| YouTube Channel

केशना (kezanA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्लिश उपतापे”@} 2 ‘व्यक्तोक्तौ क्लेशते क्लेशेः, क्लिश्नाति तु विबाधने।
दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यते पदम्।।’ 3 इति देवः।
4 क्लेशकः-शिका, क्लेशकः-शिका, 5 चिक्लिशिषकः-चिक्लेशिषकः-षिका, चेक्लिशकः-शिका
क्लेशिता-त्री, क्लेशयिता-त्री, चिक्लिशिषिता-चिक्लेशिषिता-त्री, चेक्लिशिता-त्री
-- क्लेशयन्-न्ती, क्लेशयिष्यन्-न्ती-ती
-- -- 6 क्लिश्यमानः, क्लेशयमानः, चिक्लिशिषमाणः-चिक्लेशिषमाणः, चेक्लिश्यमानः
क्लेशिष्यमाणः, क्लेशयिष्यमाणः, चिक्लिशिषिष्यमाणः-चिक्लेशिषिष्यमाणः, चेक्लिशिष्यमाणः
7 क्लिट्-क्लिशौ-क्लिशः
-- -- -- 8 क्लिशितः- 9 तम्-तवान्, क्लिष्टम्-ष्टः-ष्टवान्, क्लेशितः-तम्, चिक्लिशिषितः-चिक्लेशिषितः, चेक्लिशितः-तवान्
क्लिशः, 10 क्लेशनः, 11 क्लेशकः, क्लेशः, चिक्लिशिषुः-चिक्लेशिषुः, चेक्लिशः
क्लेशितव्यम्, क्लेशयितव्यम्, चिक्लिशिषितव्यम्-चिक्लेशिषितव्यम्, चेक्लिशितव्यम्
क्लेशनीयम्, क्लेशनीयम्, चिक्लिशिषणीयम्-चिक्लेशिषणीयम्, चेक्लिशनीयम्
12 क्लेश्यम्, क्लेश्यम्, चिक्लिशिष्यम्-चिक्लेशिष्यम्, चेक्लिश्यम्
ईषत्क्लेशः-दुष्क्लेशः-सुक्लेशः
-- -- -- क्लिश्यमानः, क्लेश्यमानः, चिक्लिशिष्यमाणः-चिक्लेशिष्यमाणः, चेक्लिश्यमानः
13 क्लेशः, क्लेशः, चिक्लिशिषः-चिक्लेशिषः, चेक्लिशः
क्लेशितुम्, क्लेशयितुम्, चिक्लिशिषितुम्-चिक्लेशिषितुम्, चेक्लिशितुम्।
14 क्लिष्टिः, केशना, चिक्लिशिषा-चिक्लेशिषा, चेक्लिशा
15 क्लिशित्वा 16 -क्लिष्ट्वा, क्लेशयित्वा, चिक्लिशिषित्वा-चिक्लेशिषित्वा, चेक्लिशित्वा
विक्लिश्य, विक्लेश्य, विचिक्लिशिष्य-विचिक्लेशिष्य, विचेक्लिश्य
क्लेशम् २, क्लिशित्वा२-क्लिष्ट्वा २, क्लेशम् २, क्लेशयित्वा २, चिक्लिशिषम् २- चिक्लेशिषम् २, चिक्लिशिषित्वा २- चिक्लेशिषित्वा २, चेक्लिशम्
चेक्लिशित्वा २। 17 कीनाशः,
प्रासङ्गिक्यः
01
=>
(२८७)
02
=>
(४-दिवादिः-११६१। अक। सेट्। आत्म।)
03
=>
(श्लो। १६३-४)
04
=>
[पृष्ठम्०२९८+ २०]
05
=>
[[१। ‘रलो व्युपधाद्धलादेस्संश्च’ (१-२-२६) इति सनः कित्त्वविकल्पाद्रूपद्वयम्।]]
06
=>
[[२। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावादङ्गस्य गुणो न।]]
07
=>
[[३। ‘व्रश्च भ्रस्ज--’ (८-२-३६) इत्यादिना षत्वे, चश्त्वे चर्त्वम्।]]
08
=>
[[४। ‘क्लिशः क्त्वानिष्ठयोः’ (७-२-५०) इति इड्विकल्पः।]]
09
=>
[[आ। ‘मायाभिस्सुचिरं क्लिष्टवा राक्षसोऽक्लिशितक्रियम्।’ भ। का। ९। ३८।]]
10
=>
[[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युचू ताच्छीलिकः।]]
11
=>
[[६। ‘निन्दहिंसक्लिशखाद--’ (३-२-१४६) इत्यादिना वुञ् ताच्छीलिकः।]]
12
=>
[[B। ‘अक्लेश्यमसिनाऽग्न्यन्तं कबन्धवधमभ्यधुः।’ भ। का। ७-७८।]]
13
=>
[[C। ‘देवौघस्य तपन् भुवं पतिता वावृत्तभूमाऽप्यसौ वृत्तक्लेशलबैरकाश्यत समं संवाश्यमानैस्स्वकैः।।’ धा। का। २-६०।]]
14
=>
[पृष्ठम्०२९९+ २२]
15
=>
[[आ। ‘अमृडित्वा सहस्राक्षं क्लिशित्वा कौशलैर्निजैः।’ भ। का। ७। ९६।]]
16
=>
[[१। ‘क्लिशः क्त्वानिष्ठयोः’ (७-२-५०) इति वेट्। इट्पक्षे ‘मृडमृद--’ (१-२-७) इत्यादिना नित्यकित्त्वम्।]]
17
=>
[[२। ‘क्लिशेरीच्चोपधायाः कन् लोपश्च लोनाम्’ (द। उ। ९। १।) इति कन्प्रत्यये कीनाशः = कदर्यो जनः।]]