केशव (kezava)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English केशव kezava having long or much or handsome hair
केशव kezava name of the month mArgazIrSa
केशव kezava name of Krishna
केशव kezava red kamlaa tree [ Mallotus philippensis - Bot. ]
Wilson
EnglishApte
Englishकेशव [kēśava], [केशाः प्रशस्ताः सन्त्यस्य
केश-व 2.19] Having much, fine or luxuriant hair. -वः An epithet of Viṣṇu
केशव जय जगदीश हरे 1
केशवं पतितं दृष्ट्वा पाण्डवा हर्षनिर्भराः Subhās.
The Supreme Being.
The month of मार्गशीर्ष. -आयुधः the mango tree. (-धम्) a weapon of Viṣṇu. -आलयः, -आवासः the Aśvattha tree. -दैवज्ञः of an astronomer. -स्वामिन् of a grammarian.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishकेशव, अस्, आ, अम्, having long or much or hand-
some hair
(अस्), m. an epithet of Viṣṇu or Kṛṣṇa
N. of the author of a lexicon called Kalpa-dru
the
author of the Dvaita-pariśiṣṭa
the father of Govinda
and Rucikara
N. of the father of Brāhma and uncle
of Maheśvara
N. of the son of Viśvadhara and
brother of Karinātha
N. of the father of Vopadeva
N. of a plant, = पुन्नाग.
—केशव-जातक-पद्-
धत्य्-उदाहरण, अम्, n. a commentary by Viś-
vanātha on the work Jātaka-paddhati.
—केशव-जी-
नन्द-शर्मन्, आ, m., N. of an author.
—केशव-
दास, अस्, m., N. of an author.
—केशव-दैवज्ञ,
अस्, m., N. of an astronomer.
—केशव-भक्ति, इस्,
f. devotion to Kṛṣṇa.
—केशव-मिश्र, अस्, m., N.
of an author.
—केशव-स्वामिन्, ई, m., N. of a
grammarian.
—केशवायुध (°व-आय्°), अस्, m. the
Mango tree
any of Kṛṣṇa's weapons.
—केशवार्क
(°व-अर्°), अस्, m., N. of the author of the poem
Kṛṣṇa-krīḍita, a son of Jayāditya and grandson of
Rāṇiga
N. of the author of a work called Jātaka-
paddhati
N. of the author of a work called Vivāha-
vṛndāvana
—केशवालय (°व-आल्°) or केशवा-
वाल (?) or केशवावास (°व-आव्°), अस्, m. the holy
fig tree, Ficus Religiosa.
Macdonell
EnglishBenfey
EnglishHindi
Hindiदानव Kesi (KRishhNa) हे हत्यारा
Apte Hindi
Hindiकेशव
- "केशः प्रशस्ताः सन्त्यस्य, केश + व"
बहुत या सुन्दर बालों वाला
केशवः
- "केशः प्रशस्ताः सन्त्यस्य, केश + व"
विष्णु का विशेषण
Shabdartha Kaustubha
Kannadaकेशव
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿಷ್ಣು
निष्पत्तिः - > "वः" (५-२-१०९)
व्युत्पत्तिः - > कश्च ईशश्च केशौ, तौ पुत्रपौत्रत्वेन स्तः अस्य । प्रशस्नोः केशाः सन्त्यस्य वा ।
प्रयोगाः - > "शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः" । "नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः" । "प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे" ।
उल्लेखाः - > पाद्मपु०, वि० स०, माघ० १६-२५
विस्तारः - > "प्रशस्तनीलकेशत्वात् केशवः परिकीर्तितः" - निरुक्तिः । "यस्मात् त्वयैव दुष्टात्मा हतः केशी जनार्दन । तस्मात् केशवनाम्ना त्वं लोके ज्ञेयो भविष्यसि" - विष्णुपु० ।
केशव
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸುರಗಿ ಮರ /ಸುರಹೊನ್ನೆ ಮರ
केशव
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಉತ್ತಮವಾದ ಕೇಶಪಾಶವುಳ್ಳ /ಶ್ರೇಷ್ಠವಾದ ತುರುಬಿನಿಂದ ಕೂಡಿದ
विस्तारः - > "केशवः केशसंयुते । पुन्नागे वासुदेवे च" - हेम० ।
L R Vaidya
Englishभूतसङ्ख्या
Sanskrit९, अङ्क, अन्तर, अम्बुजासन, उपेन्द्र, ऋद्धि, कपाट, कवाट, कवि, कूप, केशव, क्षत, खग, खचर, खेगामी, खेचर, गम्भीर, गाम्भीर, गो, ग्रह, छिद्र, तामिस्र, तार्क्ष्यध्वज, दिविसद्, दुर्गा, द्वार, नन्द, नभोग, नव, निधान, निधि, पट, पदार्थ, बल, बिल, मिति, यन्त्र, रत्न, रन्ध्र, लब्ध, लब्धि, वट, विल, विवर, शुषिर, सुषिर, हरि
Aufrecht Catalogus Catalogorum
Englishकेशव father of Ratneśvaramiśra, the latter of whom
was guru of Mahīdhara (Śulbasūtravṛtti 1590). L.
753.
केशव father of Vācaspati, grandfather of Lakṣmīdāsa
(Gaṇitatattvacintāmaṇi 1501). W. p. 235. Cambr. 51.
केशव
Kalpadru Nāmamālā, lexicon. Quoted by Mallinātha
on Kirātārjunīya 9, 77 and on Raghuvaṃśa,
by Dinakara and Hemādri on Raghuvaṃśa, by
Bhaṭṭoji Oxf. 164^a.
केशव son of Ananta, Laugākṣikula, of Puṇyastambha:
Ānandavṛndāvanacampū. NP. X, 16.
Nṛsiṃhacampū.
Prahlādacampū, written by request of king Umāpati
Dalapati. L. 1427.
Edgerton Buddhist Hybrid
EnglishAbhyankara Grammar
Englishकेशव writer of a commentary named प्रकाश on the Śikṣā of Pāṇini. He lived in the 17th century.
Sanskrit Tibetan
Tibetanskra can gsod
केशव
skra bzang
केशव
अभिधानचिन्तामणिः
Sanskritविष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवो
दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।
विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-
र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥
गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।
वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥
दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।
त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥
मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।
पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥
श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।
सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥
यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
विष्णु (पुं), जिष्णु (पुं), जनार्दन (पुं), हरिकेश (पुं), हृषीकेश (पुं), अच्युत (पुं), केशव (पुं), दाशार्ह (पुं), पुरुषोत्तम (पुं), अब्धिशयन (पुं), उपेन्द्र (पुं), अज (पुं), इन्द्रानुज (पुं), विष्वक्सेन (पुं), नरायण (पुं), जलशय (पुं), नारायण (पुं), श्रीपति (पुं), दैत्यारि (पुं), पुराणपुरुष (पुं), यज्ञपुरुष (पुं), तार्क्ष्यध्वज (पुं), अधोक्षज (पुं), गोविन्द (पुं), षड्बिन्दु (पुं), मुकुन्द (पुं), कृष्ण (पुं), वैकुण्ठ (पुं), पद्मेशय (पुं), पद्मनाभ (पुं), वृषाकपि (पुं), माधव (पुं), वासुदेव (पुं), विश्वम्भर (पुं), श्रीधर (पुं), विश्वरूप (पुं), दामोदर (पुं), शौरि (पुं), सनातन (पुं), विधु (पुं), पीताम्बर (पुं), मार्ज (पुं), जिन (पुं), कुमोदक (पुं), त्रिविक्रम (पुं), जह्नु (पुं), चतुर्भुज (पुं), पुनर्वसु (पुं), शतावर्त (पुं), गदाग्रज (पुं), स्वभू (पुं), मुञ्जकेशिन् (पुं), वनमालिन् (पुं), पुण्डरीकाक्ष (पुं), बभ्रु (पुं), शशबिन्दु (पुं), पृश्निशृङ्ग (पुं), धरणीधर (पुं), पाण्डवायन (पुं), सुवर्णबिन्दु (पुं), श्रीवत्स (पुं), देवकीसूनु (पुं), गोपेन्द्र (पुं), विष्टरश्रवस् (पुं), सोमसिन्धु (पुं), जगन्नाथ (पुं), गोवर्धनधर (पुं), यदुनाथ (पुं), गदाभृत् (पुं), शार्ङ्गभृत् (पुं), चक्रभृत् (पुं), श्रीवत्सभृत् (पुं), शङ्खभृत् (पुं)
मुण्डस्तु मुण्डितः केशी केशवः केशिकोऽपि च ।
वलिरः केकरो वृद्धनाभौ तुण्डिलतुण्डिभौ ॥ ४५८ ॥
मुण्ड (पुं), मुण्डित (पुं), केशिन् (पुं), केशव (पुं), केशिक (पुं), वलिर (पुं), केकर (पुं), वृद्धनाभि (पुं), तुण्डिल (पुं), तुण्डिभ (पुं)
अभिधानरत्नमाला
Sanskritविष्णु
विष्णु, कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम
विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।
उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।
नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
verse 1.1.1.21
page 0004
नाममाला
Sanskritकृष्ण, दामोदर, विष्णु, उपेन्द्र, पुरुषोत्तम, केशव, हृषीकेश, शार्ङ्गिन्, नारायण, हरि, केशीसूदन, मधुसूदन, बलिसूदन, बाणसूदन, हिरण्यकशिपुसूदन, मुरसूदन, शौरि, पद्मनाभ, अधोक्षज, गोविन्द, वासुदेव
कृष्णो दामोदरो विष्णुरुपेन्द्रः पुरुषोत्तमः ।
केशवश्च हषीकेशः शार्ङ्गी नारायणो हरिः ॥ ७४ ॥
केशी मधुर्बलिर्बाणो हिरण्यकशिपुर्मुरः ।
तदादिसूदनः शौरिः पद्मनाभोऽप्यधोक्षजः ॥ ७५ ॥
गोविन्दो वासुदेवश्च लक्ष्मीः श्रीर्गोमिनीन्दिरा ।
तत्पतिः शैलभूम्यादिधरश्चक्रधरस्तथा ॥ ७६ ॥
verse 0.1.1.74
page 0039
Mahabharata
EnglishKeśava = Kṛshṇa (Vishṇu), q.v.
पुराणम्
Englishकेशव / KEŚAVA. See under kṛṣṇa.
शब्दकल्पद्रुमः
Sanskritकेशवः, (को ब्रह्मा ईशः रुद्रः तौ आत्मनि स्वरूपेवयति प्रलये उपाधिरूपमूर्त्तित्रयं मुक्त्वा एकमात्र-परमात्मस्वरूपेणावतिष्ठते इति । यथा, भागवते२ अध्याये चतुःश्लोक्याम् ।“अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ।ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनितद्विद्यादात्मनो मायां यथाभासो यथातमः ॥
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः ।अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्व्वत्र सर्व्वदा ॥
एतन्मतं समातिष्ठ परमेण समाधिना ।भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित्” ॥
तथा, केशं केशिनं वातिं हन्ति । केश + वा + कः ।यथा, हरिवंशे । ८० । ६६ ।“यस्मात्त्वया हतः केशी तस्मान्मच्छाशनं शृणु ।केशवो नाम नाम्ना त्वं ख्यातो लोके भविष्यसि” ॥
यद्वा, के जले शववत् भातीति । प्रलयकालेक्षीरोदशायितया तथात्वम् । कश्च अश्च ईशश्चते केशा ब्रह्मविष्णुरुद्राः नियम्यतया सन्त्यस्य ।यद्वा, कश्च ईशश्च तौ केशौ पुत्त्रपौत्त्रत्वेन भवतोऽस्य । “केशाद्वोऽन्यतरस्याम्” । ५ । २ । १०९ ।इति वप्रत्ययः । अथवा वाति गच्छति तद्वत्तया ।वा + कः । स्वरूपतस्तेषां भेदाभावादपि वासु-देवे सर्व्वात्मनि परमेश्वरेऽस्य वृत्तिः । अतोविष्णुसंहितायाम् ।“नरसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः” ॥
किञ्च ।“त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः” ॥
पूज्यपादैर्भाष्यकृद्भिरपि केशवशब्दस्य निरुक्ति-द्वयमवलम्ब्य नामद्वयं समर्थितं तयोराद्ये । अभि-रूपाः केशा यस्य स केशवः । कश्च अश्च ईशश्चकेशास्त्रिमूर्त्तयस्ते वशे वर्त्तन्ते यस्य सः । केशि-दानवहननाद्वा केशवः ।“यस्मात् त्वयैव दुष्टात्मा हतः केशी जनार्द्दन !तस्मात् केशवनाम्ना त्वं लोके ज्ञेयो भविष्यसीति” ॥
भांगवतादिषु । द्वितीये । केशसंज्ञिताः सूर्य्यादि-संक्रान्ता अंशवः तद्वत्त्वेन केशवो वा ।“अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः ।सर्व्वज्ञाः केशवं तस्मात् प्राहुर्म्मां द्विजसत्तमाः” ॥
इति महाभारतम् । “त्रयः केशिनः” । इतिश्रुतेश्च ब्रह्मविष्णुशिवाख्या हि शक्तयः केशसंज्ञि-ताः । “मत्केशा वसुधातले” इति भागवते च ।यथा, हरिवंशोक्तौ, --“को ब्रह्मेति समाख्यातः ईशोऽहं सर्व्वदेहिनाम् ।आवां तवांशसम्भूतौ तस्मात् केशवनामवान्” ॥
तेनास्य बहुधा निरुक्तिः ।) विष्णुः । इत्यमरः ।१ । १ । १८ ॥
पुन्नागवृक्षः ॥
(केशाः प्रशस्ताःसन्त्यस्य । “केशाद्वोऽन्यतरस्याम्” । ५ । २ ।१०९ । इति वः ।) केशवति त्रि । इति मेदिनी ॥
(जलस्थशवदेहः । यथा, विदग्धमुखमुण्डनम् ।“केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः ।रुदन्ति पाण्डवाः सर्व्वे हा ! हा ! केशव ! केशव !” ॥
के जले शवं पतितं दृष्ट्वा द्रोणः काकः हर्षं प्राप्त-वान् पाण्डवाः शृगालाः रुदन्ति चीत्कारं कुर्व्व-न्तीत्यर्थः ॥
)
वाचस्पत्यम्
Sanskritकेशव । केशाः प्रशस्ताः सन्त्यस्य “केशाद्वोऽन्यत-रस्माम्” पा० व० । १ प्रशस्तकेशयुक्ते । केशं--केशिनं वातिहन्ति वा--क । २ विष्णौ “यस्मात् त्वया हतः केशीतस्मान्मच्छासनं शृणु । केशवोनाम नाम्ना त्वं ख्यातोलोके भविष्यसि” हरिवं० ८१ अ० । कश्च अश्च ईशश्च केशाब्रह्मविष्णुरुद्रा नियम्यतया सन्त्यस्य कश्च ईशश्च केशौपुत्रपौत्रत्वेन स्तोऽस्य वा व, तान् तौ वा वाति गच्छतितथात्व न वा--क वा । ३ परमेश्वरे । “शम्भोः पितामहोब्रह्मपिता शक्राद्यधीश्वरः” इति पाद्मे तस्य तथात्वो-क्तेः । तदभेदादपि वासुदेवेऽस्य वृत्तिः । अतएव वि-ष्णुस० “नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः”“त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः”इत्युक्तं तद्भाष्ये च केशवशब्दस्य निरुक्तिद्वयमाश्रित्यनामद्वयं समर्थितम् तत्राद्यवाक्ये “अभिरूपाः केशायस्यस केशवः कश्च अश्च ईशश्च केशास्त्रिमूर्त्तयस्ते वशेवर्त्तन्ते यस्य स केशवः । केशिबधाद्वा केशवः “यस्मा-त्त्वयैव दुष्टात्मा हतः केशी जनार्द्दन! तस्मात्केशवनाम्ना त्वं लोके ज्ञैयोभविष्यसीति” विष्णु ”भा० । द्वितीयवाक्ये “केशसंज्ञिताः सूर्य्यादिसंक्रान्ताःअंशवस्तद्वत्तया केशवः “अंशवोये प्रकाशन्ते मम ते के-शसंज्ञिताः सर्व्वज्ञाः । केशवं तस्मात् प्राहुर्मांद्विजसत्तमाः” भारतम् । “त्रयः केशिनः” इतिश्रुतेःब्रह्मविष्णुशिवाख्या हि शक्तयः केशसंज्ञिताः-मत्केशा वसुधातले” इति स्मृतेश्च । आदौ केशशब्दःशक्तिपर्य्ययत्वेन प्रयुक्तः । कोव्रह्मैति समाख्यात ईशोऽहंसर्व्वदेहिनाम् । आवां तवांशसंभूतौ तस्मात् केशवनाम-वान्” हरिवंशोक्तेः” भा० । तेनास्य बहुधा निरुक्तिः ।ज्योतिर्विद्भेदे यस्य जातकादिना नानग्रन्थाः सन्ति ।चतुर्विंशतिविष्णुमूर्त्तिमध्ये ५ विष्णुमूर्त्तिभेदे तस्य ध्यानंध्यानशब्दे वक्ष्यते । अलुक्स० । ६ जलस्थे शवे च “के-शवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः । रुदन्ति पाण्डवाःसर्व्वेहाहा केशव केशव” विदग्धमु० (भेदेयथा तन्त्रसारे
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
