| YouTube Channel

क्नूञ् (knUJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्नूञ्
मूलधातुः:
क्नू
धात्वर्थः:
शब्दे
गणः:
क्र्यादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
क्नूनाति-क्नूनीते
अनुबन्धादिविशेषः:
ञित्
धातुप्रदीपः
Sanskrit
क्नूञ् शब्दे
- स्कूनाति स्कूनीते चुक्नाव चुक्नुवे क्नविता अक्नावीत् स्कूतः सर्वस्वे तु क्नुञ् शब्द इति (2) 8
क्षीरतरङ्गिणी
Sanskrit
क्नूञ् शब्दे
- इतो गॄपर्यन्ता (927) विंशतिः सेटः क्नूनाति, क्नूनीते, क्नविता 8
धातुवृत्तिः
Sanskrit
क्नूञ् (अर्थः) शब्दे
एतदादयो धूञन्ता उदात्ता उभयतो भाषाः (क्नूनाति क्नूनीते) इत्यादि स्कूनातिवत् ( चुक्नाव चुक्नुवतुः चुक्नुवे चुक्नुवाते ) आर्द्धधातुके त्विड्भवति ( क्नविता क्नविष्यति क्नविषीष्ट अक्नवीत् अक्नविष्ठाः ) सनि तूगन्तत्वात् "सनि ग्रहगुहोश्च'' इतीण्निषेधः ( चुक्नूषति चुक्नूषते ) इत्यादि 8
कृदन्तरूपमाला
Sanskrit
1 {@“क्नूञ् शब्दे”@} 2 क्नावकः-विका, क्नावकः-विका, 3 चुक्नूषकः-षिका, 4 चोक्नूयकः-यिका
क्नविता-त्री, क्नावयिता-त्री, चुक्नूषिता-त्री, चोक्नूयिता-त्री
5 क्नूनन् 6 -ती, क्नावयन्-न्ती, चुक्नूषन्-न्ती
-- क्नविष्यन्-न्ती-ती, क्नावयिष्यन्-न्ती-ती, चुक्नूषिष्यन्-न्ती-ती
-- क्नूनानः, क्नावयमानः, चुक्नूषमाणः, चोक्नूयमानः
क्नविष्यमाणः, क्नावयिष्यमाणः, चुक्नूषिष्यमाणः, चोक्नूयिष्यमाणः
क्नूः-क्नुवौ-क्नुवः
-- -- -- 7 क्नूतम्-तः, क्नावितः, चुक्नूषितः, चोक्नूयितः-तवान्
क्नवः, 8 क्नवनः, क्नावः, चुक्नूषुः, 9 चोक्नुवः
क्नवितव्यम्, क्नावयितव्यम्, चुक्नूषितव्यम्, चोक्नूयितव्यम्
10 क्नवनीयम्, क्नावनीयम्, चुक्नूषणीयम्, चोक्नूयनीयम्
11 क्नव्यम्- 12 अवश्यक्नाव्यम्, क्नाव्यम्, चुक्नूष्यम्, चोक्नूय्यम्
ईषत्क्नवः-दुष्क्नवः-सुक्नवः
-- -- क्नूयमानः, क्नाव्यमानः, चुक्नूष्यमाणः, चोक्नूय्यमानः
क्नवः, क्नावः, चुक्नूषः, चोक्नूयः
क्नवितुम्, क्नावयितुम्, चुक्नूषितुम्, चोक्नूयितुम्
क्नूतिः, क्नावना, चुक्नूषा, चोक्नूया
क्नवनम्, क्नावनम्, चुक्नूषणम्, चोक्नूयनम्
क्नूत्वा, क्नावयित्वा, चुक्नूषित्वा, चोक्नूयित्वा
प्रक्नूय, विक्नाव्य, प्रचुक्नूष्य, प्रचोक्नूय्य
क्नावम् २, क्नूत्वा २, क्नावम् २, क्नावयित्वा २, चुक्नूषम् २, चुक्नूषित्वा २, चोक्नूयम्
चोक्नूयित्वा २।
प्रासङ्गिक्यः
01
=>
(२६६)
02
=>
(९-क्यादिः-१४८०। अक। सेट्। उभ।)
03
=>
[[२। ‘सनि ग्रहगुहोश्च (७-४-८२) इतीण्णिषेधः। ‘इको झल्’ (१-२-९) इति कित्त्वान्न गुणः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[३। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणः। ‘कुहोश्चुः’ (१-४-६२) इति अभ्यासे चुत्वम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[४। ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः एवं। शानजन्तेऽपि।]]
06
=>
[[आ। ‘क्रीणन् गुणैर्जनमतिं प्रियरूप ईशः मांसश्रियां प्रमयकृत् सितपीतचेलः। मोदस्कुतोऽथ कबरीं प्रयुनन् सरामः क्नूनन् मृदङ्गमिह रङ्गमगाद् अरिद्रूः।।’ धा। का ३-५।]]
07
=>
[[५। ‘श्र्युकः क्किति’ (७-२-११) इतीण्णिषेधः। एवं क्त्वायामपि।]]
08
=>
[[६। ‘चलनशब्दार्थादकर्मकात्’ (३-२-१४८) इति ताच्छीलिको युच्।]]
09
=>
[[७। ‘यङोऽचि च’ (२-४-७४) इति लुकि, ‘अचि श्नुधातु--’ (६-४-७७) इत्यादिना उवङ्।]]
10
=>
[पृष्ठम्०२७२+ २६]
11
=>
[[१। ‘अचो यत्’ (३-१-९७) इति यति गुणः। ‘एचोऽयवायावः’ (६-१-७८) इत्य- वादेशः।]]
12
=>
[[२। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]