| YouTube Channel

कैवर्त्तिका (kaivarttikA)

 
शब्दकल्पद्रुमः
Sanskrit
कैवर्त्तिका,
स्त्री,
(कैवर्त्ती जलस्था इव इवार्थे कन्ततो ह्रस्वः ।) मालवे प्रसिद्धो लताविशेषः ।तत्पर्य्यायः सुरङ्गा लता वल्ली दशारुहा५ रङ्गिणी वस्त्ररङ्गा सुभगा अस्यागुणाः लघुत्वम् वृष्यत्वम् कषायत्वम् कफ-कासश्वासमन्दाग्निदोषनाशित्वञ्च इति राज-निर्घण्टः
वाचस्पत्यम्
Sanskrit
कैवर्त्तिका स्त्री कैवर्त्तीव इवार्थे कन् ह्रस्यः मालवदेश प्रसिद्धे लताभेदे वस्त्ररङ्गायाम् राजनि०