| YouTube Channel

केतुमालं (ketumAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
केतुमालं,
क्ली,
जम्बुद्वीपस्य नवखण्डान्तगतखण्ड-विशेषः इति त्रिकाण्डशेषः
(क्वचित् पुंलिङ्गो-ऽपि दृश्यते यथा, महाभारते ३२ ।“मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ! ।जम्बुखण्डे तत्रैंव महाजनपदो नृप”
आग्नीध्रराजपुत्त्रः स्वायम्भुवमनोः प्रपौत्त्रश्च ।यथा, भागवते २० ।“तस्यामुह वा आत्मजान् राजवर आग्नीध्रोनाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरु-भद्राश्वकेतुमालसंज्ञान् नवपुत्त्रानजनयत्”
स्त्री,
नदी यथा, महाभारते ८९ १४ ।“ततः पुण्यतमा राजन् ! सततं तापसैर्युता ।केतुमाला मेध्या गङ्गाद्वारञ्च भूमिप !”
)