| YouTube Channel

कोटरं (koTaraM)

 
शब्दकल्पद्रुमः
Sanskrit
कोटरं, क्ली
पुं,
(कोटं कौटिल्याकारं स्थानं गर्त्त-मिति यावत् रातीति रा + कः ।) वृक्ष-स्थितगह्वरम् गाछेर खोडोल इति भाषा
तत्पर्य्यायः निष्कुहः इत्यमरः १३
निर्गूढः कोटरः इति शब्दरत्नावली
प्रा-न्तरम् तरुविवरम् इति जटाधरः
(कोटशब्दात् चतुरर्थ्यां अश्मरादित्वात् रः पां, ८०
दुर्गसन्निहितदेशादौ, त्रि
)