केवलान्वयिन् (kevalAnvayin)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Sanskrit Tibetan
Tibetanrjes su 'gro ba 'ba' zhig pa
केवलान्वयिन्
वाचस्पत्यम्
Sanskritकेवलान्वयिन् केवलमन्वयोस्त्यस्य इति १ कुत्रापि अभा-वरहिते वृत्तिमतोऽत्यन्ताभावाप्रतियोगिनि यथा प्रमे-यत्वादि तस्य न कुत्राप्यभावोऽस्ति । तथाच “साध्य-वदन्यावृत्तित्वं वा केवलान्वयिन्यभावात्” अनुमा० चि०“तथैबानुप संहारी केबलान्वयिपक्षकः” भाषा० “केब-लान्वयिधर्म्मावच्छिन्नकपक्षक इत्यर्थः । सर्व्वमभिधेयंप्रमेयत्वादित्यादौ सर्व्वस्यैव पक्षत्वात् सामानाधिकरण्य-ग्रहस्थलान्तराभावान्नानुमितिः” “केबलान्वयिसाध्यकत्वंतत्त्वमिति तु युक्तमिति” मुक्ता० । केवलोऽन्वयव्याप्तिर-स्त्यस्य इनि । २ अनुमानभेदे । तद्विवृतिः अनु० चि० यथा“तच्चानुमानं त्रिविध केवलान्बयिकेवलव्यतिरेक्यन्वयव्य-तिरेकिभेदात् । तत्रासद्विपक्षं केवलान्वयि तथाहि केव-लान्वयिनोऽभिधेयत्वस्य न विपक्षः अभिघानेऽनभिधानेच विपक्षव्याघातात् । अथ यथा आकाशशब्दाच्छब्दा-श्रयत्वमनभिधेयमप्युपतिष्ठते तथाभिधेयमप्युपतिष्ठते तथाभिधेयत्वविपक्षस्यानभिधेयत्वेऽपि पदादुपस्थितिः स्यात्एवञ्चाभिधेयत्वं कुतोऽपि व्यावृत्तं धर्म्मत्वात् गोत्वव-दिति चेन्न व्यावृत्तत्वस्याव्यावृत्तत्वे व्यावृत्तत्वमेव केवलान्व-यि, व्यावृत्तत्वे यत एव व्यावृत्तं व्यावृत्तत्वं तदेव केवलान्व-यीति धर्म्मत्वस्यानैकान्तिकत्वात् । एवमत्यन्ताभावप्रतियो-गित्वत्वात्यन्ताभावाप्रतियोगित्वे अत्यन्ताभावप्रतियोगित्व-मेव केवलान्वयि, अत्यन्ताभावप्रतियोगित्वे यन्निष्ठात्यन्ता-भावप्रतियोग्यत्यन्ताभावप्रतियोगित्वं तदेव केवलान्वयि ।नचायन्ताभावप्रतियोगित्वं व्यावृत्तत्वञ्च नानेति वाच्यम्अपुगतप्रतीतिबलेन गोत्ववत्तयोः सिद्धेः । तत्र न तावद-व्यायवृत्त्यत्य नाभावः केवलान्वयी तस्य प्रतियोग्यवच्छिन्नेऽप्यत्यन्ताभावात् अत्यन्ताभावाप्रतियोगिनश्च केवलान्वयि-त्वात् नाप्याश्रयनाशजन्यगुणनाशात्यन्ताभावः, तस्य नाश-स्य सर्वत्रात्यन्ताभावादिति वाच्यं यत्र हि प्रतियोगि-प्रागभावो वर्त्तते तत्र नाशप्रतियोगिसमानदेशे वर्त्ततेतत्र न तदत्यन्ताभावो वर्त्तते तथाच नाशस्य प्रागभावोयत्र नाशप्रतियोगिसमानदेशे वर्त्तते तत्र कथं नाशात्य-न्ताभावो वर्त्ततां तर्हि नाशस्य तत्र वृत्तिः स्यादिति चेन्नपूर्वं तत्र नाशप्रागभावस्यैव सत्त्वादुत्तरकाले आश्रस्यैवा-भावात् । नाप्याकाशात्यन्ताभावः केवलान्वयी तस्यापि प्र-तियोगिरूपात्यन्ताभावप्रतियोगित्वात् अभावात्यन्ताभावस्यभावत्वात् । अथाभावात्य न्ताभावो न प्रतियोगिरूपस्तथा-सत्यन्योऽन्याभावात्यन्ताभावः प्रतियोगिरूप इति प्रतियो-गिसमानदेशेऽन्योऽन्याभावो न स्यादिति चेन्न अत्यन्ता-भावस्तु प्रतियोगिवृत्तिरसाधारणो धर्मैति । उच्यतेवृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् आका-शात्यन्ताभावो यद्यपि प्रतियोगिरूपात्यन्ताभावप्रतियोगोतथापि स न वृत्तिभानित्याकाशात्यन्ताभावएव केवलान्वयी तथा प्रमेयत्वाभिधेयत्वादि केवलान्वयि वृत्तिम-तोऽत्यन्ताभावस्याप्रतियोगित्वात् । ननु प्रमेयत्वं प्रमावि-षयत्वं तच्च न केवलान्वयि प्रमायाविषयत्वस्य चाननुग-मादिति वाच्यं प्रमात्वमेव हि परम्परासम्बन्धात् व-टादौ प्रमेयत्वमनुगतं प्रमाजातीयविषयत्वं वा । तथापिकेवलान्वयिनि संशयाभावात् क्वथमनुमितिः प्रमेयत्वमत्रवर्त्तते न वेति संशयश्च न प्रमेयपक्षकः किन्तु प्रमेयत्वप-क्षको भिन्नविषयकः प्रमेयत्वपक्षके चास्तित्वसाध्यस्यान्व-यव्यतिरेकित्वं तथाच घटः प्रमेयो न वेति संशयो मृ-ग्यते स च नास्त्येव । अथ पक्षः साध्यवान्न वा पक्षेसाध्यमस्ति न वेति संशयौ समानविषयकावेव तदस्यास्त्य-स्मिन्निति मतुपोविधानादिति चेन्न विशेषणविशेष्यभा-वभदेनार्थभेदात्, मैवं य एव हि संशयः पक्षे साध्यसि-द्धिविरोधी स एवानुमानाङ्गमावश्यकत्वात् लाघवाच्चन तु समानविषयकत्वमपि तत्र तन्त्रं गौरवात् प्रमेयत्वंघटनिष्ठात्यन्ताभावप्रतियोगि न वेति संशयश्च घटः प्रमेयइति साध्यसिद्धिविरोधी भवत्येव यद्वा संशययोग्यतै-वानुमानाङ्गं संशयस्य तदानीं विनाशात् न च सापिसाधकवाधकप्रमाणाभावः प्रमेयत्वाभावासिद्धौ तत्प्रमा-णासिद्धे स्तदभावासिद्धिरिति बाच्यं पक्षनिष्ठात्थन्ताभा-वाप्रतियोगित्वज्ञानस्यैव साव्यसाधकत्वेन तदभावस्येवयोग्यतात्वात् । प्रमेयत्वमत्यन्ताभावप्रतियोगीति भ्राम्यतःसशयः इत्यन्ये । नत्वेकरूपविकलमिदं कथं गमकंतत्त्व वा व्यतिरेकविकलवत् रूपान्तरविकलमपि गमकंस्यादिति चेन्न अन्वयव्यतिरेकव्याप्त्योरन्यतरनिश्चयेनानु-मित्यनुभवात् युगपदुभयव्याप्त्युपस्थितौ विनिगमक भा-वेन उभयोरपि प्रयोजकत्वे व्यतिरेकोपासना व्यतिरेकश्चविपक्षवृत्तित्वशङ्कानिवृत्तिद्वारा व्यतिरेकव्याप्तावुपयुज्यतेअत्र तु विपक्षाभावेन शङ्कैव नोदेति ।केवलव्यतिरेकी त्वसत्सपक्षो यत्र व्यतिरेकसहचारेण व्या-प्तिग्रहः । ननु व्यतिरेकि नानुमानं व्याप्तिपक्षधर्मताज्ञा-नानस्य तत्कारणत्वात् यत्र व्यतिरेकसहचारः तत्र व्या-प्त्विरन्वयस्य पक्षधर्मता न च व्याप्तपक्षधर्मत्वं साध्याभावव्यापकाभावप्रतियोगित्वमुभयमप्यनुमितिप्रयोजकमितिवाच्यं अननुगमात् नचान्यतरत्वं तथा एकप्रमाण-परिशेषापत्तेः न च तृणारणिमणिन्यायेनानुमितिविशेषेतद्धेतुत्वमिति वाच्य व्यतिरेकिसाध्येऽनुमितित्वासिद्धेःउभयसिद्धकॢप्ततत्कारणस्याभावात् । न च साध्याभावव्याप-काभावप्रतियोगित्वमेवानुमितिप्रयोजकमिति वाच्यं गौरवात् केवलान्वयिन्यभावाच्च । अथ साध्याभावव्यापका-भावप्रतियोगित्वेन साध्यव्याप्यत्वमनुमेयम् एवं व्यतिरेक-व्याप्त्यन्वयव्याप्तिमनुमाय यत्रानुमितिः सएव व्यतीरेकी-त्युच्यते तन्न अन्वयव्याप्तेर्गमकत्वे व्यतिरेकव्याप्त्युपन्या-सस्यार्थान्तरतापत्तेः अन्वयव्याप्त्यनुकूलतया च तदुपन्यासेअन्वयव्याप्तिमनुपन्यस्य तदुपन्यासस्याप्राप्तकालत्वमिति ।उच्यते निरुपाधिव्यतिरेकसहचारेणान्वयव्याप्तिरेव गृ-ह्यते प्रतियोग्यनुयोगिभावस्य नियामकत्वात् अन्वयव्यति-रेकवत् । नन्वेवं व्याप्तिग्रहएव पृथिवीतरभिन्नमपि भा-सितं नियतसामानाधिकारण्यरूपत्वाद्व्याप्तेरिति सत्यंगन्धवत्त्वावच्छेदेनेतरभेदस्य साध्यत्वात् । अतएवाचार्य्यःपक्षतावच्छेदकस्य न हेतुत्वमनुमेने । पृथिवीत्वमितरभेद-व्याप्यमिति प्रतीतावपि सर्वपृथिवीतरभिन्नोऽपि पृथिवी-विशेष्यकबुद्धेर्व्यतिरेकिसाध्यत्वाच्च” ।अत्र दिग्भात्रं दीधितिरुपन्यस्यते ।“केवलान्वयीत्यादि केवलान्वयिसाध्यकादीत्यर्थः । तत्र-तेषु मध्ये, असिद्विपक्षम् अत्यन्ताभावाप्रतियोगिसाध्यकंकेवलान्वयि, एवमगृहीतान्वयव्यतिरेकिसाध्यकं केवलव्य-तिरेकि, गृहीतान्वयव्यतिरेकिसाध्यकान्वयव्यतिरेकि, व्याप्ति-ग्राहकसहचारभेदाद्भेदे त्वन्वयसंहचारमात्नगृहीतव्या-प्तिकत्वं केवलान्वयित्वं तच्च प्रकृतव्याप्तिग्राहकज्ञानविष-यसहचारत्वव्यापकान्वयसहचारत्वकत्वं तादृशसहचारत्व-व्यापकप्रकृतव्याप्तिघटकसहचारत्वकत्व वा गृहीतव्या-प्तिभेदाद्भेदे तु प्रकृतहेतुकप्रकृतसाध्यानुमितिहेतुज्ञान-विषयव्याप्तित्वव्यापकप्रकृतसाध्यव्य प्तित्वकत्वं तत्त्वम् । जलंनिर्गन्धं पृथिवीत्वव्यापकाभावप्रतियोगिमत्त्वादित्यादौहेतुतावच्छेदिका च व्याप्तिर्न्न प्रकृतसाध्यानुमित्यौपयिकीतद्विशिष्टपक्षधर्म्मताज्ञानेऽपि व्याप्त्यन्तरबोधं विना निर्ग-न्धत्वानुमित्यनुदयादिति बाव्याप्तिः । वह्न्यभाववान् वह्नि-व्यापकाभावप्रतियोगिमत्त्वादित्यादावन्वयव्याप्तेरवच्छेदिकाव्यतिरेकव्याप्तिर्न तु सैवेति नाप्रसङ्गः । अतएवेतरव्यापकामावप्रतियोगित्वेनाभावप्रतियोगित्वेन वा यल्लिङ्गज्ञानं न-प्रकृतसाध्यानुमितिहेतुस्तत्केवलान्वयीत्यपि वदन्ति । एवंकेवलव्यतिरेकित्वादिकमपि निर्वाच्यम्” ।वेदान्तिभिस्तु अनुमानत्रैविध्यं नाङ्गीक्रियते यथोक्तं वेदा० प०“तच्चानुमानमन्वयिरूपमेकमेव न तु केवलान्वयि, सर्व-स्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेना-त्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेःनाप्यनुमानस्य व्यतिरेकिरूपत्वं साध्याभावे साधनाभा-वनिरूपितव्याप्तिज्ञानस्य साधनेन साध्यामुमितावनुपयो-गात् । कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यति-रेकव्याप्तिज्ञानादनुमितिः अर्थापत्तिप्रमाणादिति वक्ष्यामःअतएवानुमानस्य नान्वयव्यतिरेकिरूपत्वं व्यतिरेकव्याप्ति-ज्ञानस्यानुमित्यहेतुत्वात्” ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
