| YouTube Channel

कैरवं (kairavaM)

 
शब्दकल्पद्रुमः
Sanskrit
कैरवं,
क्ली,
(के जले रौति कलनादं करोतीति रु +अच् केरवः हंसः तत्पुरुषे कृतीत्यलुक् तस्यप्रियमित्यण् ।) कुमुदम् श्वेतोत्पलम् इत्यमरः ।१ १० ३७
(यथा, महाभारते ८६ ।“पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः ।नृबुद्धिकैरवाणाञ्च कृतमेतत् प्रकाशनम्”
)