| YouTube Channel

कौशं (kauzaM)

 
शब्दकल्पद्रुमः
Sanskrit
कौशं,
क्ली,
(कुशाः प्राचुर्य्येण भूम्ना वा सन्त्यत्र इत्यण् ।)कान्यकुब्जदेशः इति हेमचन्द्रः
(कुश + स्वार्थेअण् कुशद्वीपः यथा, सिद्धान्तशिरोमणौ ।“शाकं ततः शाल्मलमत्र कौशम्”
कोशे भवम् कृमिकोशोद्भवं पट्टवस्त्रम् यथा, भागवते ।“दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च”
एतदुपलक्षितं कृष्णं अद्राक्षमित्यन्वयः
कुशस्येदं तद्विकारो वा अण् कुशमयम् कुश-सम्बन्धि वा यथा, महाभारते १३ १९ २९ ।“तत्र वासाय शयने कौश्ये सुखमुवास ह”
स्त्रियां ङीप् कौशी तत्रैव १३ ५४ २१ ।“कौश्यां वृष्यां समासीनं जपमानं महाव्रतम्”
)