कोषपानं (koSapAnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritकोषपानं, (परीक्षाविशेषार्थं कोषजलस्य प्रसृ-तित्रयजलस्य पानम् ।) तत्तदितिकर्त्तव्यताकप्रसृतित्रयजलपानरूपपरीक्षाविशेषः । यथा, --अथ कोषविधिः । नारदः ।“पब्बाह्ण सोपवासस्य स्नातस्यार्द्रपटस्य च ।संसूचकाव्यसनिनोः कोषपानं विधीयत ॥
इच्छतः श्रद्दधानस्य देवब्राह्मणसन्निधौ ।मद्यपस्त्रीव्यसनिनां किरातानान्तथैव च ॥
कोषः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ।महापराधे निर्द्धर्म्मे कृतघ्ने क्लीवकुत्सिते ॥
नास्तिकव्रात्यदासेषु कोषपानं विवर्ज्जयेत् ।तमाहूयाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम् ॥
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् ।ऊर्द्ध्वं यस्य हि सप्ताहाद्वैकृतन्तु भहद्भवेत् ॥
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात्” ॥
संसूचक आस्तिक इति मिताक्षरा ॥
महाप-राधी महापातकी । निर्द्धर्म्मो वर्णाश्रमरहितः ।कुत्सितः प्रतिलोमजः । दासः कैवर्त्तः । मण्डला-भ्यन्तरे गोमयकृतमण्डलाम्यन्तरे । वैकृतं रोगादि ।महन्नाल्पम् । तस्य देहिनामपरिहार्य्यत्वात् ।तदाह कात्यायनः ।“अथ दैवविसम्बादे द्विसप्ताहन्तु दापयेत् ।अभियुक्तं प्रयत्नेन तदर्थं दण्डमेव च ॥
तस्यैकस्य न सर्व्वस्य जनस्य यदि तद्भवेत् ।रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमश्च सः ॥
ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् ।नेत्ररुक् गलरोगश्च तथोन्मादः प्रजायते ॥
शिरोरुग्भजभङ्गश्च दैविका व्याधयो नृणाम्” ॥
गलरोग इत्यत्र शूलरोग इति क्वचित् पाठः ।द्विसप्ताहन्तु महाभियोगभवविषयम् । महाभि-योगेष्वेतानीति प्रस्तुत्य चतुर्द्दशकादह्न इति याज्ञ-वल्क्याभिधानात् । मिताक्षराप्येवम् । यत्तु“त्रिरात्रात्सप्तरात्राद्वा द्वादशाहात् द्विसप्तकात् ।वैकृतं यस्य दृश्येत पापकृत् स उदाहृतः” ॥
इति पितामहोक्तं तन्महाभियोगात् कृत्स्नद्र-व्यादर्व्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्रादिपक्षत्रयव्यवस्थापनीयमिति मिताक्षरा ॥
तथा ।“भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् ।समभावे तु देवानामादित्यस्य तु पाययेत् ॥
दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः ।भास्करस्य तु यत्तोयं ब्राह्मणं तन्न पाययेत् ॥
दुर्गायाः स्नापयेच्छूलमादित्यस्य च मण्डलम् ।अन्येषामपि देवानां स्नापयेदायुधानि च ॥
अत्र, स्वल्पापराधे देवानां स्नापयित्वायुधोदकम् ।पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा” ॥
इति कात्यायनोक्तविशेषान्महापराधे देवस्नानो-दकमिति विषयभेदः । रत्नाकरोऽप्येवम् । मण्डलंव्योमेति व्यवहारदीपिका ॥
तस्यां विष्णुः । उग्रान्देवान् समभ्यर्च्च्य तत्स्नानोदकप्रसृतित्रयं पिबेत् ।इदं मया न कृतमिति व्याहरन्देवतामुख इति ।एतदनुसारादेवान्यत्र प्रतिज्ञा प्रागुक्ता । तत्र क्रमः ।प्राड्विवाको गोमयकृतमण्डलाभ्यन्तरे धर्म्मावाह-नादिसर्व्वदेवतापूजां हवनान्तां निर्व्वर्त्य दक्षिणांदत्वा समन्त्रकं प्रतिज्ञापत्रं शोध्य शिरसि नि-धाय यथाविहितं देवं संपूज्य तत्स्नानोदकमानीय ।ओँताय त्वंप्राणिनां प्राणः सृष्टेराद्यन्तु निर्म्मितम् ।शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनान्तथा ।अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे” ॥
इत्याभ्यामभिमन्त्र्य गोमयकृतमण्डलाभ्यन्तरे स्थितंसोपवासं स्नातार्द्रवाससमादित्याभिमुखं ओँसत्येन मामभिरक्षस्व वरुणेत्यनेन शोध्य पठिते-नाभिमन्त्रितं प्रसृतित्रयं जलं पाययेत् । ततोयदि अदधिकालाभ्यन्तरे रोगपीडा न भवतितदा शुद्ध इति । ततो दक्षिणा देया । इतिदिव्यतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
