| YouTube Channel

केशवादित्य (kezavAditya)

 
Monier Williams Cologne
English
केशवादित्य
m.
a form of the sun,
SkandaP.
Aufrecht Catalogus Catalogorum
English
केशवादित्य See Keśavārka.
केशवार्क or केशवादित्य son of Rāṇiga, son of Śriyāditya,
son of Janārdana, brother of Jayāditya and Kṛṣṇa,
father of Gaṇeśa Daivajña (1520). Oxf. 349^b:
Kṛṣṇakrīḍitakāvya. Oxf. 349^a.
Jātakapaddhati or Keśavī.
Bṛhatkeśavī. B. 4, 166.
Keśavī laghvī and C. by Viśvanātha. K. 224.
Tājikapaddhati.
Tājikabhūṣaṇa. K. 230.
Nāvapradīpa. Bhr. 332.
Brahmatulyagaṇitasāra. B. 4, 168.
Muhūrtakalpadruma. B. 4, 174.
Muhūrtatattva and C..
Varṣapaddhati.
Varṣaphala. B. 4, 192.
Vivāhavṛndāvana and C..
Śrīpatipaddhati (?). NW. 576.
Ṣaḍvidhayogaphala. B. 4, 202.
Saṃtānadīpikā. Oudh III, 14.
केशवार्क or केशवादित्य son of Rāṇiga, is the author
of the Karaṇakaṇṭhīrava, the Kṛṣṇakrīḍita, Brahma-
tulyagaṇitasāra, Vivāhavṛndāvana and C.
.--The
Jātakapaddhati or Keśavī, the Tājikapaddhati and
the Muhūrtatattva belong to Keśava, son of Kama-
lākara. The remaining works are composed by some
Keśava, who is not distinguished from others in
the Lists from which they were given.
वाचस्पत्यम्
Sanskrit
केशवादित्य
पु०
काशीस्थे आदित्यभेदे तत्कथा काशीख०५१ अ० यथा “अतः परंशृणु मुने! केशवादित्यमुत्तमम् ।यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान् व्योम्नि सञ्चर-माणेन सप्ताश्वेनादिकेशवः एकदाऽदर्शि भावेन पूजयन्स्निग्धमीश्वरम् कौतुकाद्दिव उत्तीर्य्य हरेरविरुपाविशत् ।निःशब्दोनिश्चलः सुस्थोमहाश्चर्य्यसमन्वितः प्रतीक्ष्यमाणोऽवसरं किञ्चित् प्रष्टुमना रविः हरिं विसर्जि-तार्घञ्च प्रणनाम कृताञ्जलिः स्वागतन्ते हरिः प्राहबहुमानपुरःसरम् स्वाभ्यासमासयामास भास्वन्तन्नत-कन्धरम् अथावसरमालोक्य लोकचक्षुरधोक्षजम् ।नत्वा विज्ञापयामास कृतानुज्ञो सरारिणा रविरुवाच ।अन्तरात्मासि जगतां विश्वम्भर! जमत्पते! तवापि पूज्यःकोऽप्यस्ति जगत्पूज्यात्र माधव! त्वत्तश्चाविर्भवेदेतत्त्वयिसर्व्वं प्रलीयते त्वमेव पाता सर्व्वस्य जगतोजगतांनिधे! इत्याश्चर्य्यं समालोक्य प्राप्तोह्यत्र तवान्तिकम् ।किमिदं पूज्यते नाथ! भवता भवतापहृत्! इति श्रुत्वाहृषीकेशः सहस्रांशोरुदीरितम् उच्चैर्मात्थ सप्ताश्वं वार-यन् करसंज्ञया विष्णुरुवाच देवदेवोमहादेवो नील-कण्ठौमापतिः एक एव हि पूज्योऽत्र सर्वेषां सर्वकार-णम् अत्र त्रिलोचनादन्यं समर्च्चयति मोहधीः ।सलोचनोऽपि ज्ञेयो लोचनाभ्यां विवर्जितः एको-मृत्युञ्जयः पूज्योजन्ममृत्युजराहरः मृत्युञ्जयंकिलाभ्यर्च्च्य लोको मृत्युञ्जयोभवेत् कालकालं स-माराध्य भृङ्गी कालं जिगाय वै शिलादिमपि त-त्याज मृत्युर्मृर्त्युञ्जयार्च्चकम् विजिग्मे त्रिपुरं यस्तुहेलयैकेषुमोक्षणात् तं समभ्यर्च्च्य भूतेशं को पूज्यतमोभवेत् त्रिजगज्जयिनस्त्रातुस्त्र्यक्षस्याराधनं परम् ।को नाराधयति वृध्न! हरस्य स्मरविद्विषः यस्याक्षिपक्ष्मसङ्कोचाज्जगत् सङ्कोचमेत्यदः विकस्वरं विकाशाच्च कथपूज्यतमोन सः शम्भोर्लिङ्गं समभ्यर्च्य पुरुषार्थचतु-ष्टयम् प्राप्नोत्यत्र पुमान् सद्योनात्र कार्य्या विचा-रणा समर्च्य शाम्भवं लिङ्गमधिजन्मशतार्ज्जितम् ।पापपुञ्जं जहात्येव पुमानत्र क्षणाद्ध्रुवम् किं किंन सम्भवेदत्र शिवलिङ्गसमर्च्चनात् पुत्राः कलत्रंक्षेत्राणि स्वर्गोमोक्षोऽप्यसंशयम् त्रैलोक्यैश्वर्य्यसम्प-त्तिर्मया प्राप्ता सहस्रगो! शिवलिङ्गार्च्चनादेकात् सत्यंसत्यं पुनः पुनः अयमेव परोयोगस्त्विदमेव परंतपः इदमेव परं ज्ञानं स्थाणुलिङ्गं यदर्च्यते ।यैर्लिङ्गं सकृदप्यत्र पूजितं पार्वतीपतेः कुतोजन्मभयंतेषां संसारे दुःखभाजने सर्वं परित्यज्य रवे! तल्लिङ्गंशरणं गतः तं पापानि बाधन्ते महान्त्यपि दि-वाकर! लिङ्गार्च्चने भवेच्छुद्धिस्तेषामेवात्र भास्कर! ।येषां पुनर्भवच्छेदं चिकीर्षति महेश्वरः लिङ्गाराधनात् पुण्यं त्रिषु लीकेषु चापरम् सर्वतीर्था-भिषेकः स्याल्लिङ्गस्नानाम्बुसेवनात् तस्माल्लिङ्गं त्वम-प्यर्क! समर्च्चय महेशितुः संप्राप्तुं परमां लक्ष्मींमहातेजोविजृम्भिणीम् इति श्रुत्वा हरेर्वाक्यतदारभ्य सहस्रगुः विधाय स्फाटिकं लिङ्गं मुनेऽ-द्यापि समर्च्चयत् गुरुत्वन तदाकल्प्य विवस्वानादिकेशवम् तत्रोपतिष्ठतेऽद्यापि उत्तरेणादिकेशवात् ।अतः केशवादित्यः काश्यां भक्ततमोनुदः सम-र्च्चितः सदा देयान्मनसोवाञ्छितं फलम् केशवादित्य-साराध्य वाराणस्यां नरोत्तमः परमं ज्ञानमाप्नोतियेन निर्वाणभाग्भवेत् तत्र पादोदके तीर्थे कृतस-र्वोदकक्रियः विलोक्य केशवादित्यं मुच्यते सर्व-पातकैः अगस्ते! रथसप्तम्यां रविवारो यदाप्यते ।तत्र पादोदके तीर्थे आदिकेशवसन्निधौ स्नात्वोषसि नरोमौनी केशवादित्यपूजनात् सप्तजन्मार्ज्जि-तात् पापात् मुक्तो भवति तत्क्षणात् यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु तन्मे रोगञ्च शोकञ्चमाकरी हन्तु सप्तमी एतज्जन्मकृतं पापं यच्च ज-न्मान्तरार्ज्जितम् मनोवाक्वायजं यच्च ज्ञाताज्ञातञ्चयत् पुन इति सप्तविधं पापं स्नानान्मे सप्तसप्तिकोसंप्तव्याधिसमायुक्तं हर माकरि! सप्तमि! एतन्मन्त्रत्रयं जप्त्वा स्नात्वा पादीदके नरः केशवादित्यमालोक्यक्षणान्निष्कल्मषो भवेत् केशवादित्यमहात्म्यं शृ-ण्वन् श्रद्धासमन्वितः नरोन लिप्यते पापैः शिवभक्तिञ्चविन्दति”