| YouTube Channel

कोपयन्-न्ती (kopayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कुप क्रोधे”@} 2 ‘दिवादेः कुप्यति क्रोधे, भाषायां कोपयेत् कुपेः।।’ 3 इति देवः।
कोपकः-पिका, कोपकः-पिका, 4 चुकुपिषकः-चुकोपिषकः-षिका, चोकुपकः-पिका
कोपिता-त्री, कोपयिता-त्री, चुकुपिषिता-चुकोपिषिता-त्री, चोकुपिता-त्री
5 कुप्यन्-न्ती, कोपयन्-न्ती, चुकुपिषन्-चुकोपिषन्-न्ती
-- कोपिष्यन्-न्ती-ती, कोपयिष्यन्-न्ती-ती, चुकु6पिषिष्यन्-न्ती-ती
-- 7 व्यतिकुप्यमानः, कोपयमानः, चोकुप्यमानः
व्यतिकोपिष्यमाणः, कोपयिष्यमाणः, चोकुपिष्यमाणः
कुप्-कुपौ-कुपः
-- -- -- कुपितम्-तः कोपितः, चुकुपिषितः-चुकोपिषितः, चोकुपितः-तवान्
8 कुपः, 9 कोपनः 10, प्रकोपी 11, चुकुपिषुः-चुकोपिषुः, चोकुपः, कोपितव्यम्, कोपयितव्यम्, चुकुपिषितव्यम्-चुकोपिषितव्यम्, चोकुपितव्यम्
12 प्रकोपणीयम् प्रकोपनीयम् कोपनीयम्, चुकुपिषणीयम्-चुकोपिषणीयम्, चोकुपनीयम्
कोप्यम्, कोप्यम्, चुकुपिष्यम्-चुकोपिष्यम्, चोकुप्यम्
ईषत्कोपः-दुष्कोपः-सुकोपः
-- -- कुप्यमानः, कोप्यमानः, चुकुपिष्यमाणः-चुकोपिष्यमाणः, चोकुप्यमानः
13 कोपः, कोपः, चुकुपिषः-चुकोपिषः, चोकुपः
कुप्तिः, कोपना, चुकुपिषा-चुकोपिषा, चोकुपा
14 कोपितुम्, कोपयितुम्, चुकुपिषितुम्-चुकोपिषितुम्, चोकुपितुम्
15 प्रकोपणम् प्रकोपनम् कोपनम्, चुकुपिषणम् चुकोपिषणम्, चोकुपनम्
कुपित्वा-कोपित्वा, कोपयित्वा, चुकुपिषित्वा-चुकोपिषित्वा, चोकुपित्वा
प्रकुप्य, प्रकोप्य, प्रचुकुपिष्य-प्रचोकुपिष्य, प्रचोकुप्य
कोपम् कुपित्वा कोपित्वा कोपम् कोपयित्वा चुकुपिषम् २-चुकोपिषम् २, चुकुपिषित्वा २-चुकोपिषित्वा २, चोकुपम्
चोकुपित्वा २।
प्रासङ्गिक्यः
01
=>
(२२४)
02
=>
(४-दिवादिः-१२३३। अक। सेट्। पर।)
03
=>
(श्लो-१३६)
04
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[२। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः ङित्त्वादङ्गस्य गुणो न।]]
06
=>
[को]
07
=>
[[३। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति कर्मव्यतीहारे शानच्।]]
08
=>
[[४। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः प्रत्ययः।]]
09
=>
[[५। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इति ताच्छीलिको युच्।]]
10
=>
[[आ। ‘कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्।।’ भ। का। ७-१६।]]
11
=>
[[६। ‘सुप्यजातौ णिनिः--’ (३-२-७८) इति ताच्छीलिको णिनिः।]]
12
=>
[[७। ‘हलश्चेजुपधात्’ (८-४-३१) इति विभाषा णत्वम्।]]
13
=>
[[B। ‘रुष्यद्रिष्यदरातिडेपक विभो कोपादिगोपो ते किं चायोप्यविरोपिलोपक वा लोभादिसंक्षोभिता।।’ धा। का। २-६७।]]
14
=>
[पृष्ठम्०२१४+ २२]
15
=>
[[आ। ‘कः कृत्वा रावणामर्षप्रकोपणमवद्यधीः।’ भ। का। ९-१०५।]]