| YouTube Channel

क्रकचव्ययद्वार (krakacavyayadvAra)

 
वाचस्पत्यम्
Sanskrit
क्रकचव्ययद्वार
पु०
लीलावत्युक्ते क्रकचच्छेद्यवस्तुनोवेतनज्ञानार्थे तत्फलज्ञापके गणितभेदे यथा“क्रकचव्यवहारे करणसूत्रं वृत्तम् पिण्डयोगदल-मग्रमूलयोर्दैर्घ्यसङ्गुणितगङ्गुलाप्लकम् दारुदारणपथैःसमाहतं षट्स्वरेषुविहृतं करात्मकम् उदाहरणम् ।मूले नखा(२०)ङ्गुलमितोऽथ नृपा(१६)ङ्गुलोऽग्रे पिण्डःशताङ्गुलमितं किल यस्य दैर्घ्यम् तद्दारुदारणपथेषुचतुर्षु किं स्याद्वस्तात्मकं वद सखे! गणितं द्रुतं मे ।(तदाकारदर्शनचित्रम्)२० क्राकअंदारुविषमम् २६, १००न्यासःपिण्डयोग ३६ दलं १८ दैर्घ्येण १०० सङ्गु-णितं १८०० दारुदारणपथैश्चतुर्भिगुणितं ७२०० ।षटस्वरेषु ५७६ विहृत जातं करात्मकंगणितं २५/२ ।क्रकचान्तरे करणसूत्रं सार्द्धवृत्तम् छिद्यते तु यदितिय्यपुक्तवत्पिण्डविस्तृतिहतेः फलं तदा इष्टिकाचिति-दृषच्चितिखातक्राकचव्यवहृतौ खलु मूल्यम् कर्म्मकार-जनसम्प्रतिपत्त्या तन्मृदुत्वकठिनत्ववशेन उदाहरणम् ।यद्विस्तृतिर्द्दन्त ३२ मिताङ्गुलानि पिण्डिस्तथा षोडशयत्र काष्ठे छेदेषु तिर्य्यङ्गवसु प्रचक्ष्वकिं स्यात् फलंतत्र करात्मकं मे
न्यासः विस्तारः ३२ पिण्डः १६ पिण्डविस्तृतिहतिः(तदाकारचित्रम् ।)३२१६ का व्यं का ष्ठि न् १६३२५१२ दारुदारणमार्गैर्नवभिर्हता ४६०८ षट्-स्वरेषु ५७६ विहृता जातं फलं हस्ताः ।”