| YouTube Channel

कैवर्त्तः (kaivarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
कैवर्त्तः,
पुं,
(के जले वर्त्तते वृत् + अच् अलुक् समासः ।ततः स्वार्थे अण् ।) स्वनामख्यातवर्णसङ्करजातिः ।स तु वेश्यागर्ब्भे क्षत्त्रियस्यौरसजातः इति ब्रह्म-वैवर्त्तपुराणम्
तत्पर्य्यायः दासः धीवरः ।इत्यमरः १० १५
दाशेरकः जालिकः ।इति जटाधरः
(यथा, मनुः १० ३४ ।“निषादो मार्गवं सूते दाशं नौकर्म्मजीविनम् ।कैवर्त्तमिति यं प्राहुरार्य्यावर्त्तनिवासिनः”
अस्य टीकायां कुल्लूकभट्टेन यदुक्तं तद्यथा ।“ब्राह्मणेन शूद्रायां जातो निषादः प्रागुक्तः प्रकृ-तायामायोगव्यां मार्गवं दाशापरनामानं नौव्यव-हारजीविनं जनयति यमार्य्यावर्त्तदेशवासिनःकैवर्त्तशब्देन कीर्त्तयन्ति”
)