| YouTube Channel

कोषातकी (koSAtakI)

 
शब्दकल्पद्रुमः
Sanskrit
कोषातकी,
स्त्री,
(कोषातक + गौरादित्वात् ङीष् ।)घोषालता अस्याः फलगुणः कफार्शोनाशि-त्वम्
पक्वफलगुणः आमाशयशुद्धिकारित्वम्
इति राजवल्लभः
(इयमेव क्वचित् राजपूर्व्वाकोषातकीति ख्याता यथा, भावप्रकाशे ।“धामार्गवः पीतपुष्पा जालिनी कृतवेधना ।राजकोषातकी चेति तथोक्ता राजिमत्फला
राजकोषातकी शीता मधुरा कफवातला ।पित्तघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत्”
अस्या व्यवहारो यत्र तद्यथा, --“कोषातकीनां स्वरसेन नस्यंतुम्ब्यास्तु वा पिप्पलिसंयुतेन ।तैलेन वारिष्टभवेन कुर्य्या-द्वचोपकुल्ये सह माक्षिकेण”
इति वैद्यकचक्रपाणिसंग्रहे गलगण्डाद्यधिकारे
)ज्योत्स्निका झिङ्गा इति भाषा ज्योत्स्नावतीरात्रिः इत्यमरभरतौ
तालव्यमध्यापीयम्