| YouTube Channel

केशाकिशि (kezAkizi)

 
वाचस्पत्यम्
Sanskrit
केशाकिशि
अव्य०
केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं“तत्र तेनेदमिति सरूपे” पा० स० कर्म्मव्यतिहारे इच्समा० पूर्व्वदीर्घः तिष्ठद्गुप्रभृतित्वादव्ययत्वम् अन्यो-न्यकेशग्रहणपूर्व्वकप्रवृत्तयुद्धे एवं कचाकच्यादयो-ऽप्यत्र
अव्य०
असरूपे तु नेदं प्रवर्त्तते “आर्छतांबहुसंरम्भात् केशाकेशि रथारथि” भा० वि० अ० “केशा-केश्यभवद्युद्धं रक्षसां वानरैः सह” भा० व० २८३ अ०