| YouTube Channel

कैवर्त्तीमुस्तकं (kaivarttImustakaM)

 
शब्दकल्पद्रुमः
Sanskrit
कैवर्त्तीमुस्तकं,
क्ली,
(केवर्त्त्या कैवर्त्तपत्न्याः प्रियंमुस्तकम् संज्ञायां “ड्यापोः” ६३ इतिविकल्पे ह्रस्वविधेरत्र ह्रस्वाभावः ।) मुस्ताप्रभेदः ।इति भरतः
केओटमुता इति भाषा केशुरइति नीचोक्तिः केशुरिया मुथा इति सारसु-न्दरी
तत्पर्य्यायः कुटन्नटम् दशपुरम् ३वानेयम् परिपेलवम् प्लवम् गोपुरम् ७गोनर्द्दम् इत्यमरः १३१
दाश-पुरम् दाशपूरम् १० दशपुरम् ११ दशपूरम्१२ परिपेलम् १३ पारिपेलम् १४ कैवर्त्तमुस्त-कम् १५ कैवर्त्तिमुस्तकम् १६ इति तट्टीका
वनसम्भवम् १७ इति रत्नकोषः
धान्यम् १८शीतपुष्पम् १९ जीर्णबुध्रकम् २० वन्यम् २१सितपुष्पम् २२ इति जटाधरः
अस्य गुणाः ।कटुत्वम् उष्णत्वम् कफवायुव्रणदाहामशूल-रक्तदोषनाशित्वञ्च इति राजनिर्घण्टः
हिम-त्वम् तिक्तत्वम् कषायत्वम् कान्तिदत्वम् ।पित्तविसर्पकुष्ठकण्डुविषनाशित्वञ्च इदन्तु वितु-न्नकनाम्नो वृक्षस्य त्वक् मुस्ताकृति
इति भाव-प्रकाशः