| YouTube Channel

कौशिकात्मजः (kauzikAtmajaH)

 
शब्दकल्पद्रुमः
Sanskrit
कौशिकात्मजः,
पुं,
(कौशिकस्य इन्द्रस्य आत्मजः ।जयन्तः
पाण्डुराजपत्न्यां कुन्त्यां इन्द्रौरसजातत्वात्अर्ज्जुनस्यापि तथात्वम् ।) अर्ज्जुनः इति शब्द-माला
(अस्य जन्मविवरणं यथा, महाभारते ।१ १२३ ३२ ।“एवमुक्ता ततः शक्रमाजुहाव यशस्विनी ।अथाजगाम देवेन्द्रो जनयामास चार्ज्जुनम्”
कौशिकस्य विश्वामित्रस्य आत्मजः इति विग्रहेविश्वामित्रपुत्त्रः शुनःशेर्फादिः
)