| YouTube Channel

केशवकीर्त्तिन्यास (kezavakIrttinyAsa)

 
वाचस्पत्यम्
Sanskrit
केशवकीर्त्तिन्यास तन्त्रसारोक्ते विष्णुपूजाङ्गे न्यास“अं केशवाय कीर्त्त्यै नमो ललाठे आं नाराय-णाय कान्त्यै नमो मुखे इं माधवाय तुष्ट्यै नमोदक्षनेत्रे ईं गोविन्दाय पुष्ट्यै नमो वामनेत्रे नमःसर्वत्र उं विष्णवे धृत्यै दक्षकर्णे ऊं मधुसूदनायशान्त्यैवामकर्ण्णे ऋं त्रिविक्रमाय क्रियायै दक्षनासापुटे ।ॠं वामनाय दयायै वामनासापुटे ऌं श्रीधरायमेधायै दक्षगण्डे ॡं हृषीकेशाय हर्षायै वामगण्डे ।एं पद्मनाभाय श्रद्धायै ओष्ठे ऐं दामोदराय लज्जायैअधरे वासुदेवाय लक्ष्म्यै ऊर्द्धदन्तपङ्क्तौ औंसङ्कर्षणाय सरस्वत्यै अधोदन्तपङ्क्तौ अं प्रद्युम्नायप्रीत्यै मस्तके अः अनिरुद्धाय रत्यै मुखे कचक्रिणे जयायै खं गदिने दुर्गायै गं शार्ङ्गिणे प्र-भायै घं खङ्गिने सत्यायै ङं शङ्खिने चण्डायैदक्षवाहुकरमूलसन्ध्यग्रेषु चं हलिने वाण्यै छं मुस-लिने विलासिन्यै जं शूलिने विजयायै झं पाशिनेविरजायै ञं अङ्कुशिने विश्वायै, वामबाहुकरमूलसन्ध्य-ग्रेषु टं मुकुन्दाय विनदायै ठं नन्दजाय सुनन्दायै ।डं नन्दिने स्मृत्यै ढं नराय ऋद्ध्यै णं नरकजिते समृद्ध्यै दक्षपादमूलसन्ध्यग्रेषु तं सूरये शुद्ध्यैथं कृष्णाय बुद्ध्यै दं सत्याय धृत्यै धं सत्वाय म-त्यै नं सौराय क्षमायै वामपादमूलसन्ध्यग्रेषु पंशूराय रमायै दक्षपार्श्वे फं जनार्द्दनाय उमायैवामपार्श्वे बं भूधराय क्लेदिन्यै पृष्ठे भं विश्वमूर्त्तयेक्लिन्नायै नाभौ मं वैकुण्ठाय वसुदायै उदरे यंत्वगात्मने पुरुषोत्तमाय वमुधायै हृदि रं असृगा-त्मने बलिने परायै दक्षांशे लं मांसात्मने बलानुजायपरायणायै ककुदि वं मेदआत्मने बलाय सूक्ष्मायैवामांसे शं अस्थ्यात्मने वृषघ्नाय सन्ध्यायै हृदादिदक्ष-करे षं सज्जात्मने वृषाय प्रज्ञायै हृदादिवामकरे संशुक्रात्मने हंसाय प्रभायै हृदादिदक्षपादे हं प्राणात्मनेवराहाय निशायै हृदादिवामपादे लं जीवात्मने विम-लाय अमोघायै हृदाद्युदरे क्षं क्रोधात्मने नृसिंहायविद्युतायै हृदादिमुखे तथा गौतमीये “केशवादिरयंन्यासोन्यासमात्रेण देहिनाम् अच्युतत्वम् ददात्येव सत्यंसत्यं संशयः” मातृकार्ण्णं समुच्चार्य्य केशवाय इतिस्मरेत् कीर्त्त्यै नमसा युक्त मित्यादिन्यासमाचरेत् ।केशवाय ततः कीर्त्त्यै कान्त्यै नारायणाय च” इत्यग-स्त्यसंहितावचनाच्चायं क्रमः तु केशवकीर्त्तिभ्यांनम इति तथा भक्तिमुक्ति मिच्छताऽयं न्यासः श्रीवी-जादिः कर्त्तव्यः यथा श्रीं अं केशवाय कीर्त्त्यै नमैत्या-दि तथा “एवं प्रविन्य सेन्न्यासं लक्ष्मीवीजपुरः-सरम् स्मृतिधृतिमहालक्ष्मीं प्राप्यान्ते हरितां व्रजेत्”