| YouTube Channel

कैवल्यं (kaivalyaM)

 
Apte 1890
English
कैवल्यं [केवलस्य भावः ष्यञ्] 1 Perfect isolation, soleness, exclusiveness.
2 Individuality.
3 Detachment of the soul from matter, identification with the supreme spirit.
4 Final emancipation or beatitude.
शब्दकल्पद्रुमः
Sanskrit
कैवल्यं,
क्ली,
(केवलस्य सर्व्वोपाधिवर्ज्जितस्य भावःइति केवल + ष्यञ् ।) मुक्तिः इत्यमरः
(तथा पातञ्जले कैवल्यपादे सूत्रं यथा, “निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत्”
निमित्तं धर्म्मादि तत्प्रकृतीनामर्थान्तरपरिणामेनप्रयोजकं हि कार्य्येण कारणं प्रवर्त्तते वरण-भेदस्तु ततः क्षेत्रिकवत् ततस्तस्मादनुष्ठीयमानाद्धर्म्मात् वरणमावरणकं अधम्मादि तस्यैव विरो-धित्वात् भेदः क्षयः क्रियते तस्मिन् प्रतिबन्धे क्षीणेप्रकृतयः स्वयमभिमतकार्य्याय प्रभवन्ति क्षेत्रि-कवत् यथा, क्षेत्रिकः कृषीवलः केदारात् केदा-रान्तरं जलं निनीषुर्ज्जलप्रतिबन्धकवरणभेदमात्रंकरोति तस्मिन् भिन्ने जलं स्वयमेव प्रसर द्रूपंपरिणामं गृह्णाति तु जलप्रसरणे तस्य कश्चित्प्रयत्नः फलतः यावत् योगादिप्रभावेण अधर्म्मा-द्यावरणभेदो भवेत् तावत् कुतस्तत्त्वज्ञानंकिञ्च यावत्तत्त्वज्ञानप्रभावात् सर्व्वा वासना नक्षयं यान्ति तावत् वृथैव कैवल्याशेति ध्येयम् ।तथा तत्रैव ११ ।“हेतुफलाश्रयालम्बनैः संगृ-हीतत्वादेषामभावे तदभावः”
वासनानामनन्तरानुभवो हेतुस्तस्यानुभवस्यरागादयस्तेषामविद्येति साक्षात् पारम्पर्य्येण चहेतुः फलं शरीरादि स्मृत्यादि आश्रयोबुद्धिरालम्बनं यदेवानुभवस्य तदेव वासनानामत-स्तैर्हेतुफलाश्रयालम्बनरनन्तानामपि वासनानांसंगृहीतत्वात्तेषां हेतूनामभावे ज्ञानयोगाभ्यांदग्धवीजकल्पत्वे विहिते निर्म्मूलत्वाच्च वासनाःप्ररोहं यान्ति वा कार्य्यमारम्भन्त इतितासामभावः
अत्र भगवद्गीतायाम् ३७ ।“यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ! ।ज्ञानाग्निः सर्व्वकर्म्माणि भस्मसात् कुरुते तथा”
अतएव सत्त्वादिषु गुणेषु कृतार्थेषु भोगाप-वर्गादिलक्षणेषु पुरुषार्थेषु समाप्तेषु कैवल्यमित्येवसारसिद्धान्तवाक्यम् यथा, पातञ्जले ३३ ।“पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यंस्वरूपप्रतिष्ठा वा चितिशक्तिरिति” ।समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यःप्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ वि-कारानुद्भव क्षणेषु यदि वा चिच्छक्तेर्वृत्तिसारूप्य-निवृत्तौ स्वरूपमात्रेऽवस्थानं तत् कैवल्यमुच्यते ।इत्थं सर्व्वेष्वेव दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदा-त्मनोरूपमुपपद्यते अधिष्ठातृत्वञ्च चिद्रूपत्वं तच्चजडात् वैलक्षण्यमेव चिद्रूपतया यदधितिष्ठतितदेव भोग्यतां नयति यच्च चेतनाधिष्ठितं तदेवसकलव्यापारयोग्यं भवति एवञ्च सति नित्यत्वात्प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यम-स्माभिरुक्तं तद्विहाय दर्शनान्तराणां नान्या गतिःतस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेणस्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम् यथा, “पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यव-हारनिष्पत्तिमुपपाद्यपुरुषसत्त्वे प्रमाणमुपदर्श्यकैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनो-र्थानभिधाय शास्त्रान्तेऽप्येतदेव कैवल्यमित्युपपाद्यकैवल्यस्वरूपं निर्णीतम्” परं जन्मौषधिमन्त्र-समाधिजन्यासु सिद्धिषु सतीष्वपि ज्ञानभक्त्यादियोगेन येन केनचिदुपायेन भगवदनुकम्पालाभ एवकैवल्योपायः पातञ्जलदर्शनटीकाकृत् महाराज-भोजाधीश्वरोप्येतदङ्गीकृत्य कैवल्यपादस्य टीकायांमङ्गलाचरणं कृतवान् यथा, --“यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते ।तमेकमजमीशानं चिदानन्दमयं स्तुमः”
कृष्णयजुर्व्वेदान्तर्गतोपनिषद्विशेषः ।यथा, मुक्तिकोपनिषदि “कठवल्लीतैत्तिरीयक-ब्रह्मकैवल्यश्वेताश्वतरेत्युपक्रम्य कृष्णयजुर्व्वेदगतानांद्वात्रिंशत्सङ्ख्यकानामुपनिषदां सहनाववत्वितिशान्तिः”
)