| YouTube Channel

केशरः (kezaraH)

 
Apte Hindi
Hindi
केशरः
पुं*
- " के + शृ + अच्, अलुक् स*"
अयाल
केशरः
पुं*
- " के + शृ + अच्, अलुक् स*"
फूल का रेशा या तन्तु
केशरः
पुं*
- " के + शृ + अच्, अलुक् स*"
बकुल का पेड़
केशरः
पुं*
- " के + शृ + अच्, अलुक् स*"
रेशा या सूत्र
Wordnet
Sanskrit
Synonyms:
पुन्नागः, पुरुषः, तुङ्गः, केशरः, देववल्लभः, कुम्भीकः, रक्तकेशरः, पुन्नामा, पाटलद्रुमः, रक्तपुष्पः, रक्तरेणुः, अरुणः
noun
वृक्षविशेषः।
"पुन्नागस्य प्रशाखाशीर्षेषु रक्तपुष्पगुच्छाः भवन्ति।"
Synonyms:
बकूलः, अगस्त्यः, वकवृक्षः, केसरः, केशरः, सिंहकेसरः, वरलब्धः, सीधुगन्धः, मुकूलः, मुकुलः, स्त्रीमुखमधुः, दोहलः, मधुपुष्पः, सुरभिः, भ्रमरानन्दः, स्थिरकुसुमः, शारदिकः, करकः, सीसंज्ञः, विशारदः, गूढपुष्यकः, धन्वी, मदनः, मद्यामोदः, चिरपुष्पः, करहाटकः, करहाटः, स्त्रीमुखमधुदोहदः, स्त्रीमुखमधुदोहलः, स्त्रीमुखपः, शीतगन्धा, धन्वः, सीधुगन्धः, करकः, केसरः, चिरपुष्पः, मुकुरः, दन्तधावनः
noun
वृक्षविशेषः, पुष्पष्पवृक्षविशेषः आयुर्वेदे अस्य गुणाः शीतलत्वहृद्यत्वविषदोषनाशित्वम्।
"बकूलस्य फलम् दन्तस्थैर्यकरम् अस्ति।"
Synonyms:
केशरः, केसरः, अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कान्तम्, कालेयम्, कावेरम्, काश्मीर, कुचन्दनम्, कुसुमात्मकम्, केसरवर, गोरवः, गौरम्, घस्रम्, घुसृणम्
noun
क्षुपविशेषः शीतप्रदेशे जातः क्षुपः यः सुगन्धार्थे ख्यातः।
"केशरात् प्राप्तः सुगन्धितः पदार्थः धार्मिककार्ये अपि उपयुज्यते।"
Synonyms:
केसरः, केशरः
noun
सिंहादीनां स्कन्धकेशः।
"केसरैः सिंहः शोभते।"
शब्दकल्पद्रुमः
Sanskrit
केशरः, पुं
क्ली,
(के जले पद्मशिरसि वा सर-तीति सृ + अच् पृषोदरात् शत्वम् यद्वाकेश इव केशाकारः अस्यास्तीति केश + रः ।)किञ्जल्कः इत्यमरः १० ४३
केशरः,
पुं,
(केश इव केशाकृतिपदार्थः अस्यास्तीतिमत्वर्थीयो रः ।) नागकेशरवृक्षः ।(यथा, -- गीतगोविन्दे ३१ “मदनमहीप-तिकनकदण्डरुचिकेशरकुसुमविकाशे”
वकुल-वृक्षः (यथा, कुमारे ५५ ।“स्रस्तां नितम्बादवलम्बमानापुनः पुनः केशरदामकाञ्चीम्”
)पुन्नागवृक्षः (यथा, महाभारते १२५ ।“पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ।कर्णिकारैरशोकैश्च केशरैरतिमुक्तकैः”
)सिंहजटा इति मेदिनी
(यथा, कादम्बर्य्याम्“मृगपतिरिव स्कन्धावलम्बितकेशरमालः”
)हिङ्गुवृक्षः इत्यमरटीकायां भरतः
नीपः ।केलिकदम्ब इति भाषा यथा, मेघदूते २२ ।“नीपं दृष्ट्वा हरितकपिशं केशरैरर्द्धरूढैः”
)