| YouTube Channel

कोजागरः (kojAgaraH)

 
Apte
English
कोजागरः [kōjāgarḥ], [को जागर्ति इति लक्ष्म्या उक्तिरत्र काले पृषो˚ Tv.]
N.
of a festival held on the full moon night in the month of Āśvina and celebrated with several games.
Apte 1890
English
कोजागरः [को जागर्ति इति लक्ष्म्या उक्तिरत्र काले पृषो° Tv.] N. of a festival held on the full moon night in the month of Āśvina and celebrated with several games.
Apte Hindi
Hindi
कोजागरः
पुं*
- को जागर्ति इति लक्ष्मया उक्तिरत्र काले पृषो* तारा*
आश्विन मास की पूर्णिमा की रात में मनाया जाने वाला आमोदपूर्ण उत्सव
शब्दकल्पद्रुमः
Sanskrit
कोजागरः,
पुं,
(को जागर्त्ति अस्यां पौर्णमासी-निशायां इति लक्ष्म्या देव्या उक्तिर्यत्र समये ।पृषोदरात् साधुः ।) आश्विनी पूर्णिमा तत्पर्य्यायः ।शारदी द्यूतपूर्णिमा शरत्पर्व्व कौमुदी ।इति त्रिकाण्डशेषः
अथ कोजागरकृत्यानि ।तत्र ब्रह्मपुराणम् ।“आश्वयुज्यां पौर्णमास्यां निकुम्भो वालुकाणवात् ।आयाति सेनया सार्द्धं कृत्वा युद्धं सुदारुणम्
तस्मात् तत्र नरैर्मार्गाः स्वगेहस्य समीपतः ।शोधितव्याः प्रयत्नेन भूषितव्याश्च मण्डनैः
पुष्पार्घ्यफलमूलौघसर्षपप्रकरैस्तथा ।वेश्मानि भूषितव्यानि नानावर्णैर्विशेषतः
सुस्नातैरनुलिप्तैश्च नरैर्भाव्यं सबान्धवैः ।दिवा तत्र भोक्तव्यं मनुष्यैश्च विवेकिभिः
स्त्रीबालवृद्धमूर्खैश्च भोक्तव्यं पूजितैः सुरैः ।पूज्याश्च सफलैः पत्रैस्तथा द्वारोर्द्ध्वभित्तयः
द्वारोपान्ते सुदीप्तस्तु संपूज्यो हव्यवाहनः ।यवाऽक्षतघृतोपेतैस्तण्डुलैश्च सुतर्पितः
संपूजितव्यः पूर्णेन्दुः पयसा पायसेन ।रुद्रः मभार्य्यः स्कन्दश्च तथा नन्दीश्वरो मुनिः
गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः ।उरभ्रवद्भिर्वरुणा गजवद्भिर्विनायकः
पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः ।ततः पूज्यो निकुम्भोऽपि समाषैस्तिलतण्डुलैः
सुगन्धिभिर्घृतोपेतैः कृशराख्यैश्च भूरिभिः ।ब्राह्मणान् भोजयित्वा तु भोक्तव्यं मांसवर्जितम्
वह्निपार्श्वगतैर्नेया दृष्ट्वा क्रीडाः पृथग्विधाः”
*
लिङ्गपुराणे यथा, --“आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि ।कौमुदी सा समाख्याता कार्य्या लोकविभूतये
कौमुद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावतं स्थिरम् ।सुगन्धिर्निशि सद्वेशश्चाक्षैर्जागरणञ्चरेत्
निशीथे वरदा लक्ष्मीः को जागर्त्तोति भाषिणी ।तस्मै वित्त प्रयच्छामि अक्षैः क्रीडां करोति यः
नारिकेलैश्चिपिटकैः पितॄन् देवान् समर्च्चयेत्
बन्धूंश्च प्रीणयेत्तेन स्वयं तदशनो भवेत्”
इति तिथ्यादितत्त्वम्
(अत्र निशायां बन्धुभिरक्षैःक्रीडयित्वा लक्ष्मीप्रसादात् धनभाग्भवेत् अक्ष-क्रीडानियमश्च चतुरङ्गशब्दे द्रष्टव्यः
)