| YouTube Channel

केतुकुण्डली (ketukuNDalI)

 
वाचस्पत्यम्
Sanskrit
केतुकुण्डली स्त्री पञ्चस्वरोक्ते जन्मनक्षत्रभेदवशेन जन्मावध्ये-कैकवर्षे एकैकग्रहविशेषस्वामित्वाज्ञापके चक्रभेदे सा चतत्रैव दर्शिता यथा“अर्को बुधः कुजोजीवः सोमः शुक्रस्तथैव राहुःशनैश्चरश्चैव ज्ञातव्या केतुकुण्डली अर्कसौम्यान्तरे केतुःकुजजीवान्तरेऽपि सोमशुक्रान्तरे केतूराहुसीरान्तरेतथा दद्यादुत्तरभाद्रादि अष्टाविंशतिऋक्षकम् ।त्रीणि त्रीणि रव्यादौ एकैकम् केतुषु स्मृतम् ।जन्मर्क्षात् प्रतिनक्षत्रं जन्माद्यव्दे प्रकीर्त्तिताः” अयम-र्थः यदि २६ २७ नक्षत्रेषु जन्म तदा सूर्य्यः प्रथमंवर्षेशः तदुत्तरंकेतुप्रभृतयः शन्थन्ताः भरण्यां जन्मनिकेतुः प्रथमं वर्षेशस्ततः बुधादयः सूर्य्यान्ताः ऋक्षेषुवुधः प्रथमवर्षेशः ततः कुजादयः केत्वन्ताः कुजःप्रथमं ततः केत्वादयः बुधान्ताः ऋक्षे केतुः ततोजी-वादयः कुजान्ताः १० ११ २२ ऋक्षेषु जीवः ततः सी-मादयः केत्वन्ताः १३ १४ १५ सोमः ततः केत्वादयःजीवान्ताः १६ ऋक्षे केतुः ततः शुक्रादयः सोमान्ताः ।२७ १८ १९ ऋक्षेषु शुक्रः ततः राहुप्रभृतयः केत्वन्ताः ।२० २१ २२ ऋक्षेषु राहुः ततः केत्वादयः शुक्रान्ताः२३ केतुः ततः शन्यादयःराह्वन्ताः २४ २५ २६ ऋक्षेषुशनिःततः सूर्यादयः केत्वन्ताः सर्व्वत्र आरोहक्रमानन्तर-मवरोहक्रमो ग्राह्यः एवं द्वादशसु वर्षेषु तेषुपुनः सूर्य्यादीनां वर्षाः ग्रहाणां फलविशेषस्तु केतु-पताकाचक्रोक्तदिशोन्नेयः अत्र बहुषु स्थानेषुकेतोरवस्थानेन केतुप्राधान्यात् केतुकुण्डलीत्वम्