| YouTube Channel

केतुवृक्ष (ketuvRkSa)

 
वाचस्पत्यम्
Sanskrit
केतुवृक्ष
पु०
केतुभूतोवृक्षः मेरोश्चतुर्द्दिक्षु वर्त्तमानविष्क्र-म्भपर्वतमन्दरादीनां चिह्नरूपे वृक्षभेद “विष्कम्भशैलाःकिल मन्दरोऽस्य (मेरोः) सुगन्धशैलः (गन्धमादनः)विपुलः सुपार्श्वः तेषु क्रमात् सन्ति केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः” सि० शि० “विष्कम्भारचितामेरोर्योजनायतमुच्छ्रिताः पूर्वण मन्दरोनाम दक्षिणेगन्धमादनः विपुलः पश्विमे भागे सुपार्श्वश्चोत्तरे स्मृतः ।कदम्बस्तेषु जम्बश्च पिप्पलोवट एव एकपदशशता-यामाः पादपाः गिरिकेतवः” विष्णुपु०