केशवपनीय (kezavapanIya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
Englishवाचस्पत्यम्
Sanskritकेशवपनीय अतिरात्रयागमेदे तत्करणप्रकारादि कात्या०श्रौ० १५ । ९ । २० दर्शितः यथा “तदन्ते केशवपनीयोऽतिरात्रःपौर्ण्णमासीसुत्यः” सू० । “तयोः पशुबन्धयोरन्ते केशवप-नीयसंज्ञः अतिरात्रसंस्थः सोमयागो भवति स च पौ-र्ण्णमासीसुत्यः । ज्यैष्ठ्यां पौर्ण्णमास्यां तस्य सुत्या भवती-त्यर्थः” सं० व्या० । शत० व्रा० ५, ५, ३, १, विशेषोदर्शितः“एतौ पशुबन्धौ इत्युपक्रमे“अभिषेचनीयेनेष्टा । केशान्न वपते तद्यत् केशान्न वपतेवीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभि-षिञ्चति तस्याभिषिक्तस्य केशान् प्रथमान् प्राप्नोति स यत्केशान् वपेतैतां श्रियं जिह्मां विनाशयेद्व्युदुह्यात्तस्मात्केशान्न वपते संवत्सरम् । संवत्सरसमिता वैव्रतचर्या तस्मात् संवत्सरं न वपते स एष व्रतविस-र्जनीयोपयोगो नाम स्तोमो भवति केशवपनीयः ।तस्यैकविंशं प्रातःसवनम् । सप्तदशं माध्यन्दिनं सवनं, पञ्चदशं तृतीयसवनं सहोक्थैः सह षोडशिना सहरात्र्या त्रिवृद्रथन्तरः सन्धिर्भवति एष एवैकविंशो यएष तपति स एतस्मादेकविंशादपयुङ्क्ते स सप्तदशमभि-प्रत्यवैति सप्तदशात् पञ्चदशं पञ्चदशादस्यामेव त्रिवृति प्र-तिष्ठायां प्रतितिष्ठति तस्य रथन्तरं पृष्ठं भवति इयं वैरथन्तरमस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठत्यतिरात्रो भवतिप्रतिष्ठा वा अतिरात्रस्तस्मादतिरात्रो भवति । स वै न्येववर्तयते । केशान्न वपते वीर्यं वा एतदपां रसः सम्भृतोभवति येनैनमेतदभिपिञ्चति तस्याभिषिक्तस्य केशान् प्रथमान्प्राप्नोति स यत् केशान् वपेतैतां श्रियंजिह्मां विना-शयेद्व्युदुह्यादथ यन्निवर्तयते तदात्मन्यवैतां श्रियं नियु-नक्ति तस्मान्न्येव वर्तयते केशान्न वपते तस्यैषैव व्रतचर्याभवति यावज्जीवं नास्यां प्रतितिष्ठति । आसन्द्या उपा-नहाऽउपमुञ्चते । उपानद्भ्यामधि यदस्य यानं भवतिरथो वा किञ्चिद्वा सर्वं वा एष इदमुपर्य्युपरि भवत्यर्वा-गेवास्मादिदं सर्वं भवति यो राजसूयेन यजते तस्मादस्येवव्रतचर्या भवति यावज्जीवं नास्यां प्रतितिष्टति” मू० ।“तृतीये केशपनीयातिरात्रस्य वैशेषिका धर्माउच्यन्ते ।पशुबन्धद्वयादनन्तरं केशवनीयातिरात्रयागः कर्त्तव्यः ।अभिषेचनीयसोमयागं कृत्वा संवत्सरपर्यन्तं केशवप-नाकरणलक्षणं व्रतमाचर्य्यम् ततस्तद्व्रतविसर्जनार्थमेकःसोमयागः पौर्णमासीसुत्यः कार्यः स एव केशवपनीया-तिरात्रौच्यते रात्रिमतीत्य वर्तत इत्यतिरात्रः अतिरा-त्रसंस्थया कार्य्य इत्यर्थः । विदुह्यात् गतसारोऽपि भवेत् ।केशवपनार्थमुपयुज्यमानः क्रियमाणः स्तोमः एकविंशादि-स्तोमवान् यागः केशवपनीयः । तत्र सामगैर्गीयमानेषुस्तोत्रेषु चोदकेन प्रातःसवनादिषु त्रिवृदादिस्तोमप्राप्तौतानपवदितुं विशेषं दर्शयति तस्यैकविंशमिति । प्रातःसव-नमेकविंशस्तोमयुक्तं कर्त्तव्यम् माष्यन्दिनं सप्तदशस्तो-मकम् अस्य सोमयागस्यातिरात्रसंस्थानि तृतीयसवनेऽग्नि-ष्टोमवद् द्वादश स्तोत्राणि तत उत्तरं त्रीण्युक्थस्तोत्राणिएकं षोडशिस्तोत्रं रात्रिपर्यायस्तोत्राणि द्वादश तानिसर्वाण्यपि पञ्चदशस्तोमकानि कर्त्तव्यानि । स्तोमत्रिवृत्प्र-चारस्तु प्राचीमारोहेत्यत्र दिक्समारोहणमन्त्रव्याख्या-वसरे दर्शितः । किं च पूर्वदिवसरात्रिशेषे उत्तरदिवस-स्योषःकाले यज्ञसंस्थापकमेकं चरमं स्तोत्रं तृतीयपर्या-यस्यान्ते रथन्तरसाम्ना गातव्यम् तत् सन्धिस्तोत्रमित्युच्यतेतत् स्तोत्रं त्रिवृत्स्तोत्रयुक्तं कार्य्यम् । एकविंशादवरो-हणं त्रिवृत्पर्य्यन्तं यत् स्तोमकरणमुक्तं तत् सूर्य्यलोका-दिक्रमाद् भूम्यवस्थानात्मना प्रशंसति एष एवैकविंश इतिय एष तपति स एकविंशः सूर्य्य इत्यर्थः तस्मादपयुङ्क्तेअवरोहतीत्यर्थः सोऽवरुह्यावरुह्य त्रिवृद्रूपायामस्यां भू-मिलक्षक्षणायां प्रतिष्ठायां प्रतिष्ठितवान् भवति साध्यन्दिनसवने रथन्तरं वृहत्साम वा पृष्ठस्तोत्रं प्रकृतौ वि-कल्पितं अत्रैकं नियमयति तस्य रथन्तरमिति । अस्यसोमकालस्यातिरात्रसंस्थात्वं प्रतिष्ठात्मना प्रशंसति अति-रात्र इति । अतिरात्रसंस्थात्मना कृतएष क्रतुः प्रतिष्ठा-रूपः । अस्य क्रतोः केशावापव्रतविसर्जनार्थं क्रियमाण-त्वात्तदन्ते केशवापः कार्य्यः तत्र कञ्चिद्विशेषं विधत्ते सवैन्येवेति स यजमानो निवर्तयते केशान्निकृन्तेदेव न वपेत्वपनं नाम मुण्डनं तन्न कुर्यात् निवर्तनं कर्तनं तत्कु-र्यात् एषा केशकर्तनलक्षणा व्रतचर्या यावज्जीवनं क-र्त्तव्या न केशमुण्डनं कार्य्यम् कदाचिदप्यनुपानत्-कोऽपादुकः कस्यां चिदपि भूमौ उपानहौ पादुके न प्रतितिष्ठति अवस्थापनं न कुर्य्यात् । आसन्द्या अवरोहणस-मयेऽपि उपानहौ पादुके उपसुञ्चते इतस्ततः संचरण-समये रथं वा यानं वारोहेत्” । भा०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
