| YouTube Channel

क्रतुपुरुषः (kratupuruSaH)

 
शब्दकल्पद्रुमः
Sanskrit
क्रतुपुरुषः,
पुं,
(क्रतुः यज्ञः तन्मयः तदधिष्ठाता वापुरुषः ।) विष्णुः इति त्रिकाण्डशेषः
(अयं हि वराहरूपियज्ञपुरुषः यदुक्तं भाग-वते १३ २१--२४ ।“किमेतत्शौकरव्याजं सत्त्वं दिव्यमवस्थितम् ।अहोवताश्चर्य्यमिदं नासाया मे विनिःसृतम्
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद् गण्डशिलासमः ।अपिस्विद्भगवानेष यज्ञो मे खेदयन् मनः
इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः ।भगवान् यज्ञपुरुषो जगर्जाऽङ्गेन्द्रसन्निभः
ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।स्वगर्जितेन ककुभः प्रतिस्वनतया विभुः”
अस्य रूपवर्णनं यथा, तत्त्रैव ३५--३८ ।“रूपं तवैतन्नतु दुष्कृतात्मनांदुर्दर्शनं देव ! यदध्वरात्मकम् ।छन्दांसि यस्य त्वचि वर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्
स्रुक् तुण्ड आसीत् स्रुव ईश ! नासयो-रिडोदरे चमसाः कर्णरन्ध्रे ।प्राशित्रमास्ये ग्रसने ग्रहास्तु तेयच्चर्वणन्ते भगवन्नग्निहोत्रम्
दीक्षानुजन्मोपसदः शिरोधरंते प्रायणीयोदयनीयदंष्ट्रः ।जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोःसभ्यावसथ्यं चितयोऽसवो हि ते
सोमस्तु रेतः सवनान्यवस्थितिःसंस्थाविभेदास्तव देव ! धातवः ।सत्राणि सर्व्वाणि शरीरसन्धय-स्त्वं सर्व्वयज्ञक्रतुरिष्टिबन्धनः”
अत्र श्रीधरस्वामिना यद्व्याख्यातं तद्यथा, “यज्ञात्मतां प्रपञ्चयन्तः स्तुवन्ति रूपमित्यादिचतुर्भिः छन्दांसि गायत्र्यादीनि यज्ञाङ्गभूतछन्द-आद्यनुवादेन भगवदवयवता विधीयते वर्हिःशब्दे दीर्घाभावः आर्षः दृशि चक्षुषि चातु-र्होत्रं होत्रादिचतुष्टयं कर्म्म स्रुक् जुहूः ।तुण्डे मुखाग्रे स्रुवो नासिकयोः इडा भक्षण-पात्रं चमसा ग्रहाश्च सोमपात्राणि प्राशित्रंब्रह्मभागपात्रम् ग्रस्यतेऽनेनेति ग्रसनं मुखान्त-र्वर्त्तिच्छिद्रं चर्व्वणं भक्षणम् दीक्षा दीक्षणीयेष्ठिःअनुजन्म वारंवारं अभिव्याप्तिः उपसदस्तिस्रइष्टयः शिरोधरं ग्रीवा प्रायणीया दीक्षानन्त-रेष्टिः उदयनीया समाप्तीष्टिः ते एव द्रंष्ट्रे यस्य ।प्रवर्ग्यो महावीरः प्रत्युपसदः पूर्व्वं क्रियते सभ्योहोमरहितोऽग्निः आवसथ्य औपासनाग्निः ततोद्वन्दैक्यं क्रतुजपस्य शीर्षकं शिरः चितयः इष्ट-कावचयनानि पञ्च असवः प्राणाः प्रातः सवना-दीनि अवस्थितिरासनं बाल्याद्यवस्था वा अग्नि-ष्टोमो इत्यग्निष्टोमः उक्थः षोडशी वाजपेयो-ऽतिरात्रः आप्तोर्यामः इति सप्तसंस्थाविभेदाःसप्तत्वड्मांसादिधातवः सत्राणि द्वादशाहा-दीनि बहुयागसङ्घातरूपाणि असोमा यज्ञाःससोमाः क्रतवस्तद्यूपस्त्वं इष्टिर्यजनं अनुष्ठानञ्चतदेवबन्धनं यस्य सः”
)