहेत्, यस्य हिरण्यंनश्येदाग्नेयादीनि निर्वपेत्--इत्येवमादि तद्धि द्रव्योपघातेचोद्यते यदि द्रव्यपरिग्रहः कर्मार्थः तत एतदपि सतिसम्बन्धे कर्मार्थम्--इत्युच्यते इतरथा असति सम्बन्धेकर्म्मार्यम्--इत्यनुमीयते फलं च अस्य कल्प्येत । तस्मात्यजतिश्रुतिगृहीतं द्रव्यार्जनं येन बिना यागो न निर्व-र्त्त्यते, स यागस्य श्रुत्या परिगृहीतः--इति गम्यते ।तस्मात् क्रत्वर्थः--इति ।एवं प्राप्ते ब्रूमः, --पुरुषार्थः--इति । यस्मिन् कृतेपदार्थे प्रीतिः पुरुषस्य भवति तस्मात् अस्य लिप्सा अ-र्थलक्षणा शरीरधारणार्था यस्य शरीरं ध्रियते व्यक्तंतस्यास्ति द्रव्यं शरीरिणां यागः श्रूयते तस्मात् विद्यमा-नद्रव्यस्य विनियोग उच्यते । न द्रव्यार्ञनं श्रुतिगृहीतंविनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य यागो निर्व-र्त्त्यत एव, तस्मात् पुरुषार्थो द्रव्यपरिग्रहः ।अपि च, यदि शास्त्रात् कर्मार्थं द्रव्यार्जनं, तन्नान्यत्रविनियुज्येत तयार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात् ।अपि च उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः, तत्र एतन्नोपपद्यते, --अपि वा एष सुवर्गाल्लोकाच्छिद्यते, यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाअतिपातयेत्’--इति एवञ्च सति प्रयोगकालाद्बहिरेतदङ्गंसदनुपकारकं स्यात् । न च आधानवत् भवितुमर्हति, तत्रहि वचनं--वसन्तेऽग्निमादधीत--इति न चैतत् अङ्गम्अथ युदुक्तं--नियमवचनम् अनर्थकं पुरुषार्थे द्रव्यपरि-ग्रहे सति--इति । उच्यते, नैतावता पुरुषार्थता व्याव-र्त्त्यतेप्रत्यक्षा हि सा, त्वया च परोक्षया युक्तिबुद्ध्या व्यपदिश्यते, न च परोक्षं प्रत्यक्षस्य बाधकं भवति, तस्मात्नियमवचनात् काममपरमदृष्टं कल्प्येत न तु दृष्टहानम्तस्मात् यत् पुरुषस्य प्रयोजनं प्रीतिः तदर्थं धनस्य अ-र्जनम्--इत्येवं च सति व्रीहिणा यागः कर्त्तव्यः प्रीत्यर्थ-मर्जितेन वा क्रत्वर्थमर्जितेन वा न अत्र कश्चित् विशेषःप्रीत्यर्थम् उपार्जितोऽपि व्रीहिः व्रीहिरेव, कर्मार्थम्उपार्जितोऽपि व्रीहिः व्रीहिरेव । तस्मात् न प्रयोगचो-दनागृहीतं द्रव्यार्जनम् । अथ यदुक्तम्--अनुमेयेनाप्रकृ-तेन वा शव्देन युष्मत्पक्षे नियमख एकवाक्यता, अस्मत्पक्षेतु दृष्टेन प्रयोगपचनेन--इति नैष दोषः अस्मत्पक्षेऽपिदृष्टेन भुजिना न फलवचनेन । ‘कथं तर्हि--नियमाद-दृष्ट भवति--इति गम्यते’ । यथैव भवदीये पक्षे ।आह अस्मत्पक्षे फलवत एकवाक्यभावात् फलवत उप-करोति इति गम्यते’ । उच्यते अस्मत्पक्षेऽपि फल-वत एवैकवाक्यभावः, एतावांस्तु विशेषः--तव श्रुतं फलंमम तु दृष्टम् । अथ यत् लिङ्गम् उक्तं--गृहदाहादिषुकर्म श्रूयते--इति । तत्र उच्यते यद्यपि न क्रत्वर्थं द्रव्या-र्जनं तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावायवा क्षामवत्यादीनां विधानम् उपपद्यत एव । तस्मात्पुरुषार्थं द्रव्यार्जनं प्रीत्या हि तदविभक्तम्” भाष्यम्तत आरभ्य क्रत्वर्थाः पदार्थास्तत्र दर्शिताः ततएवावगम्याः
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
