| YouTube Channel

क्नूय (knUya)

 
शब्दसागरः
English
क्नूय r. 1st cl. (इ) क्नूया (क्नुयते) 1. To sound.
2. To be wet.
3. To stink.
Yates
English
क्नूय (ङ, ई) क्नूयते 1.
d. To sound
be
wet
have an offensive smell.
Wilson
English
क्नूय r. 1st cl. (ई) क्नूया (क्नूयते)
1 To sound.
2 To be wet.
3 To stink.
शब्दकल्पद्रुमः
Sanskrit
क्नूय, दुर्गन्धे आर्द्रत्वे शब्दे इति कविकल्प-द्रुमः
दन्त्यनकारयुक्तो दीर्घी (भ्वां--आत्मं--अकं--सेट्--ईर्निष्ठायामनिट् ।) तथा क्नूयोस्फायति ते विदेव इमे सेविश्च मेविस्तता ।इति शार्द्दूलविक्रीडिते चण्डेश्वरः
ई, क्नूतः ङ, क्नूयते मत्स्यः दुर्गन्धः स्यादित्यर्थः क्नूयते वस्त्र-मम्भसा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
क्नूय दुर्गधे आर्द्रीमावे शब्दे
भ्वा०
आत्म० अक० सेट् ।कूयते अक्नूयिष्ट चुक्नूय णिचि क्नोपयति ते अस्यचेलार्थककर्म्मण्वुपपदे णमुल् चेलङ्गोपम् वस्त्रक्नोपम् ।“यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृधे मदनेन”माघः “वस्त्रं क्नोपयित्वा परिषिच्येत्यर्थः” मल्लि० अ-भि + अतिव्याप्त्या आर्दीभावकरणे पतीभावकरणे
सक०
“आपो वै सर्वमन्नं ताभिर्हीदमभिक्रूयमिवादन्ति”शत० ब्रा० १४ १४ यान्तत्वात् ताच्छील्ये नातोयुच्किन्तु तृच् क्नूयिता इत्येव