| YouTube Channel

केतुपताका (ketupatAkA)

 
वाचस्पत्यम्
Sanskrit
केतुपताका केतोः पताकेव जन्मनक्षत्रभेदेन जन्मावध्ये-कैकेवर्षेशग्रहविशेषज्ञापके चक्रभेदे सा पञ्चस्वरायांदर्शिता यथा“अर्केन्दू कुजसौम्यार्किगुरवः स्युर्यथाक्रमम् राहुः सर्पोभृगुश्चेति पताकप्रभवा ग्रहाः वामं केतुपताकायां कृ-त्तिकादिपरिभ्रमात् जन्मर्क्षं खेचरे यत्र जन्माद्यब्दास्ततःक्रमात् आदित्यसौरयोर्वेधो वेधश्चन्द्रसुरेज्ययोः कु-जराह्वोर्ज्ञभृग्वोश्च केतुः किञ्चिन्नविध्यति” फलमाह ।“रवेरब्दे मनुष्याणां भवेत् सर्वत्र निष्फलम् शिरःशूलंज्वरोगेहदाहो विघ्नः पदेपदे” र० “चन्द्रस्याव्दे लभे-द्रौप्यं सुवर्णाभरणानि च० कृषिः फलवती सिद्धिः सर्व-त्रान्यैश्च पूज्यते” च० “संवत्सरे महीजस्य काला-दिव बिभेति गृहदाहोऽर्थहानिश्च चौरतो रा-जतोऽपि वा” म० “बुधस्याव्दे सुशय्यः स्यान्नानादेवा-धिपो भवेत् बु० स्वर्णरौप्यधनं दानं पुण्यकर्मणि मान-सम्” बु० मन्दस्याव्दे भवेदाहो बन्धनादि प्रपीडनम् ।धनहानिः प्रहारश्च कलिः स्वजनबन्धुभिः” “ना-कनाथगुरोरव्दे बहुलोत्पत्तिसम्पदः कृष्णलोहितछत्नेणस्तुतो भवति भूतले” वृ० राहुकेत्वोः सदा बन्धोनौका विप्लवते जले व्रर्ण हस्ते पदे देहे स्थानं कर्त्तुंक्षेमोन च” रा० के० “दानवेन्द्रगुरोरव्दे महद्भिर्विभ-वैर्वृतः गजाश्ववाहनैर्युक्त उत्साहश्च दिने दिने” शु० ।अन्येतु पठन्ति “रविर्भ्रामयते देशं नरं दूःखसम-न्वितम्ः सन्तापरोगं शोकञ्च करोति कृशतां तनोः”र० “बहुवित्तसुखं नित्यं बन्धुमित्रसमागमम् समस्तास्पदसंपूर्णं चन्द्रः कुर्य्यात् दिनेदिने” च० “मङ्गलोहन्ति सद्-भावं क्रूरकर्म्मणि योजयेत् व्रणं रोगञ्च दुःखञ्च सन्ता-पञ्च मुहुर्मुहुः” म० “अर्थलाभं जयं सौख्यं राजपूजाञ्चसम्पदम् ददाति विपुलां लक्ष्मीं बुधो विद्यां वरश्रियम्” बु० “रोगञ्चार्थविनाशञ्च कलहं भुजगाद्भयम् ।स्थानत्यागं शनिः कुर्य्या ज्जीवनं प्रति संशयम्” श० “सुव-र्णमणिमाणिक्यरत्नादिविपुलंधनम् कन्यारत्नसमायोगंगुरुः कुर्य्याद् दिने दिने” वृ० “राहुःशोणितसंस्रावंरोगशोकादिसंकुलम् विदेशगमनं कुर्य्यात् वह्निवारिभ-यान्वितम्” रा० “विग्रहं बन्धुभिः सार्द्धं रोगशोकादि-सङ्कलम् व्याधिपीडां करोत्युच्चैः केतुर्वित्तविना-शनः” के० “गजाश्ववाहनैर्युक्तं महद्भिर्विभवैर्वृतम् ।वराङ्गनासमायुक्तं भृगुः कुर्य्याद्दिने दिने” शु० “खयुग्मं” २०शून्यवाणौ ५० वसुयुग्मञ्च २८ षट्शरौ ५६ रामाग्नी३३ रामषट्के ६३ विंशञ्च सप्ततिस्तथा विंशमेतेऽन्तर्दिवसाः केतावर्कादिषु क्रमात् शुभानांशोभना ज्ञेया अशुभानामशोभना शुभानामशु-भानाञ्च यत् फलं वत्सरे कृतम् तत्फलं निर्द्दिशेत्सर्वं तेषामन्तर्दिनेष्वपि वर्षे वर्षे रवेः स्वीयं प्रथमंदिनविंशकम् ततश्चन्द्रस्य पञ्चाशदेवं शुक्रान्तमादिशेत् ।विधोर्वर्षे विधोः स्वीयं प्रथमं वत्सरे दिनम् ततोभौमस्य वस्वक्षि एवं रव्यन्तमादिशेत् कुजस्याव्देकुजस्यान्तरष्टाविंशं निजं दिनम् ततो बुधस्य षट्-पञ्चाशदेवं चन्द्रान्तमादिशेत् बुधादीनाञ्च सर्वेषामेवमेवक्रमेण तु कुर्य्यादन्तर्दशाभागं प्रोक्तया दिनसंख्यया” ।ज्यो० त० तल्लेखनप्रकारो दर्शितो यथा“रविश्चन्द्रः कुजः सौम्यः शनिजींवस्तमोभृगुः इन्द्रे-शाद्यष्टरेखासु मध्ये केतुरिमेऽव्दपाः कृत्तिकादि त्रिरावृत्तिर्यथा कैती मघा भवेत्” यथा र० च० म० बु० ।७ श० वृ० रा० १० केतुः ११ शु० १२ र० १३ च० १४ म०१५ वु० १६ श० १७ वृ० १८ रा० १९ केतुः २० शु० २१ र०२२ च० २३ म० २४ बु० २५ श० २६ वृ० २७ रा० केतुः शु० ।एवं जन्मनक्षत्रानुसारेण प्रथमादिवर्षेशा रव्यादयः शुक्रान्तांदशमादिषु पुनः रव्यादयः शुक्रान्ताः एवं चन्द्रस्य प्रथ-माव्दाधीशत्वे रव्यन्ताः एवं क्रमेण सर्व्वत्र योज्यम्“पताका कुण्डली केतोः कुण्डली वृहस्पतेः ।सर्व्वत्र पापसंपोगे संशयो जायते महान्” पञ्चस्वरा