| YouTube Channel

कोष्णं (koSNaM)

 
शब्दकल्पद्रुमः
Sanskrit
कोष्णं,
क्ली,
(कु ईषत् उष्णम् कोः कादेशः ।)ईषदुष्णम् तत्पर्य्यायः कवोष्णम् मन्दोष्णम् ३कदुष्णम् तद्वति त्रि इत्यमरः ३५
(यथा, रघौ ८४ ।“भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।प्रस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्त्तिना”
)