| YouTube Channel

क्रतुपुरुष (kratupuruSa)

 
शब्दसागरः
English
क्रतुपुरुष
m.
(-षः) A name of VISHNU.
E.
क्रतु, and पुरुष man or male.
Yates
English
क्रतु-पुरुष (षः) 1.
m.
Vishnu.
Wilson
English
क्रतुपुरुष
m.
(-षः) A name of VIṢṆU.
E.
क्रतु, and पुरुष man or male.
Monier Williams Cologne
English
क्रतु—पुरुष
m.
N.
of Viṣṇu,
L.
Shabdartha Kaustubha
Kannada
क्रतुपुरुष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಷ್ಣು /ಯಜ್ಞಸ್ವರೂಪನಾದ ಪುರುಷಾಕಾರದ ಯಜ್ಞವರಾಹಸ್ವಾಮಿ
व्युत्पत्तिः - > क्रतुः पुरुष इव
L R Vaidya
English
kratu-puruza {% m. %} an epithet of Vishṇu.
अभिधानरत्नमाला
Sanskrit
विष्णु
विष्णु, कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम
विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः २१
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् २२
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं
उपेन्द्रमिन्द्रावरजं बभ्रं हरिं हृषीकेशमुदाहरन्ति २३
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः
नारायणो जगन्नाथो वनमाली गदाधरः २४
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः २५
verse 1.1.1.21
page 0004
शब्दकल्पद्रुमः
Sanskrit
क्रतुपुरुषः,
पुं,
(क्रतुः यज्ञः तन्मयः तदधिष्ठाता वापुरुषः ।) विष्णुः इति त्रिकाण्डशेषः
(अयं हि वराहरूपियज्ञपुरुषः यदुक्तं भाग-वते १३ २१--२४ ।“किमेतत्शौकरव्याजं सत्त्वं दिव्यमवस्थितम् ।अहोवताश्चर्य्यमिदं नासाया मे विनिःसृतम्
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद् गण्डशिलासमः ।अपिस्विद्भगवानेष यज्ञो मे खेदयन् मनः
इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः ।भगवान् यज्ञपुरुषो जगर्जाऽङ्गेन्द्रसन्निभः
ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।स्वगर्जितेन ककुभः प्रतिस्वनतया विभुः”
अस्य रूपवर्णनं यथा, तत्त्रैव ३५--३८ ।“रूपं तवैतन्नतु दुष्कृतात्मनांदुर्दर्शनं देव ! यदध्वरात्मकम् ।छन्दांसि यस्य त्वचि वर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्
स्रुक् तुण्ड आसीत् स्रुव ईश ! नासयो-रिडोदरे चमसाः कर्णरन्ध्रे ।प्राशित्रमास्ये ग्रसने ग्रहास्तु तेयच्चर्वणन्ते भगवन्नग्निहोत्रम्
दीक्षानुजन्मोपसदः शिरोधरंते प्रायणीयोदयनीयदंष्ट्रः ।जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोःसभ्यावसथ्यं चितयोऽसवो हि ते
सोमस्तु रेतः सवनान्यवस्थितिःसंस्थाविभेदास्तव देव ! धातवः ।सत्राणि सर्व्वाणि शरीरसन्धय-स्त्वं सर्व्वयज्ञक्रतुरिष्टिबन्धनः”
अत्र श्रीधरस्वामिना यद्व्याख्यातं तद्यथा, “यज्ञात्मतां प्रपञ्चयन्तः स्तुवन्ति रूपमित्यादिचतुर्भिः छन्दांसि गायत्र्यादीनि यज्ञाङ्गभूतछन्द-आद्यनुवादेन भगवदवयवता विधीयते वर्हिःशब्दे दीर्घाभावः आर्षः दृशि चक्षुषि चातु-र्होत्रं होत्रादिचतुष्टयं कर्म्म स्रुक् जुहूः ।तुण्डे मुखाग्रे स्रुवो नासिकयोः इडा भक्षण-पात्रं चमसा ग्रहाश्च सोमपात्राणि प्राशित्रंब्रह्मभागपात्रम् ग्रस्यतेऽनेनेति ग्रसनं मुखान्त-र्वर्त्तिच्छिद्रं चर्व्वणं भक्षणम् दीक्षा दीक्षणीयेष्ठिःअनुजन्म वारंवारं अभिव्याप्तिः उपसदस्तिस्रइष्टयः शिरोधरं ग्रीवा प्रायणीया दीक्षानन्त-रेष्टिः उदयनीया समाप्तीष्टिः ते एव द्रंष्ट्रे यस्य ।प्रवर्ग्यो महावीरः प्रत्युपसदः पूर्व्वं क्रियते सभ्योहोमरहितोऽग्निः आवसथ्य औपासनाग्निः ततोद्वन्दैक्यं क्रतुजपस्य शीर्षकं शिरः चितयः इष्ट-कावचयनानि पञ्च असवः प्राणाः प्रातः सवना-दीनि अवस्थितिरासनं बाल्याद्यवस्था वा अग्नि-ष्टोमो इत्यग्निष्टोमः उक्थः षोडशी वाजपेयो-ऽतिरात्रः आप्तोर्यामः इति सप्तसंस्थाविभेदाःसप्तत्वड्मांसादिधातवः सत्राणि द्वादशाहा-दीनि बहुयागसङ्घातरूपाणि असोमा यज्ञाःससोमाः क्रतवस्तद्यूपस्त्वं इष्टिर्यजनं अनुष्ठानञ्चतदेवबन्धनं यस्य सः”
)
वाचस्पत्यम्
Sanskrit
क्रतुपुरुष
पु०
क्रतुः पुरुष इव पुरुषाकारे क्रतुमये यज्ञव-राहे तद्रूपवर्णनञ्च हरिवं० २२४ अ०“वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः अग्निजिह्वो दर्भ-रोमा ब्रह्मशीर्षो महातपाः अहरात्रेक्षणधरो वेदाङ्ग-श्रुतिभूषणः आज्यनासः स्रुवतुण्डः सामषोषस्वनोमहान् सत्यधर्म्ममयः श्रीमान् क्रमविक्रमसत्कृतः ।क्रियासत्रमहावोणः पुशुजानुर्म्मखाकृतिः उद्गात्रन्त्रोहोमलिङ्गो वीजौषधिमहाफलः वाय्वन्तरात्मा सत्रस्फिक्विकृतः सोमशोणितः वेदिस्कन्धो हविर्गन्धो हव्यक-व्यातिवेगवान् प्राग्वंशकायो द्युतिमान्नानादीक्षाभिर-न्वितः दक्षिणाहृदयो योगी महासत्रमयो महान् ।उपाकर्म्मौष्ठरुचकः प्रवर्ग्यावर्त्तभूषणः नानाच्छन्दोग-तिपथो गुह्योपनिषदासनः छायापत्नीसहायो वै मणि-शृङ्ग इवोच्छ्रितः भूत्वा यज्ञपराहोऽसौ द्रागधःपाविशद्गुरुः” ।“रूपं तवैतन्ननु दुष्कृतात्मगां दुर्दर्शनं देव! यदध्वरात्मकम् ।छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातु-र्होत्रम् स्रुक्तुण्ड आसीत् स्रुव ईश! नासयोरिडोदरे चमसाः कर्णरन्घ्रे प्राशित्रमास्ये ग्रसते ग्रहास्तु तेयच्चर्वणन्ते भगवन्नग्नितोत्रम् दीक्षानुजन्मोपसदः शिरोधरं तेप्रायणीयोदयनीयदंष्ट्र! जिह्लाप्रवर्ग्यस्तव शीर्षकंक्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते सोमस्तु रेतःसवनान्यवस्थितिः संस्थाविभेदास्तव देव! धातवः! सत्राणिसर्वाणि शरीरसन्धयस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः” ।भाग० १३ अ० ।“यज्ञात्मतां प्रपञ्चयन्तः स्तुवन्ति रूपमित्यादि चतुर्भिःछन्दांसि गायत्र्यादीनि यज्ञाङ्गभूतछन्दआद्यनुवादेनभगवदवयवता विधीयते बर्हिःशब्दे दीर्घाभाव आर्षःदृशि चक्षुषि चातुर्होत्रं हौत्रादिचतुष्टयं कर्म्म स्रुक्जुहूः तुण्डे मुखाग्रे स्रुवोनासिकयोः इडाभक्षणपात्रं चमसा ग्रहाश्च सोमपात्राणि प्राशित्रं ब्रह्मभागपात्रं ग्रस्यतेऽनेनेति ग्रसनं मुखान्तर्वर्त्ति च्छिद्रं चर्वणंभक्षणम् दीक्षा दीक्षणीयेष्टिः अनुजन्म वारं बारम्अभिव्याप्तिः उपसदस्तिस्र इष्टयः शिरोधरं ग्रीवा प्रा-यणीया दीक्षानन्तरेष्टिः उदयनीया समाप्तीष्टिः ते एवदंष्ट्रे यस्य प्रवर्ग्यो महावीरः प्रत्युपसदः पूर्व्वं क्रियते ।सभ्योहोम रहितोऽग्निः आसबथ्यः औपासनाग्निः ततोद्वन्द्वैक्यं तव क्रतुरूपस्य शीर्षकं शिरः चितयः इष्टका-चयनानि पञ्च असवः प्राणाः प्रातःसवनादीनिअवस्थितिरासनं बाल्याद्यवस्था वा अग्निष्टोमोऽत्य-ग्निष्टोमः उक्थः षोडशी वाजपेयोऽतिरात्रः आप्तोर्यामःइति सप्त संस्थाविभेदाः सप्त त्वडमांसादिधातवः सत्राणिद्वादशाहादीनि वहुयागसङ्घातरूपाणि, असोमा--यज्ञाःससोमाः क्रतवस्तद्रूपस्त्वं इष्टिर्यजनं अनुष्ठानञ्च तदेवबन्धनं यस्य सः” श्रीधरः