कैवल्य (kaivalya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishकैवल्य - kaivalya - - leading to eternal happiness or emancipation
कैवल्य - kaivalya - - perfect isolation
कैवल्य - kaivalya - - detachment of the soul from matter or further transmigrations
कैवल्य - kaivalya - - absolute unity
कैवल्य - kaivalya - - isolation
कैवल्य - kaivalya - - abstraction
कैवल्य - kaivalya - - detachment of the soul from matter
कैवल्य - kaivalya - - beatitude
कैवल्य - kaivalya - - identification with the supreme spirit
कैवल्य - kaivalya - - detachment from all other connections
Wilson
EnglishApte
Englishकैवल्यम् [kaivalyam], [केवलस्य भावः ष्यञ्]
Perfect isolation, soleness, exclusiveness.
Individuality
5.3.17.
Detachment of the soul from matter, identification with the supreme spirit.
Final emancipation or beatitude
1.8.27.
Everlasting disappearance of the three pains
कैवल्यं माध्यस्थ्यम् Sā&ndot. 19.
कैवल्यार्थं प्रवृत्तेश्च 17.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishकैवल्य कैवल्य, अम्, n. (fr. केवल), perfect
isolation, abstraction, detachment from all other con-
nections, detachment of the soul from matter or fur-
ther transmigrations
becoming one with the Supreme
eternal happiness, emancipation, beatitude
exclusive-
ness, soleness, individuality, totality
(अस्, आ, अम्), con-
nected with this state of mind.
—कैवल्य-तन्त्र,
अम्, n., N. of a Tantra.
—कैवल्य-दीपिका, f., N.
of a commentary by Hemādri.
—कैवल्याश्रम
(°य-आश्°), अस्, m. a pupil of Govinda, author of a
commentary on the poem Ānanda-laharī.
—कैव-
ल्येन्द्र (°य-इन्°), अस्, m., N. of the instructor of
Rāyaṇendra.
—कैवल्योपनिषद् (°य-उप्°), त्, f.
title of an Upaniṣad.
Benfey
EnglishHindi
Hindiआध्यात्मिक स्वतंत्रता और स्वतंत्रता
Apte Hindi
Hindiकैवल्यम्
- केवल - ष्यञ्
"पूर्ण पृथकता, अकेलापन, एकान्तिकता"
कैवल्यम्
- केवल - ष्यञ्
व्यक्तित्व
कैवल्यम्
- केवल - ष्यञ्
"प्रकृति से आत्मा का पार्थक्य, परमात्मा के साथ आत्मा की तद्रूपता"
कैवल्यम्
- केवल - ष्यञ्
"मुक्ति, मोक्ष"
Shabdartha Kaustubha
Kannadaकैवल्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಆತ್ಯಂತಿಕ ದುಃಖನಾಶರೂಪವಾದ ಮೋಕ್ಷ /ಸಂಸಾರಬಂಧವಿಮೋಚನೆ
निष्पत्तिः - > "ष्यञ्" (५-१-१२४)
व्युत्पत्तिः - > बन्धविरहात् केवलस्य भावः
L R Vaidya
EnglishWordnet
Sanskrit कैवल्योपनिषद्, कैवल्य
एका उपनिषद्।
"कैवल्योपनिषद् यजुर्वेदस्य भागः।"
अभिधानचिन्तामणिः
Sanskritमहानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।
शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥
महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।
मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥
वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।
निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
महानन्द (पुं), अमृत (क्ली), सिद्धि (स्त्री), कैवल्य (क्ली), अपुनर्भव (पुं), शिव (क्ली), निःश्रेयस् (क्ली), श्रेयस् (क्ली), निर्वाण (क्ली), ब्रह्मन् (पुं), निर्वृति (स्त्री), महोदय (पुं), सर्वदुःखक्षय (पुं), निर्याण (क्ली), अक्षर (क्ली), मुक्ति (स्त्री), मोक्ष (पुं), अपवर्ग (पुं), मुमुक्षु (पुं), श्रमण (पुं), यति (पुं), वाचंयम (पुं), व्रतिन् (पुं), साधु (पुं), अनगार (पुं), ऋषि (पुं), मुनि (पुं), निर्ग्रन्थ (पुं), भिक्षु (पुं), मुमुक्षुस्व (क्ली), तपस् (क्ली), योग (पुं), शम (पुं)
अभिधानरत्नमाला
Sanskritकैवल्य
कैवल्य, निर्वाण, निःश्रेयस्, अमृत, अक्षर, ब्रह्मन्, अपुनर्भव, अपवर्ग, मुक्ति, मोक्ष, महानन्द
कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।
अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
verse 1.1.1.124
page 0016
शब्दकल्पद्रुमः
Sanskritकैवल्यं, (केवलस्य सर्व्वोपाधिवर्ज्जितस्य भावःइति । केवल + ष्यञ् ।) मुक्तिः । इत्यमरः । १ । ५ । ६ ॥
(तथा च पातञ्जले कैवल्यपादे ३ सूत्रं यथा, “निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत्” ॥
निमित्तं धर्म्मादि तत्प्रकृतीनामर्थान्तरपरिणामेनप्रयोजकं न हि कार्य्येण कारणं प्रवर्त्तते । वरण-भेदस्तु ततः क्षेत्रिकवत् ततस्तस्मादनुष्ठीयमानाद्धर्म्मात् वरणमावरणकं अधम्मादि तस्यैव विरो-धित्वात् भेदः क्षयः क्रियते तस्मिन् प्रतिबन्धे क्षीणेप्रकृतयः स्वयमभिमतकार्य्याय प्रभवन्ति । क्षेत्रि-कवत् । यथा, क्षेत्रिकः कृषीवलः केदारात् केदा-रान्तरं जलं निनीषुर्ज्जलप्रतिबन्धकवरणभेदमात्रंकरोति । तस्मिन् भिन्ने जलं स्वयमेव प्रसर द्रूपंपरिणामं गृह्णाति न तु जलप्रसरणे तस्य कश्चित्प्रयत्नः । फलतः यावत् योगादिप्रभावेण अधर्म्मा-द्यावरणभेदो न भवेत् तावत् कुतस्तत्त्वज्ञानंकिञ्च यावत्तत्त्वज्ञानप्रभावात् सर्व्वा वासना नक्षयं यान्ति तावत् वृथैव कैवल्याशेति ध्येयम् ।तथा च तत्रैव । ११ ।“हेतुफलाश्रयालम्बनैः संगृ-हीतत्वादेषामभावे तदभावः” ॥
वासनानामनन्तरानुभवो हेतुस्तस्यानुभवस्यरागादयस्तेषामविद्येति साक्षात् पारम्पर्य्येण चहेतुः । फलं शरीरादि स्मृत्यादि च । आश्रयोबुद्धिरालम्बनं यदेवानुभवस्य तदेव वासनानामत-स्तैर्हेतुफलाश्रयालम्बनरनन्तानामपि वासनानांसंगृहीतत्वात्तेषां हेतूनामभावे ज्ञानयोगाभ्यांदग्धवीजकल्पत्वे विहिते निर्म्मूलत्वाच्च वासनाःप्ररोहं न यान्ति न वा कार्य्यमारम्भन्त इतितासामभावः ॥
अत्र भगवद्गीतायाम् । ४ । ३७ ।“यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ! ।ज्ञानाग्निः सर्व्वकर्म्माणि भस्मसात् कुरुते तथा” ॥
अतएव सत्त्वादिषु गुणेषु कृतार्थेषु भोगाप-वर्गादिलक्षणेषु पुरुषार्थेषु समाप्तेषु कैवल्यमित्येवसारसिद्धान्तवाक्यम् । यथा, पातञ्जले । ३३ ।“पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यंस्वरूपप्रतिष्ठा वा चितिशक्तिरिति” ।समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यःप्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ वि-कारानुद्भव क्षणेषु यदि वा चिच्छक्तेर्वृत्तिसारूप्य-निवृत्तौ स्वरूपमात्रेऽवस्थानं तत् कैवल्यमुच्यते ।इत्थं सर्व्वेष्वेव दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदा-त्मनोरूपमुपपद्यते । अधिष्ठातृत्वञ्च चिद्रूपत्वं तच्चजडात् वैलक्षण्यमेव चिद्रूपतया यदधितिष्ठतितदेव भोग्यतां नयति यच्च चेतनाधिष्ठितं तदेवसकलव्यापारयोग्यं भवति । एवञ्च सति नित्यत्वात्प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यम-स्माभिरुक्तं तद्विहाय दर्शनान्तराणां नान्या गतिःतस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेणस्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम् । यथा, “पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यव-हारनिष्पत्तिमुपपाद्यपुरुषसत्त्वे प्रमाणमुपदर्श्यकैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनो-र्थानभिधाय शास्त्रान्तेऽप्येतदेव कैवल्यमित्युपपाद्यकैवल्यस्वरूपं निर्णीतम्” । परं जन्मौषधिमन्त्र-समाधिजन्यासु सिद्धिषु सतीष्वपि ज्ञानभक्त्यादियोगेन येन केनचिदुपायेन भगवदनुकम्पालाभ एवकैवल्योपायः । पातञ्जलदर्शनटीकाकृत् महाराज-भोजाधीश्वरोप्येतदङ्गीकृत्य कैवल्यपादस्य टीकायांमङ्गलाचरणं कृतवान् । यथा, --“यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते ।तमेकमजमीशानं चिदानन्दमयं स्तुमः” ॥
कृष्णयजुर्व्वेदान्तर्गतोपनिषद्विशेषः ।यथा, मुक्तिकोपनिषदि । “कठवल्लीतैत्तिरीयक-ब्रह्मकैवल्यश्वेताश्वतरेत्युपक्रम्य कृष्णयजुर्व्वेदगतानांद्वात्रिंशत्सङ्ख्यकानामुपनिषदां सहनाववत्वितिशान्तिः” ॥
)
वाचस्पत्यम्
Sanskritकैवल्य केवलस्य भावः ष्यञ् । १ आत्यन्तिकदुखविगमरूपेमुक्तिभेदे तत्स्वरूपसत्त्वादिकारणानि च सा० का० तत्त्वकौ-मुद्योर्दर्शितानि यथा “पुरुषोऽस्ति भोक्तृ भावात् कैवल्यार्थंप्रवृतेश्च “इतश्चास्ति पुरुष इत्याह कैवल्यार्थं प्रवृत्तेश्चशास्त्रकाराणां महर्षीणाञ्च दिव्यलोचनानां कैवल्यञ्चात्य-लिकदुःखत्रयप्रशमलक्षणं न बुद्ध्यादीनां सम्भवति ते हिदुःखाद्यात्मकाः कथं स्वभाबाद्वियोजयितुं शक्यन्ते तद-तिरिक्तस्य त्वतदात्मन आत्मनस्ततो वियोगः शक्यसम्पा-दः तस्मात्कैवल्यार्थं प्रवृत्तेरागमानां महर्षीणाञ्चास्तिबुद्ध्याद्यतिरिक्त आत्मेति सिद्धम्” तत्त्वकौमुदी“कैवल्यं माध्यस्थ्यं द्रल्वत्वमकर्त्तृभावश्च” सा० का०“आत्यन्तिकदुःखत्रयाभावः कैवल्यं तच्च स्वभावादेवअत्रैगुण्टात् सुखदुःखमोहरहितत्वात् सिद्धम्” कौ०“पुरुषस्य दर्शनांर्थं कैवल्यार्थं तथा प्रधानस्य” का०“षुरषस्यापेक्षां दर्शयति पुरुषस्य कैवल्यार्थम् । तथाहि प्रधानेन सम्मिन्नः पुरुषस्तद्गतं दुःखत्रयं स्वात्मन्यभि-मन्यमानः कैवल्यं प्रार्थयते तच्च सत्वपुरुषान्यता-ख्यातिनिबन्धनम् । न च सत्वपुरुषान्यताख्यातिः प्रधा-नमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । अनादि-त्वाच्च संयोगगपरम्परायाः भोगाय संयुक्तोऽपि कैव-ल्याय पुनः संयुज्यते इति युक्तम्” त० कौ० विवृतञ्चै-तदस्माभिः “व्यवहितमपि पुरुषस्येति पदं कैवल्यार्थमित्यत्रान्वेतोयाख्यातुं पुरुषस्यापेक्षामुत्थापयति पुरुष-स्यापेक्षमिति प्रकृसेरिति शेषः । कैवल्यं केवलीभावःस च अतुभूयमानस्य बुद्धिधर्म्मस्य दुःस्वत्रयस्य विनाश-एव, तदर्थं तदुद्देशेन पुरुषस्य प्रकृत्यपेक्षा । तथा हिइष्टविषवेच्छया इष्टसाधनाय प्रवर्त्तमानो दृष्टः । पुरुषश्चआत्मन्यनुभूयमानं दुःखत्रयं जिहासुस्तत्परिहारसाध-नमर्थयते दुःखत्रयाभिघातश्च प्रकृतिपुरुषविवेकाधीन इतिप्रकृतिं विना कथङ्कारं पुरुषस्तद्भेदमात्मनि प्रतीयादितिदुःखत्रयाभिधाताथेमपेक्षणीयज्ञानसाधनत्वेन पुरुषस्यप्रकृत्यपेक्षा” ।“सम्यग्ज्ञानाधिगमाद्धर्म्म, दीनामकारणप्राप्तौ । तिष्ठतिसंस्कारवशाच्चक्रम्रमिवद्धृतशरीरः” सा० का०“तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपिकर्म्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपगोगल-क्षणाय फलाय कल्पते । क्लेशसलिलावसिक्तायां हिबुद्धिभूमौ कर्म्मवीजान्यङ्गुरं प्रसुवत तत्त्वज्ञाननिदावनि-पीतसकलक्लेशसलिलायामूषरायां कुतः कर्म्मवीजानाम-ङ्गुरप्रसवः । तदिदमुक्तं धर्म्मादीनामकारणप्राप्तावितिअकारणत्व्याप्तावित्यर्थः । उत्पन्न तत्त्वज्ञानेऽपि चसंस्कारवशात्तिष्ठति यथोपरतेऽपि कुलालव्यापारे चक्रंवेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति कालप रपाकवशात्तूपर-ते संस्कारे निष्क्रियं भवति । शरीरस्थितौ च प्रारब्ध-परिपाकौ धर्माधर्म्मौ संस्कारौ । तथाचानुश्रूयते “भे-गेन त्वितरे क्षपयित्वाथ सम्पद्यते” इति “तावदेवास्यचिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति । प्रक्षीयमा-णाविद्याविशेषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्धृतशरीर-स्तिष्ठति” त० कौ० विवृतमेतदम्माभिः-“इतरे उत्पन्नविवेकज्ञानाः भोगेन प्रारब्धकर्म्माणीति शेषःक्षपयित्वा नाशयित्वा समाप्येति यावत् अथ--प्रारब्धक-र्म्मक्षयानन्तरं सम्पद्यते बन्धशून्यतया कैवल्यभाजनता-रूपेण सम्पद्यते । अस्य--उत्पन्नबिवेकज्ञानस्य तावदेव चिरंकैवल्यप्राप्तौ विलम्बः, यावत् विमोक्ष्ये प्रारब्धकर्म्म-भिरिति शेषः विमोक्ष्ये ततोमुक्तिं प्रापस्यतीत्यर्थः । अथप्रारब्धकर्म्ममोचनानन्तरं सम्पत्स्ये कैवल्यरूपेण सम्पन्नोभविष्यतीत्यर्थः” ।“प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तेः । ए-कान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति” सा० का० ।“अनारब्धविपाकानां तावत्कर्म्माशयानां तत्त्वज्ञानाग्निनावीजभावोदग्धः प्रारब्धविपाकानां तूपभोगेन क्षये सतिप्राप्ते शरीरभेदे विनाशे चरितार्थत्वात्कृतप्रयोजनत्वात्-प्रधानस्य तं पुरुषं प्रति निवृत्तावैकान्तिकमवश्यम्भाविआत्यन्तिकमपिनाशीत्युभयं कैवल्यं दुःखत्रयविगमं प्रा-प्रोति पुरुषः” त० कौ० विवृतञ्चैतदस्माभिः“ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुतेऽर्ज्जुन!” इति“मा भुक्तं क्षीवते कर्म्म कल्पकोटिशतैरपीति” शास्त्रयोःप्रारब्धाप्रारब्धकर्म्मविषयकत्वेन क्षयाक्षयौ व्यवस्थापिता-वित्याशयेनाह तत्त्वज्ञानाग्निनेत्यादि” ।पातञ्जले कैवल्यपादे कैवल्यकारणमुक्त्वा तत्स्वरूपमुक्तं यथा“विशेषदर्शिनआत्मभावभावनानिवृत्तिः” सू० । “यथा प्रावृ-षि तृणाङ्कुरस्योद्भेदेन तद्वीजसत्तानुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति वि-शेषदर्शनवीजमपवर्गभागीयं कर्म्माभिनिर्वत्तितमित्यनु-भीयते तस्यात्मभावभावन स्वाभाविकी प्रवर्त्ततते यस्याभावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्व्वपक्षे रुचि-र्भवत्यरुचिश्च निर्ण्णवे भवति तत्रात्मभावभावना कोऽह-मासं, कथमहमासं किं स्विदिदंमे, कथं खिदहं, के भवि-ष्याम, इति” सा तु विशेषदर्शिनो निवर्तते कुतः चित्त-स्येवैष विचित्रः परिणामः पुरुषस्त्वसत्यामविद्यायांशुद्धश्चित्तधर्म्मैरपरामृष्ट इति ततोऽस्यात्मभावभावनाकुशलस्य निवर्त्तते इति” भाष्यम् ।“तदा विवेकनिम्नं कैवल्यप्राग्भारञ्चित्तम्” सू० ।“तदानीं यदस्य चित्तं विषयप्रागभारमज्ञाननिम्न-मासीत्तदस्यान्यथा भवति कवल्यप्रागभारं विवेकजज्ञान-निम्नमिति” भाष्यम् । “प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्म्मनेघः समाधिः” सू० । “यदायं ब्राह्मणःप्रसंख्यानेऽप्यकुसीदस्ततोऽपि न किंचित् प्रार्थयते तत्रापिविरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्का-रवीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते तदास्य धर्म्म-मेघोनाम समाधिर्भवति” भा० । “ततः क्लेशकर्म्म-निवृत्तिः” सू० । “तल्लाभादविद्यादयः क्लेशाः समूलकाषकषिता भवन्ति कुशलाकुशलाश्च कर्म्माशयाः समूलवातंहताभवन्ति क्लेशकर्म्मनिवृत्तौ जीवन्नेव विद्वान् बिमुक्तोभवति कस्मात्? यस्माद्विपर्य्ययो भवस्य कारणं न हिक्षोणविपर्य्ययः कश्चित्केनचित् क्वचिज्जातो दृश्यते” भा० ।“तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यं ज्ञेयमल्पम्” सू०“सर्व्वैः क्लेशकर्म्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्य भव-ति तमसाभिभूतमावृतज्ञानसत्वं क्वचिदेव रजसा प्रव-र्तितमुद्द्वाटितं ग्रहणसमर्थं भवति तत्र यदा सर्वैरा-वरणमलैरपगतमलम्भवति तदा भवत्यस्यानन्त्यं ज्ञानस्यानन्त्याञ्ज्ञेयमल्पं सम्पद्यते यथाकाशे खद्योतः, यत्रेदमुक्तम् “अन्धोमणिमघ्यविध्यत्तमनङ्गुलिरावयत् ।अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोभ्यपूजयदिति” भा० ।“ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्” सू० ।“तस्य धर्म्ममेवस्योदयात्कृतार्थानां गुणानां परिणाम-क्रमः परिसमाप्यते न हि कृतभोगापवर्गाः परिसमाप्त-क्रमाः क्षणमप्यवस्थातुमुत्सहन्ते” भा०“गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तन्तत्स्वरूपमवधार्य्यते” भा०“पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति” सू० । कृतभोगापयर्गाणांपुरुषार्थशून्यानां यः प्रतिप्रसवः कार्य्यकारणात्मना गुणा-नान्तत्कैवल्यं स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्वानभिसम्बन्धात्पु-रुषस्य चितिशक्तिरेव केवला तस्याः सदा तथैवावस्थानंकैवल्यमिति” भा० ।“कैवल्यरूपावधारणपरस्य सूत्रस्यावान्तरसङ्गतिमाहगुणाधिकारेति पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः के-ल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । कुतः कर-णीयतया पुरुषार्थशून्यानां यः प्रतिप्रसवः स्वकारणे प्रधा-ने लयः, तेषां कार्य्यकारणात्मनां गुणानां व्युत्थानस-माधिनिरोधसंस्कारा मनसि लीयन्ते मनोऽस्मितायाम्, अस्मिता लिङ्गे, लिङ्गमलिङ्गे” इति योऽयं गुणानां का-र्य्यकारणात्मकानां प्रतिसर्गः तत् कैवल्यं, यं कञ्चित् पुरुषंप्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा पुरुषस्य वा मोक्षइत्याह । स्वरूपेति । अस्ति हि महाप्रलयेऽपि स्वरूपप्रतिष्ठा चितिशक्तिर्न चासौ मोक्ष इत्यत आह पुनरिति सौत्र इतिशब्दः शास्त्रपरिसमाप्तौ “वा० विवरणम्केदान्तिमते अविद्याकल्पितदेहादिप्रपञ्चनिवृत्तौ २ अ-द्वितीयब्रह्मभावापत्तिरूपे केवलत्वे च । तच्च कैवल्यंद्विविधं जीवन्मुक्तिर्विदहकैवल्यञ्च । तत्र जीवन्मु-क्तिलक्षणम् विस्तरेण जीवन्मुक्तशब्दे वक्ष्यते दिग्मात्रमत्राभिधीयते तत्र विवेकचूडामणौ जीवन्सुक्तलक्षणमुक्त्वोक्तं यथा“विज्ञातब्रह्मतत्त्वस्य यथापूर्बं न संसृतिः । अस्तिचेन्न स विज्ञातब्रह्मभावो बहिर्मुखः । प्राचीनवासनावे-गादसौ संसरतीति चेत् । न सदेकत्वविज्ञानाम्मन्दी-भवति वासना । अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ।निदिध्यासनहीनस्य बाह्यप्रत्ययैष्यते । ब्रवीति श्रुति-रेतस्य प्रारब्धफलदर्शनात् । सुखाद्यनुभवो यावत्तावत् प्रा-रब्धमिष्यते । फलोदयः क्रियापूर्बो निष्क्रियो न हिकुत्रचित्? । अहंब्रह्मेति विज्ञानात् कल्पकोटिशतार्जि-तम् । सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्म्मवत् ।यत् कृतं स्वप्नवेलायां पुण्यं वा पापमुल्वणम् । सुप्तोत्थि-तस्य किं तत् स्यात्? स्वर्गाय नरकाय वा । स्वमसङ्ग-मुदासीनं परिज्ञाय नभो यथा । न श्लिष्यति च यत्-किञ्चित् कदाचिद्भाविकर्मभिः । न नभो घटयोगेन सु-रागन्धेन लिप्यते । तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते । ज्ञानोदयात् पुराऽऽरब्धं कर्म ज्ञानान्न नश्यति । अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टवाणवत् । व्याघ्रबुद्ध्याविनिर्मुक्तो वाणः पश्चात्तु गोमतौ । न तिष्ठति छिन-त्त्येव लक्ष्यं बेगेन निर्भरम् । प्रारब्धं बलवत्तरं खलुविदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयःप्राक्सञ्चितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया येसर्वदा संस्थितास्तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैवते निर्गुणम् । उपाधितादात्म्यविहीनकेवलब्रह्मात्मनै-वात्मनि तिष्ठतोमुनेः । प्रारब्धसद्धावकथा न युक्ता स्वप्नार्थसस्वद्धकथेव जाग्रतः । न हि प्रबुद्धः प्रतिभासदेहेदेहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामि-दन्तां किन्तु स्वयं तिष्ठति जागरेण । तदाऽस्य मिथ्या-र्थममर्थनेच्छा न संग्रहस्तज्जगतोऽपि दृष्टः ॥
तत्रानुवृ-त्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् ।तद्वत् परे ब्रह्मणि वर्त्तमानः सदात्मना तिष्ठति नान्य-दीक्षते । स्मृतियैथा स्वप्नविलोकितार्थे तथा विदः प्राश-नमोचनादौ । कर्म्मणा निर्मितोदेहः प्रारब्धं तस्यकल्पताम् । नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ।अजीनित्यः शाश्वतश्च ब्रूते श्रुतिरमोघवाक् । यदात्मनातिष्ठतोऽस्य कुतः प्रारब्धकल्पना । प्रारब्धं सिध्यतितदा सदा देहात्मना स्थितिः । देहात्मभावो वैवेष्टःप्रारब्धं त्यज्यतामतः । शरीरस्यापि प्रारब्धकल्पनाभ्रा-न्तिरेव हि । अध्यस्तस्य कुतः सत्त्वम्? असत्यस्य कुतो-जनिः? । अजातस्य कुतोनाशः? प्रारब्धमसतः कुतः? ।ज्ञानेनाज्ञानकार्य्यस्य समूलस्य लयो यदि । तिष्ठत्ययंकथं देह! इति शङ्कावतो जडान् । समाधातुं बा-ह्यदृष्ट्या प्रारब्धं वदति श्रुतिः । न तु देहादिसत्यत्ववो-धनाय विपश्चिताम् । परिपूर्णमनाद्यन्तमप्रमेयमविक्रि-यम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन । सद्घ-नं चिद्घनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्मनेह नानास्ति किञ्चन । प्रत्यगेकरसं पूर्णमनन्तं सर्व-तोमुखम् । एकमेवाद्वयमित्यादि । अहेयमनुपादेयमना-देयमनाश्रयम् । एकमेवाद्वयमित्यादि । निर्गुणं निष्कलंसूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाद्वयमित्यादि ।अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । एकमे-वाद्वयमित्यादि । सत्समृद्धं स्वतः सिद्धं शुद्धं बु-द्धमनीदृशम् । एकमेवाद्वयमित्यादि । निरस्तरागाश्च निर-स्तभोगाः शान्ताः सुदान्ता यतयो महान्तः । विज्ञायतत्त्वं परमं तदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात् ।भवानपीदं परतत्त्वमात्मनः स्वरूपमानन्दघनं विचार्य्य ।विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबु-द्धः । समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फु-टबोधचक्षुषा । निःसंशयं सम्यगवेक्षितश्चेच्छ्रुतः पदार्थोन पुनर्विकल्पते । स्वस्याविद्याबन्धसम्बन्धमोक्षात् सत्यज्ञा-नानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्दौशकोक्तिः प्रमाणंचान्तःसिद्धाः स्वानुभूतिः प्रमाणम् । बन्धोमोक्षश्च तृप्तिश्चचिन्तारोग्यसुखादयः । स्वेनैव वेद्या यज्ज्ञानं परेषामा-नुमानिकम् । तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा ।प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया । स्वानुभूत्या स्वयंज्ञात्वा स्वमात्मानमखण्डितम् । संसिद्धः सन्मुखं तिष्ठेत्निर्विकल्पात्मनात्मनि । वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैवजीवः सकलं जगच्च । अखण्डरूपस्थितिरेब मोक्षो ब्र-ह्माद्वितीये श्रुतयः प्रमाणम्” ।तदीयज्ञानाकारोऽपि तत्र दर्शितो यथा“अकर्त्ताहमभोक्ताहमविकारोऽहमक्रियः । शुद्धबोध-स्वरूपोऽहं केवलोऽहं सदाशिवः । द्रष्टुः श्रोतुर्वक्तुःकर्त्तुर्भोक्तुर्विभिन्नएवाहम् । नित्यनिरन्तरनिष्क्रियो निः-सीमाऽसङ्गपूर्णबोधात्मा । नाहमिदं नाहमदोऽप्यु-भयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्णंव्रह्माद्वितीयमेवाहम् । निरुपममनादितत्त्वं त्वमहमिद-मदैति कल्पनादूरम् । नित्यानन्दैकरसं सत्यं ब्रह्माद्विती-यमेवाहम् । नारायणोऽहं नरकान्तोऽहं पुरान्तकोऽहंपुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षी निरीश्वरो-ऽहं निरहञ्च निर्म्ममः । सर्व्वेषु भूतेष्वहमेव संस्थितोज्ञानात्मनान्तर्बहिराश्रयः सन् । भोक्ता च भोग्थं स्वय-मेव सर्व्वं यद्यत् पृथक् दृष्टमिदन्तया पुरा । मय्यखण्ड-सुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्तेमायामारुतविभ्रमात् । स्थूलादिभावा मयि कल्पिता भ्रमा-दारोपितानुस्फुरणेतलोके । काले यथा कल्पकयत्सराय-नर्त्वादयो निष्कलनिर्व्विकल्पे । आरोपितं नाश्रय-दूषकं भवेत् कदापि मूढैरतिदोषदूषितैः । नार्द्रीकरो-त्यूषरभूमिभागं मरीचिकावारिमहाप्रवाहः । आकाश-वत् कल्पविदूरगोऽहमादित्यवद्भास्वरलक्षणोऽहम् ।आहार्य्यवन्नित्यविनिश्चलोऽहमम्भोधिवत् पारविवर्जितो-ऽहम् । न मे देहेन सम्बन्धो मेघेनेव विहायसः । अतःकुतो मे तद्धर्म्मा जाग्रत्स्वप्तसुषुप्तयः । उपाविरायाति सएव गच्छति स एव कर्म्माण करोति भुङक्ते । स एवजीर्य्यन् म्रियते सदाहं कुलाद्रिवन्निश्चल एव संस्थितः ।न मे प्रवृत्तिर्न च मे निवृत्तिः सदैकरूपस्य निरंश-कस्य । एकात्मको यो निविडो निरन्तरो व्योमेव पूर्णःस कथं नु चेष्टते? । पुण्यानि पापानि निरिन्द्रियस्यनिश्चेतसो निर्विकृतेर्निराकृतेः । कुतोममाखण्डसुखा-नुभूतेः? ब्रूते ह्मनन्वागतमित्यपि श्रुतिः । छाययास्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा । न स्पृशत्येवयत् किञ्चित् पुरुषं तद्विलक्षणम् । न साक्षिणं साक्ष्य-धर्म्माः संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृ-हधर्म्माः प्रदीपवत् । रधेर्यथा कर्म्मणि साक्षिभावोवह्नेर्यथा दाहनियामकत्वम् । रज्जोर्यथारोपितवस्तुसङ्ग-स्तथैव कूटस्थचिदात्मनोमे । कर्त्तापि वा कारयित, पिनाहं भोक्तापि वा भोजयितापि नाहम् । द्रष्ठापि वादर्शयितापि नाहं सोऽहं, स्वयंज्योतिरनीदृगात्मा ।चलत्युपाधौ प्रतिविम्बलौल्यमौपाधिक । मूढधियो न-मन्ति । स्वपिम्वभूतं रविवद्विनिष्क्रियं कर्त्तास्मि भोक्ता-स्मि हतोऽस्मि हन्ता । जले वापि स्थले वापि लुठत्वेषजडात्मकः । नाहं विलिप्ये तद्धर्म्मैर्घटधर्म्मैर्नभो यथा ।कर्त्तृत्वभोक्तृत्वखलत्वमत्तताजडत्वबद्धत्वविमुक्ततादयः ।बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणिकेवलेऽद्वये । सन्तु विकाराः प्रकृतेर्दशधा शतधा सह-स्रधा वापि । किं मे सङ्गिभिरेभिर्न ह्यम्बुदा वरमम्बरंस्पृशन्ति । अव्यक्तादिस्थूलपर्य्यन्तमेतद्विश्वं यत्राभास-मात्रं प्रतीतम् । व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्मा-द्वैतं यत्तदेवाहमस्मि । सर्व्वाधारं सर्व्ववस्तुप्रकाशं स-र्व्वाकारं सर्व्वगं सर्वशून्यम् । नित्यं शुद्धं निश्चलं नि-र्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि । यस्मिन्नस्ताशेष-मायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् । सत्यज्ञाना-नन्दमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि । निष्क्रि-योऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । नि-र्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ।सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवला-खण्डबोधोऽहमानन्दोऽहं निरन्तरम् । स्वाराज्य-साम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् । प्रा-प्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु” ।पुनस्तल्लक्षणं तत्रैवोक्तं यथा“क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि । तथैवविद्वान् रमते निर्म्ममी निरहं सुखी । चिन्ताशून्यम-दैन्यभैक्ष्यमशनं, पानं सरिद्वारिषु, स्वातन्त्र्येण निरङ्गु-शा स्थितिरसो निद्रा श्मशाने वने । वस्त्रं क्षालनशोष-णादिरहितं दिग्वास्तु शय्या मही सञ्चारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि । विमानमालम्व्यशरीरमेतद् भुनक्त्यशेषान् विषयानुपस्थितान् । परेच्छयाबालवदात्मवेत्ता योव्यकलिङ्गोननु सक्तबाह्यः । दि-गम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्ब-रस्थः । उन्मत्तवद् वापि च बालवद् वा पिशाचवद्वापि चरत्यवन्याम् । काभान्निष्णामरूपी संश्चरत्येकचरो-मुनिः । स्वात्मनैव सदा तुष्टः स्वय सर्वात्मना स्थितः ।क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः क्वचि-द्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः । क्कचित् पा-त्रीभूतः क्वचिदवमतः क्वाप्यविदितश्चरत्येवं प्राज्ञः सत-तपरमानन्दसुखितः । निर्धनोऽपि सदा तष्टोऽप्यसहायोमहाबलः । नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शाः ।अपि क्रर्वन्नकुर्वाणश्चाभोक्ता फलगोग्यपि । शरीर्थप्प-शरीर्य्येष परिच्छिन्नोऽपि सर्वगः । अशरीरं सदा सन्त-मिमं ब्रह्मविदं क्वचित् । प्रियाप्रिये न स्मृशतस्तथैव चशुभाशुभे । स्थूलादिसम्बन्धवतोऽभिमानिनः सुखञ्चदुःखञ्च शुभाशुभे च विध्वस्तबन्धस्य सदात्मनी मुनेः कुतःशुभं वाप्यशुभं फल वा । तमसा ग्रस्तवद्भानादग्ररतोऽपिरविर्जनैः । ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुल-क्षणम् । तद्वद्देहादिबन्धेन्यो विमुक्तब्रह्मवित्तमम् ।पस्यन्ति देहवन्मूढाः शरीराभासदर्शनात् । अहिनि-र्णयनीवायं मुकदेहस्तु तिष्ठति । इतस्ततश्चाल्यमानोयत् केञ्चित् प्राणवायुना । स्रोतसा नोयते दारु यथानिम्नोन्नतस्थलम् । दैवेन नोयते देहो यथाकालोपभु-क्तिषु । प्रारब्धकर्म्मपरिकल्पितवासनाभिः संसारिवच्चरतिभुकिषु मुकदेहः । सिद्धः स्वयं वसति साक्षिवदत्रतूष्णीं चक्रस्य मूलमिव कल्पविकल्पशून्यः । नैवेन्द्रि-याणि विपयेषु नियुङ्क्त एष नैवापयुङ्क्त उपदर्शनल-क्षणस्थः । नैव क्रियाफलमपोषदवेक्षते स सानन्दसान्द्र-रसवानसुप्तत्त चतः । लक्ष्यालक्ष्यग त त्यक्त्वा यस्तिष्ठेत्केवलात्मन० । शिवएव स्वयं साक्षादय ब्रह्मविदुत्तमः ।जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः” ।विदेहकैवत्यमपि तत्र दर्शितं यथा “उपाधिनाशाद्ब्रह्मैव सन् ब्रह्मावेति निर्द्वयम् । शैलूषवंशसद्भावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छेष्ठः सदाब्रह्मैव नापरः । यत्र क्वापि विशोर्णं सत् पर्णमिव तरो-र्वपुषः पतनात् । ब्रह्मोभूतस्य यतेः प्रागेव तच्चिदग्निमादग्धम् । सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयान-न्दमयात्मना सदा । न देशकालाद्युचितप्रतीक्षा त्वङ्मांसविट्पिण्डविसर्जनाय । देहस्य मीक्षो मोक्षोन न द-ण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थिनोक्षोमोक्षोयताततः । कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्थरे ।पणे पतति चेत्तेन तरोः किं नु शुमाशुभम्? । पत्रस्यपुष्पस्य फलस्य नाशबद् देहेन्द्रयप्राणधियां विनाशः ।नैवत्मनः स्वस्य सदात्मकत्यानन्दाकृतेर्वृक्षवदस्ति चैवः ।प्रज्ञानषनैत्यात्मलक्षणं सत्यसूचकम् । अविद्योपाधिक-स्यैव कथयलि विनाशनम् । अविनाशी वा अरेऽथमा-त्मेति श्रुतिरात्मनः । प्रववीत्यविनाशित्व विनश्यत्सुविकारिषु । काषाणवृक्षतृणधान्यकटाम्बराद्या दग्धा भ-वन्ति हि नृदेव यथा तथैव । देहेन्द्रियासुमनआदि सम-क्षदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम् । विलक्षणंयथा ध्वान्तं लीयते भानुतेजसि । तथैव सकलं दृश्यंब्रह्मणि प्रविलीयते । घटेनष्टे यथा व्योम व्योमैव भवतिस्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवत् स्वयम् ।क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयु-क्तमेकतां याति तथात्मन्यात्मविन्मुनिः” ।एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् । ब्रह्ममावंप्रपद्यैष यतिर्नावर्त्तते पुनः । सदात्मैकत्वविज्ञानदाधावि-द्यादिवर्ष्मणः । अमुष्य व्रह्मभूतत्वाद्व्रह्मणः कुत उद्भवः? ।मायाकॢप्तौ बन्धमेक्षो न स्तः स्वात्मनि वस्तुतः । यथा रज्वौनिष्क्रियाया सर्पाभासविनिर्गमौ । आवृतेः सदसत्त्वाभ्यांवक्तव्ये बन्धमोक्षणे । नावृतिर्ब्रह्मणः काचिदन्याभावा-दनावृतम् । यद्यस्त्यद्वैतहानिः स्यात् द्वैतं न सहतेश्रुतिः । बन्धश्च मोक्षश्च मृषैव मूढा बुद्धेर्गुणं वस्तुनिकल्पयन्ति । दृगावृतिं मेवकृतां यथा रवौ यतोऽद्वया-सङ्गचिदेकमक्षरम् । अस्तीति प्रत्ययो यश्च यश्च नास्तीतिवस्तुनि । बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः । अतस्तौमायया क्लृमौ बन्धमोक्षौ न चात्मनि । निष्कले निष्क्रियेशान्ते निरवद्ये निरञ्जने । अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः? । न निरोधो न चोत्पत्तिर्न बन्धो न चसाधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।सकलभिगभचूडास्वान्तसिद्धान्तगुह्यं परमिदमतिगुह्यं द-र्शित ते मयाद्य । अपगतकलिदोषं कामनिर्भुक्तबुद्धिं त्व-मनुवद सकृत्त्वं भावयित्वा मुनुक्षुम्” । कैवल्यं स्वरूपत्वे-नास्त्यस्य अर्श० अच् । ३ कैवल्यस्वरूपे “ज्ञानविज्ञा-नयुक्तानां निरुपाख्या निरञ्जना । कैवल्या या गतिर्ब्र-ह्मसदने सा गतिर्भवाम्” भा० अनु० १६ अ० । “कैवल्यामोक्षाख्या गतिः” नीलक० । केवल एव स्वार्थे ष्यञ् ।४ अद्वितीये वस्तुनि “धातारमजमव्यक्तं यमाहुः पर-मव्ययम् । कैवल्यं निर्गुणं विश्वमनादिमजमक्षरम्”भा० अ० ६३ अ०
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
