| YouTube Channel

क्नसितः (knasitaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्नसु ह्वरणदीप्त्योः”@} 2 ह्वरणम् = कौटिल्यम्।
क्नासकः-सिका, 3 क्नसकः-सिका, चिक्नसिषकः-षिका, चाक्नसकः-सिका
क्नसिता-त्री, क्नसयिता-त्री, चिक्नसिषिता-त्री, चाक्नसिता-त्री
4 क्नस्यन्-न्ती, क्नसयन्-न्ती, चिक्नसिषन्-न्ती
-- 5 क्नसिष्यन्-न्ती-ती, क्नसयिष्यन्-न्ती-ती, चिक्नसिषिष्यन्-न्ती-ती
-- 6 व्यतिक्नस्यमानः, क्नसयमानः, -- चाक्नस्यमानः
व्यतिक्नसिष्यमाणः, क्नसयिष्यमाणः, -- चाक्नसिष्यमाणः
7 क्नः, 8 विक्नः-विक्नसौ-विक्नसः
-- -- 9 क्नस्तम्-स्तः-स्तवान्, क्नसितः, चिक्नसिषितः, चाक्नसितः-तवान्
क्नसः, क्नसः, चिक्नसिषुः, चाक्नसः
क्नसितव्यम्, क्नसयितव्यम्, चिक्नसिषितव्यम्, चाक्नसितव्यम्
क्नसनीयम्, क्नसनीयम्, चिक्नसिषणीयम्, चाक्नसनीयम्
क्नास्यम्, क्नस्यम्, चिक्नसिष्यम्, चाक्नस्यम्
ईषत्क्नसः-दुष्क्नसः-सुक्नसः
-- -- -- क्नस्यमानः, क्नस्यमानः, चिक्नसिष्यमाणः, चाक्नस्यमानः
क्नासः, 10 चक्नसः, क्नसः, चिक्नसिषः, चाक्नसः
क्नसितुम्, क्नसयितुम्, चिक्नसिषितुम्, चाक्नसितुम्
क्नस्तिः, क्नसना, चिक्नसिषा, चाक्नसा
क्नसनम्, क्नसनम्, चिक्नसिषणम्, चाक्नसनम्
11 क्नसित्वा-क्नस्त्वा, क्नसयित्वा, चिक्नसिषित्वा, चाक्नसित्वा
प्रक्नस्य, 12 प्रक्नसय्य, प्रचिक्नसिष्य, प्रचाक्नस्य
13 क्नासम् २, क्नसित्वा -क्नस्त्वा २, 14 क्नसम् -क्नासम् २, क्नसयित्वा २, चिक्नसिषम् २, चिक्नसिषित्वा २, चाक्नसम्
चाक्नसित्वा २।
प्रासङ्गिक्यः
01
=>
(२६५)
02
=>
(४-दिवादिः-१११३। अक। सेट्। पर।)
03
=>
[[५। ‘जनीजॄष्क्नसु--’ (गणसूत्रं घटादौ) इति मित्त्वे, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधायाः ह्रस्वः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[६। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। ‘शप्श्यनोर्नित्यम्’ (७-१-८१) इति स्त्रियां नित्यम् नुम्।]]
05
=>
[पृष्ठम्०२७०+ २४]
06
=>
[[१। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति आत्मनेपदम् शानच्।]]
07
=>
[[आ। ‘दीव्यन् देवो विचित्रस्युवमथ रजकं प्रैक्षतास्र्यूतमग्रे ष्ठीव्यन्तं तत्र तत्र स्नुसितफलगणान् क्नोव्युषः प्योसहीनम्।’ धा। का। २-५६। क्नसां-कुटिलीभवतां व्युषः-दाहकः इत्यर्थः। क्विबन्तस्य समासः।]]
08
=>
[[२। ‘ससजुषोः--’ (८-२-६६) इति रुत्वे विसर्गः। ‘अत्वसन्तस्य--’ (६-४-१४) इत्यत्र ‘अधातोः’ इत्युक्तत्वात् दीर्घः।]]
09
=>
[[३। क्त्वायां वेट्त्वात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
10
=>
[[४। घञर्थे कविधानम्। ‘द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम्’ (वा। ६-१-१२) इति द्वित्वम्।]]
11
=>
[[५। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः।]]
12
=>
[[६। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
13
=>
[पृष्ठम्०२७१+ २२]
14
=>
[[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]