| YouTube Channel

कोषाम्रं (koSAmraM)

 
शब्दकल्पद्रुमः
Sanskrit
कोषाम्रं,
क्ली,
(कोषे आम्रफलमिव ।) फलविशेषः ।केओडा इति भाषा अस्य गुणाः कफवायुना-शित्वम् अग्निदीपनत्वम् मलबद्धताकारित्वञ्च ।इति राजवल्लभः
(क्वचित् पुंलिङ्गोऽपि दृश्यते ।यथा, भावप्रकाशे ।“कोषाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः ।तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम् ।पक्वन्तु दीपनं रुच्यं लघूष्णं कफवातहृत्”
)तालव्यमध्यमपीदम्