| YouTube Channel

कोलं (kolaM)

 
शब्दकल्पद्रुमः
Sanskrit
कोलं,
क्ली,
(कुल् अच् गौरादित्वात् ङीष् कोली तस्याःफलमित्यण् तस्य लुक् “लुक्तद्धितलुकि” ।४९ इति ङीषो लुक् ।) वदरीफलम् तत्पर्य्यायः ।कुवलम् फेनिलम् सौवीरम् वदरम् घोण्टा६ इत्यमरः ३६
पिच्छिलम् स्वादु-फलम् वदरीफलम् इति शब्दरत्नावली
कोकिलम् १० इति जटाधरः
अपि ।“पुंसि स्त्रियाञ्च कर्कन्धुर्वदरीकोलमित्यपि ।फेनिलं कुवलं घोण्टा सौवीरं वदरञ्च तत्
अजाप्रिया कुहा कोलिविषमो भयकण्टकः”
अथ वदरविशेषाणां लक्षणानि गुणाश्च ।“पच्यमानं सुमधुरं सौवीरं वदरं महत् ।सौवीरं वदरं शीतं भेदनं गुरु शुक्रलम्
वृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् ।सौवीराल्लघु संपक्वं मधुरं कोलमुच्यते
कोलन्तु वदरं दाहि रुच्यमुष्णञ्च वातहृत् ।कफपित्तकरं चापि गुरु सारकमीरितम्
कर्क्कन्धुः क्षुद्रवदरं कथितं पूर्व्वसूरिभिः ।अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक्
स्निग्धं गुरु तिक्तञ्च वातपित्तापहं स्मृतम् ।शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमास्रजित्”
इति भावप्रकाशः
वदरादिद्वयं शृगालकोलौ ।वदरीसदृशा घोण्टा शृगालकोलिः यदुक्तम् ।“वदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् ।अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते”
इति सुभूतिः
“हस्तिकोलिर्गोपघोण्टा घोण्टा वदरीच्छदा ।शृगालकोलिः कर्कन्धुः” इति रत्नकोषः
केचित्तुकोलादित्रयं वदरीफले सौवीरादित्रयं शृगाल-कोलावित्याहुः
स्वामी तु “कर्कन्धुर्वदरी कोलि-र्घोण्टा कुवलफेनिलौ सौवीरं वदरं कोलम्”
इति पठति तत्राद्यास्त्रयो वृक्षार्थाः अन्ये फलार्थाघोण्टा तूभयस्पृगिति व्याचष्टे “सौवीरं वदरंकोलं वदरीणां फलं मतम्” इति कोषान्तरञ्च ।इति भरतः
*
अस्य गुणः अम्लत्वम् वायु-कफनाशित्वञ्च
पक्वस्यास्य गुणाः वायुपित्त-नाशित्वम् स्निग्धत्वम् सुमधुरत्वम् सारकत्वञ्च
शुष्कस्यास्य गुणः कफवायुनाशित्वम् पित्तविरोधि-त्वञ्च
पुरातनस्यास्य गुणाः श्रमतृष्णानाशित्वम्स्निग्धत्वम् लघुत्वञ्च
अस्य मज्जगुणः मधुर-त्वम् पित्तच्छर्द्दितृष्णानाशित्वञ्च इति राज-वल्लभः
*
तोलकपरिमाणम् इति वैद्यक-परिभाषा
(यथा, चरके कल्पस्थाने १२ अः ।“शाणौ द्वौ द्रंक्षणं विद्यात् कोलं वदरमेव च”
)मरिचम् इति राजनिर्घण्टः
चव्यम् इतिवैद्यकम्