| YouTube Channel

केशिनिसूदन (kezinisUdana)

 
शब्दकल्पद्रुमः
Sanskrit
केशिनिसूदनः,
पुं,
(केशीत्याख्यः दानवः कंसासुर-चरस्तं निसूदयति हन्ति नि + सूद् + कर्त्तरिल्युः ।) श्रीकृष्णः (यथा, गीतायां १८ ।“सन्न्यासस्य महाबाहो ! तत्त्वमिच्छामि वेदितुम् ।त्यागस्य हृषीकेश ! पृथक् केशिनिसूदन !”
केशिदानववधविवरणं हरिवंशे ८० अध्यायेदृश्यम् ।)
वाचस्पत्यम्
Sanskrit
केशिनिसूदन
न०
केशिनं निसूदयति नि + सूद--ल्यु ।वासुदेवे कृष्णे तन्निसूदनकथा हरिव० ८१ अ० यथा“प्रागेव तु नरेन्द्रेण माथुरेणौग्रसेनिना शिनः प्रेषि-तो दूतो बधायोपेन्द्रकारणात् तु दूतवचः श्रुत्वाकेशी क्लेशकरो नृणाम् वृन्दावनगतो गोपान् वाधतेस्म दुरासदः मानुषं मांसमश्नानः क्रुद्धो दुष्टपराक्रमः ।दुर्द्दान्तो वाजिदैत्योऽसावकरोत् कदनं महत् निघ्नन्गा वै सगोपालान् गवा पिशितभोजनः उद्दामकामचारी केशी निरवग्रहः तदरण्यं श्मशा-नाभं नृणामस्थिभिरावृतम् यत्रास्ते हि दुष्टात्माकेशी तुरगदानवः खुरैर्द्दारयते भूमिं वेगेनारुजतेद्रुमान् ह्रेषितैः स्पर्द्धते वायुं प्लुतैर्लम्बयते नभः ।अतिप्रवृद्धो मत्तश्च दुष्टाश्वो वनगोचरः प्रकम्पितशटोरौद्रः कंसस्य चरितानुगः इरिणं तद्वनं सर्वं तेनासीत्पापकारिणा कृतं तुरगदैत्येन सर्वान् गोपान् जिषां-सता तेन दुष्टप्रचारेण दूषितं तद्वनं महत् नृभि-र्गोवनैश्चापि सेव्यते वनवृत्तिभिः निःसम्पातः कृतःपन्थास्तेन तद्विषयाश्रितः मदाञ्चलितवृत्तेन नृमांसान्य-श्नता भृशम् नृशब्दानुसरः क्रुद्धः कदाचिद्दिना-गमे जगाम घोषसंवासं चोदितः कालधर्मणा तंदृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह क्रन्दमानाजगन्नाथे कृष्णं नाथमुपाश्रिताः तासां रुदितशब्देनगोपानां क्रन्दितेन दत्त्वाऽभयन्तु कृष्णो वै केशिनंसोऽभिदुद्रुवे केशी चाप्युद्धतग्रीवः प्रकाशदशनेक्षणः ।ह्रेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ तमापतन्तंसम्प्रेक्ष्य केशिनं हयदानवम् प्रत्युज्जगाम गोविन्द-स्तोयदः शशिनं यथा केशिनस्तु तमभ्यासे दृष्ट्वा कृष्ण-मवस्थितम् मनुष्यबुद्धयो गीपाः कृष्णमूचुर्हितैषिणः ।कृष्ण! तात! खल्वेष सहसा ते हयाधमः उपसर्य्योभवान् बालः पापश्चैर्ष दुरासदः एष कंसस्य सहजःप्राणस्तात! बहिश्चरः उत्तमश्च हयेन्द्राणां दानवोऽ-प्रतिमो युधि त्रासनः परसैन्यानां तुरगाणां महा-बलः अबध्यः सर्वभूतानां प्रथमः पापकर्मणाम् गो-पानां तद्गचः श्रुत्वा वदतां मधुसूदनः केशिना सहयुद्धाय मतिञ्चकेऽरिसूदनः ततः सव्यं दक्षिणञ्चमण्डलानि परिभ्रमन् पद्भ्यामुभाभ्यां हंयः क्रोधे-नारुजते द्रुमान् मुखे लम्बशटे चास्य स्कन्धे केश-घनावृते बलयो भ्रूतरंङ्गाभाः सुस्रुवुः क्रोधजं जलम् ।सफेनं वक्त्रजञ्चैव ववर्ष रजसावृतम् हिमकाले यथाव्योम्नि नीहारमिव चन्द्रमाः गोविन्दमरविन्दाक्षंह्रेषितोद्गारशीकरैः सफेनैर्वक्त्वनिर्गीर्णैः प्रोक्षयामासभारत! खुरोद्धूतासक्तेन मधुकक्षोदपाण्डुना रज-सा हयः कृष्णं चकारारुणमूर्द्धजम् प्लुतवल्गित-पादस्तु तक्षमाणो धरां खुरैः दन्तान् निर्दशमानस्तुकेशी कृष्णमुपाद्रवत् संसक्तस्तु कृष्णेन केशी तुरग-सत्तमः पूर्बाभ्याञ्चरणाभ्यां वै कृष्णं वक्षस्यताडयत् ।पुनः पुनश्च वली प्राहिणोत्पार्श्वतः खुरान् कृष्णखदानवो वोरं प्रहारममितौजसः वक्त्रेण चास्व घोरेणतीक्ष्णदंष्ट्रायुधेन वै अदशद्बाहुशिखरं कृष्णस्य रुषितोहयः सं लम्बकेशरशटः कृष्णन सह सङ्गत रराजकेशी मेघेन संयुक्तः खं इवाशुमान् उरश्चास्योरसाहन्तुमियेष बलवान् हयः वेगेन वासुदेवस्य क्रोधाद्-द्विगुणविक्रमः तस्योत्सिक्तस्य बलवान् कृष्णोऽप्यमित-विक्रभः बाहुमाभोगिनं कृत्वा मुखे क्रुद्धः समादधत् ।स तं बाहुमशक्तो वै खादितुं भेत्तुमेव वा दशनैर्मूल-निर्मुक्तैः सफेनं रुधिरं वमन् विपाटिताभ्यामोष्ठाभ्यांकटाभ्यां विदलीकृतः अक्षिणी विकृते चक्रे विसृतेमुक्तबन्धने निरस्तहनुराविष्टः शोणिताक्तविलोचनः ।उत्कर्णो नष्टचेतास्तु केशी बह्वचेष्टत उत्पतन्नसकृत्पादैः शकृन्मूत्रं समुत्सृजन् स्विन्नार्द्ररोमा श्रान्तस्तुनिर्यत्नचरणोऽभवत् केशिशक्थिविलग्नस्तु कृष्णबाहुर-शोभत व्याभुग्न इव घर्मान्ते चन्द्रार्द्धकिरणैर्घनः ।केशी कृष्णसंसक्तः श्रान्तगात्रो व्यरोचत प्रभाता-वनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः तस्य कृष्णभुजोद्धूताःकेशिनो दशना मुखात् पेतुः शरदि निस्तोयाःसिताभ्रावयवा इव तु केशी भृशं श्रान्तः कृष्णेना-क्लिष्टकर्मणा स्वभुजं स्वायतं कृत्वा पाटितो बलवत्तदा ।स पाटितो भुजेनाजौ कृष्णेन विकृताननः केशी नद-न्महानादं दानवो व्यथितस्तदा विघूर्णमानः स्रः-स्ताङ्गो भुखाद्रुधिरमुद्वमन् भृशं व्यङ्गीकृतवपुर्निकृ-त्तार्द्ध इवाचलः व्यादितास्यो महारौद्रः सोऽसुरःकृष्णबाहुना निपपात यथा कृत्तो नागो द्विविदली-कृतः बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ पशो-रिव महाघोरं निहतस्य पिनाकिना द्विपादपुच्छ-कृष्टार्द्धे श्रवणैकाक्षिनासिके केशिनस्ते द्विघा भूते द्वेत्वर्द्धे रेजतुः क्षितौ केजिदन्तक्षतश्चापि कृष्णस्य शु-शुभे भुजः कृत्तस्ताल इवारण्ये गजेन्द्रदशनाङ्कितः ।तं हत्वा केशिनं युद्धे कल्पयित्वा भागशः कृष्णःपद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान् तं हतं केशिनंदृष्ट्वा गोपा गोपस्त्रियस्तथा बभूवुर्म्रुदिताः सर्वे हत-विघ्ना हतक्लमाः दामोदरन्तु श्रीमन्तं यथास्थानं यथा-वयः अभ्यनन्दन् प्रियैर्वाक्यैःपूजयन्तः पुनः पुनः”“वैशम्पायन उवाच अथाहान्तर्हितो विप्रो नारदः खगमोमुनिः प्रीतोऽस्मि विष्णो! देवेति कृष्ण! कृष्णेतोचाव्रवीत् यदिदं दुष्करं कर्म्म कृतं केशिजिघांसया ।त्वय्येव केवलं युक्तं त्रिदिवे त्र्यम्बकेऽपि वा अहंत्वतेन गोविन्द! कर्मणा परितोषितः हयादस्मा-न्महेन्द्रोऽपि विभेति बलसूदनः कुर्वाष्णस्य वपुर्घोरंकेशिनो दुष्टचेतसः यत्त्वया पाटितं देह भुजना-यतपर्वणा एषोऽस्य मृत्युरन्ताय विहितो विश्वयो-निना यस्मात्त्वया हतः केशी तस्मान्मच्छासनं शृणु ।केशवो नाम तस्मात् त्वं ख्यातिं लोके गमिष्यसि” ।केशिहन् इत्यादयोऽप्यत्र “त्रिलोकात्मा त्रिलोकेशःकेशवः केशिहा हरिः” विष्णुस० “प्रकाशनात् केशाःरश्मयस्ततः अस्त्यर्थे इनि परमेश्वरे सूर्य्यादित्रये “केशी केशा रश्मयस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वेति”१२ ३६ निरु० निरुच्य “केश्यग्निं केशी विषंकेशी बिभर्त्ति रोदसी केशी विश्वं स्वर्द्दशे केशीदंज्योतिरुच्यते” ऋ० १० १३६ ऋचसुदाहृत्य व्याकृतंयथा “केशी अग्निञ्च विषञ्च विषमित्युदकनाम विष्णातेःविपूर्व्वस्य स्नातेः शुड्यर्थस्य विपूर्व्वस्य वा सचतेः द्यावापृथिव्यौ धारयति केशीदं सर्वमिदमभिरोहति केशीदंज्योतिरुच्यते इत्यादित्यमाह अथाप्येते इतरे ज्योतिषीकेशिनी उच्येते धूमेनाग्निः रजसा मध्यमः” इत्युक्त्वाच तेषामेषा सारधाणाभवतीत्युक्त्वा “त्रयः केशिनऋतुधा विचक्षते संवत्सरे वपत एकएषाम् विश्वमेकोअभिचष्टे शचीभिर्व्राजिरेकस्य ददृशे रूपम्” ॠ०१ १६४ ४४ ऋगुदाहृता व्याख्याताचैषा भाष्ये“केशस्थार्नायप्रकृष्टरश्मियुक्तास्त्रयोऽग्न्यादित्यवायवःते ऋतुधा काले काले विचक्षते विविधलक्षाणां भूमिंपश्यन्ति तेषां पृथक् पृथक् कार्य्यमाह एषां मध्य एको-ऽग्निः संवत्सरेऽतीते सति संवत्सरं वपते दाहेन केशस्थानीयोषधिवनस्पत्यादिकच्छेदनेन नापितकार्य्यं करो-ति एकः अन्यः आदित्यो विश्वं सर्वं जगत् शचीभिःस्वकीयैः प्रकाशवृष्ट्यादिकर्मभिरभिचष्टे सर्वतः पश्यतिंएकस्य वायोर्व्राजिर्गतिर्ददृशे दृश्यते सर्वैः रूपं अप्र-त्यक्षत्वात् स्पर्शशब्दधृतिकम्पलिङ्कैर्गम्यत इति हि न्याय-विदोवदन्ति” भा०