| YouTube Channel

कोजानर (kojAnara)

 
वाचस्पत्यम्
Sanskrit
कोजानर
पु०
कोजागर्त्ति इति लक्ष्म्याउक्तिरत्र काले पृषो० ।आश्विनपौर्ण्णपास्याम् तत्कृत्यव्यवस्थादि ति० त०कल्पतरौ ब्रह्मपुराणम् “आश्वयुज्यां पौर्णमास्यां भिकु-म्भोवालुकार्णवात् आयाति सेनया सार्द्धं कृत्वा युद्धंसुदारुणम् तस्मात्तत्र नरैर्मार्गाः स्वगेहस्य समीपतः ।शोधितव्याः प्रयत्नेन भूषितव्याश्च मण्डनैः पुष्पार्घ्य-फलमूलान्नसर्षपप्रकरैस्तथा वेश्मानि भूषितव्यानि नानावर्णैर्विशेषतः सुस्नातैरनुलिप्तैश्च नरैर्भाव्यं सवा-न्धवैः दिवा तत्र भीक्तव्यं मनुष्यैश्च विवेकेभिः स्त्री-वालमूर्खवृद्धैश्च भोक्तव्यं पूजितैः सुरैः” पूजितैः सु-रैः पूजितसुरैरित्यर्थः “पूज्याश्च सफलैः पुष्पैस्तथाद्वारो-र्द्धभित्तयः द्वारोपान्ते सुदीप्तस्तु संपज्योहव्यवाहनः ।यवाक्षतघतोपेतैस्तण्डुलैश्च सुतर्पितः संपूजितव्यःपूर्ण्णेन्दुः पयसा पायसेन स्कन्दः सभार्य्यरुद्रश्चतथा नन्दीश्वरोमुनिः गोमद्भिः सुरभिः पूज्या छाग-वद्भिर्हुताशनः उरभ्रवद्भिर्व्वरुणोगजवद्भिर्विनायकः ।पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः ततः पूज्यो-निकुम्भोऽपि समांसैस्तिलतण्डुलैः सुगन्धिभिर्घृतो-पेतैः कृशराख्यैश्च भूरिभिः ब्राह्मणान् भोजयित्वातु भोक्तव्यं मांसवर्जितम् वह्निपार्श्वगतैर्नेया दृष्ट्वाक्रीडाः पृथग्विधाः” ततश्च द्वारोर्द्ध्वभित्तिह-व्यवाहपूर्णेन्दुसभार्य्यरुद्रस्कन्दनन्दीश्वरमुनयः सर्व्वपूज्याः द्वारोर्द्ध्वभित्तिशब्दोऽत्र बहुवचनान्तः ।नन्दीश्वरोमुनिरेकः गोमता सुरभिः, छाग-वता हुताशनः मेषवता वरुणः, हस्तिमता विनायकः, अश्ववता रेवन्तः सर्व्वैरव निकुम्भः पूज्यः, महार्णवे मि-ङ्गपुराणम् “आश्विने पौर्ण्णमास्यान्तु चरेज्जागरणंनिशि कौमुदी सा समाख्याता कार्य्या लोकविभूतये ।कौमद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावते स्थितम् सुगन्धि-र्निशि सद्वेशो अक्षैर्ज्जागरणं चरेत्” तथा “निशीथेवरदा लक्ष्मीः कोजागर्त्तीत भाषिणी तस्मै वित्तंप्रयच्छामि अक्षैः क्रीडां करोति यः नारिकेलैश्चिपिटकैःपितन् देवान् समर्च्चयेत् बन्धूंश्च प्रीणयेत्तेन स्वयं तद-शनोभवेत्” अत्र निशीति निशीथ इति चाभिधानात्रात्रिकृत्यमिदम् ततश्च “प्रदीषव्यापिनी ग्राह्या तिथि-र्नक्तव्रते सदा प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिध्यते”इति वत्सवचनात् यद्दिने प्रदोषनिशीथोभयव्यापिनीपौर्णमासी तद्दिने कोजागरकृत्यम् उभयव्माप्त्यनुरो-धात् यदा तु पूर्बदिने निशीथव्याप्तिः परदिने प्रदोष-व्याप्तिस्तदा परेद्युस्तत्कृत्यम् प्रधानपूजाकालव्याप्त्य-नुरोधात् यदा तु पूर्व्वदिने निशीथव्याप्तिः परदिने नप्रदोषव्याप्तिस्तदा सुतरा पूर्व्वेद्युस्तत्कृत्यम् “अहःसुतिथयः पुण्याः कर्म्मानुष्ठानतोदिवा नक्तादिव्रतयोगे तुरात्रियोगोविशिष्यते” इति वचनात्” ।“नारिकेलोदकं पीत्वा अक्षैर्जागरणं निशि तस्मै वित्तंप्रयच्छामि कोजागर्त्ति महीतले” कृत्यकौमुदी तत्राक्ष-क्रीडा कार्य्या अक्षक्रीडाविशेषश्च चतुरङ्गशब्दे वक्ष्यते ।“या तु कोजागरे याते” ति० त० राजमार्त्तण्डः