| YouTube Channel

कृष्णाष्टमी (kRSNASTamI)

 
Monier Williams Cologne
English
कृष्णाष्टमी
f.
=
°ष्ण-जन्माष्ट्°,
BhavP.
MatsyaP.
the eighth day in the dark half of any month, Kulārṇ.
Apte Hindi
Hindi
कृष्णाष्टमी
स्त्री*
कृष्ण-अष्टमी -
भाद्रपक्ष कृष्णपक्ष का आठवाँ दिन
Shabdartha Kaustubha
Kannada
कृष्णाष्टमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶ್ರೀಕೃಷ್ಣನು ಅವತರಿಸಿದ ಶ್ರಾವಣ ಕೃಷ್ಣಾಷ್ಟಮಿ /ಶ್ರೀಕೃಷ್ಣನು ಹುಟ್ಟಿದ ದಿವಸ /ಸಿಂಹಮಾಸದ ಕೃಷ್ಣಪಕ್ಷದ ಅಷ್ಟಮಿ
कृष्णाष्टमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕೃಷ್ಣಪಕ್ಷದ ಅಷ್ಟಮಿ ತಿಥಿ
L R Vaidya
English
kfzRa-azwamI {% f. %} the eighth day of the dark half of Śrāvaṇa, which was the birthday of Kṛishṇa.
Aufrecht Catalogus Catalogorum
English
कृष्णाष्टमी dh. Oudh XIX, 100.
कृष्णाष्टमी dh. Oudh XX, 168.
वाचस्पत्यम्
Sanskrit
कृष्णाष्टमी स्त्री कृष्णा अष्टमी कृष्णपक्षाष्टम्याम्कृष्णस्य वासुदेवस्य जन्मदिनमष्टमी गौणभाद्रपदमासी-यकृष्णपक्षस्याष्टम्यां जन्माष्टम्याम् तस्याश्च “अथ भाद्रपदेमासि कृष्णाष्टम्यां कलौ युगे अष्टाविंशतिमे जातःकृष्णोऽसौ देवकीसुतः” ब्रह्मपु० तज्जन्मदिनत्वोक्तेस्तथात्वम्तत्र कर्त्तव्यव्रतकालनिर्ण्णयः कालमा० दर्शितो यथा“अथ जन्माष्टमी विचार्य्यते सा किं पक्षभेदेन नि-र्णेतव्या उत व्रतविशेषेणाहोस्विद्योगविशेषेणेतिः अत्रै-वेदमपरं चिन्त्यते किं जन्माष्टमीव्रतमेव जयन्तीव्रतमुत तयोर्मेद इति तथान्यदपि चिन्तनीयं किं तिथ्यन्तरवदत्राहर्वेध उत मध्यरात्रवेध इति प्रथमं व्रतस्वरूपेनिश्चिते पश्चादस्मित् व्रते कीदृशी तिथिरित्याकाङ्क्षोदेति ।तिथौ पूर्वविद्धत्वेन परविद्धत्वेन वा निश्चितायां पश्चात्कीदृशोवेध इत्याकाङ्क्षा तस्मादादौ व्रतं निश्चीयते तत्रजन्माष्टमीजयन्तीशब्दाभ्यां व्यवहियमाणं व्रतमेकमेवेति-तावत् प्राप्तम् कुतः? रूपभेदामावात् यथा यागस्थद्रव्यदेवत रूपं यथा वोपासनस्प गुणविशेषैर्युक्ता दंवतायथा तत्त्वविद्यायां वेद्यन्तत्त्वं रूपम् तथा व्रते नियमविशेषोरूपम् नियमश्चात्रोपवासो जागरणं कृष्णपूजाचन्द्रार्घदानमित्यादिलक्षणः सचोभयत्र मिद्यते ।अथोच्येत रूपाभेदेऽपि नित्यकाम्यत्वाभ्यां भेदो भविष्यतिनित्या जन्माष्टमा अकरणे प्रत्यवायस्मरणात् तथा चस्मर्यते “गृध्रमांसं खगं काकं श्येनं मुनिसत्तम! ।मांसं वा द्विपदां भुङ्क्ते भुक्त्वा जन्माष्टमी दिने जन्माष्टमी-दिने प्राप्ते येन भुक्तं द्विजोत्तम! त्रैलोक्यसम्भवं पा-पं तेन मुक्तं द्विजोत्तमेति” भविष्यत्पुराणे “श्रावणेबहुले पक्षे कृष्णजन्माष्टमीव्रतम् करोति नरो यस्तुभवति ब्रह्मराक्षसः कृष्णजन्माष्टमीं त्यक्त्वा योऽन्यद्वतमुपासते ।नाप्नोति सुकृतं किञ्चिदिष्टापूर्त्तमथापि वा वर्षेवर्षे तु या-नारी कृष्णजन्माष्टमीव्रतम् करोति महाप्राज्ञ! व्या-ली भवति कानने” इति स्कन्दपुराणेऽपि “ये कुर्वन्तिजानन्तः कृष्णजन्माष्टमीव्रतम् ते भवन्ति नराः प्राज्ञ!व्याला व्याघ्राश्च कानने! रटन्तीह पुराणानि भूयोभूयोमहामुने! अतीतानागतन्तेन कुलमेकोत्तरं शतम् ।पातितं नरके घोरे भुञ्जता कृष्णवासरे” इति जयन्तीच काम्या फलविशेषस्मरणात् विष्णुधर्मोत्तरे हि जयन्तींप्रकृत्य पट्यते “यद्बाल्ये यच्च कौमारे यौवने वार्धके तथा ।बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिरिति” बह्निपुराणेऽपि “सप्तजन्मकृतं पापं राजन्! यत्त्रिविधं नृणाम् ।तत् क्षपयति गोविन्दस्तिथौ तस्यां समर्चितः उपवासश्चतत्रोक्तो महापापप्रणाशनः जयन्त्यां जगतीपाल!विधिना नात्र संशयः” इति पद्मपुराणेऽपि “प्रेतयो-निगतानां तु प्रेतत्वं नाशितं नरैः यैः कृता श्रावणेमासि अष्टमी रोहिणीयुता किं पुनर्बुधवारेण सोमेनापिविशेषतः” इति स्कन्दपुराणेऽपि “महाजयार्थं कुरुतांजयन्ती मुक्तयेऽनघ! धर्ममर्थं कामञ्च मोक्षञ्च मुनिपु-ङ्गव! ददाति वाञ्छितानर्थानत्यर्थानतिदुर्लभानिति” ।भविष्योत्तरे जयन्तीकल्पे “प्रतिवर्षं विधानेन मद्भक्तोध-र्मनन्दन! नरो वा यदि वा नारी यथोक्तफलमाप्नु-यात् षुत्रं सौभाग्यमारोग्यं सन्तोषमतुलं लभेत् इह-धर्मरतिर्भूत्वा मृतोवैकुण्ठमाप्नुयादिति” एवं ज-न्माष्टम्या अकरणे प्रत्यवायाज्जयन्त्याः फलविशेषाच्चोभयोःक्रमेण नित्यत्वं काम्यत्वञ्चाभ्युपगन्तव्यमिति मैवं गुणफलाधिकत्वाभ्युपमेऽपि जयन्त्याः फलविशेषोपपत्तेःगोदोहनंदध्यादि तत्र दृष्टान्तः यथा “चमसेनापः प्रण-येद्गोदोहनेन पशुकामस्येति” नित्ययोर्दर्शपौर्णमास-योरपां प्रणयनं विधाय तदेवाश्रित्य पशुफलाय गोदोहनमात्रं विहितम् “दध्रेन्द्रियकामस्य” इत्यत्र पूर्व-प्रकृते नित्याग्निहोत्रे फलाय गुणो विधीयते अत्रादि-पदात् “खादिरं वीर्यकामस्य” इत्युदाहार्यम् एवं नित्यांजन्माष्टमीमाश्रित्य फलविशेषाय जयन्तीनामकोरीहि-णीयोगो विधीयताम् रोहिणीलक्षणस्यकालविशेषस्यानुपादेयत्वादविधेयत्वं शङ्कनीयम् काल-विशेषस्य स्वरूपेण पुरुषैरनुपादेयत्वेऽपि अनुष्ठानाङ्गत्वंशास्त्रेणावगत्यानुष्ठानाय तत्प्रतीक्षायाः कर्त्तुं शक्य-त्वात् अन्यथा “वसन्तेवसन्तेज्योतिषा यजेत” इत्यादिःसर्वोऽपि कालविधिर्लुप्येत रोहिणीयोगस्य जयन्ती-नामकत्वं जयन्तीलक्षणप्रदिपादकैः स्मृतिवाक्यैरध्यवसेयम् ।तानि वाक्यान्युदाहरामः “विष्णुधरे “रोहिणी यदाकृष्णपक्षेऽष्टम्यां द्विजोत्तम! जयन्ती नाम सा प्रोक्ता सर्व-पापहरा तिथिरिति” सनत्कुमारसंहिताम् “शृणुष्वा-बहितो राजन्! कथ्यमानं मयानघ! श्रावणस्य चमासस्य कृष्णाष्टम्यां नराधिप! रोहिणी यदि लभ्येत जयन्तीनाम सा तिथिरिति” स्कान्दे “प्राजपत्येन संयुक्ताअष्टमी तु यदा भवेत् श्रावणे बहुले सा तु सर्वपापप्रणाशिनी जयं पुण्यं कुरुते जयां पुण्यां तां विदुरिति” विष्णुरहस्ये “अष्टमी कृष्णपक्षस्य रोहिणीऋ-क्षसंयुता भवेत् प्रोष्ठपदे मासि जयन्ती नाम सा स्मृता”पौर्णमास्यन्तेषु मासेषु स्वीकृतेषु श्रावण्यां पूर्णिमायांश्रावणमासस्य समाप्तत्वात् उपरितनीं प्रतिपदमारभ्यभाद्रपदमास इत्यभिप्रेत्य प्रोष्ठपद इत्युक्तम् ।विष्णुधर्मोत्तरे “प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसिचाष्टमी सोपवासोहरेः कृत्वा तत्र पूजां सीद-तीति” वशिष्ठसंहितायाम् “श्रावणे वा नभस्ये वारोहिणीसहिताऽष्टमी यदा कृष्णा नरैर्लब्धा सा जय-न्तीति कीर्त्तिता “श्रावणे भवेद्योगो नभस्ये तु भवे-द्ध्रुवम् तयोरभावे योगस्य तस्मिन्वर्षे सम्भवः” इति ।अत्र श्रावण इति मुख्यः कल्पः नभस्यैत्यनुकल्पः ।यदि वा श्रावणे यदि वा नभस्ये, सर्वथाऽपि रोहिणीकृ-ष्णाष्टमीयोगो जयन्तीत्येतदविवादम् पुराणान्तरे “रो-हिणी यदा पक्षे कृष्णेऽष्टम्यां द्विजोत्तम! जयन्तीनाम सा प्रोक्ता सर्वपापहरा तिथिरिति” तदेवमेतैःस्मृतिवाक्यैर्जयन्त्याः कृष्णाष्टमीरोहिणीयोगस्वरूपेसति पूर्वोदाहृतफलकामिनस्तादृशो येगो गोदोहनदध्यादिवद्गुणत्वेन विधीयते काम्ये तु ज्योतिष्टोमेगुणविशेषो कोऽपि फलाय विहितः अतः काम्यज्योतिष्टोमवैषम्याद्गोदोहनदध्यादिसाम्याच्च पूर्वोदाहृतफलवाक्यानि प्रकृते नित्ये जन्माष्टमीव्रते गुणफलप्रति-पादकत्वेनोपपद्यन्ते तथा सति यथा दर्शपौर्ण्णमासाभ्यामन्यः कश्चित्पशुफलको गोदोहनसंज्ञको यागोनास्तिकिन्तु गुणएव केवलं गोदोहनम् तथा जन्मा-ष्टमीव्रतादन्यज्जयन्तीव्रतं किन्तु प्रकृतएव व्रतेऽयंफलाय गुणविधिरित्येवं प्राप्ते ब्रूमः व्रतद्वयमिदंभवितुमर्हति कुतः? नामभेदात् निमित्तभेदात् २रूपभेदात् शुद्धमिश्रितत्वभेदात् निर्द्देशभेदाच्च तथाहिपूर्वोदाहृतेष्वकरणे प्रत्यवायप्रतिपादकस्मृतिवाक्येषुजन्माष्टमीव्रतमित्येव नाम व्यवहृतम् तथापूर्वोदाहृतेषु जयन्तीव्रतमिति नाम व्यवहारः नाम-भेदाच्च कर्म्मभेदोज्योतिरधिकरणे व्यवस्थितः तस्यचाधिकरणस्य संग्राहकावेतौ श्लीकौ भवतः “अथैषज्योतिरित्यत्र गुणो वा कर्म्म वा पृथक् गुणः सहस्रदानात्मा ज्योतिष्टोमे ह्यनूदिते अथेति प्रकृते च्छिन्नएतच्छब्दोऽग्रगं वदेत् संख्ययेवान्यकर्म्मत्वमुत्पत्तिगतसं-ज्ञयेति” अयमर्थः “अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योति र्हेतेन सहस्रदक्षिणेन यजेतेति” श्रु-तम् तत्र संशयः किं प्रकृतएव ज्योतिष्तोमे सहस्रदक्षिणागुणविधिः उत यागान्तरविधिरिति एष ज्योति-रेतेनेत्येताभ्यां एतच्छब्दाभ्यां प्रकृतं ज्योतिष्टोममनू-द्य तत्र गुणविधिरिति पूर्व्वः पक्षः अर्थान्तरद्योतके-नाथशब्देन प्रकृतस्य ज्यतिष्टोमस्य विच्छेदः क्रियते ।एतच्छब्दश्च प्रत्यासन्नं ब्रूते प्रत्यासत्तिश्च द्विविधा अतीताआगामिनी चेति तत्रातीतायाः प्रत्यासत्तेर्विच्छेदेसति आगामिप्रत्यासत्तिपरत्वेनैतच्छब्दावुपपन्नो तथा-प्येककर्म्मत्वं मा भूत् कर्म्मभेदे तु किं प्रमाणमिति चेत् ।अपूर्वसंज्ञेति वदामः एष ज्योतिरित्यस्मिन्नुत्पत्तिवाक्येपूर्व्वप्रकृतकर्म्मविषयाया ज्योतिष्टोमसंज्ञाया अन्या ज्योति-रित्येषा संज्ञा श्रूयते तत्र यथा पूर्व्वाधिकरणे “सप्तदशप्राजापत्यान् पशूनालभेत” इत्यत्रोत्पत्तिवाक्यगतयासंख्यया कर्म्मभोदो निरूपितः तथात्राप्युत्पत्तिगतया नूतनसंज्ञया कर्म्मभेदोऽभ्युपगन्तव्य इति एवं सतिप्रकृतेऽप्यनेन न्यायेनोत्पत्तिवाक्यगताभ्यां जन्माष्टमीव्रतजयन्तीव्रतसंज्ञाभ्यां वृतभेदोऽम्युपगन्तव्यः
तथा निमित्तभेदादपि व्रतभेदः जन्माष्टमीव्रते तिथिरेवनिमित्तं जयन्तीव्रते तु रोहिणीयोगः ननु जन्माष्टमी-त्यस्मिन्नपि व्यवहारे योग एव विवक्षितव्य नक्षत्रयुक्तायामेव तिथौ देवकीनन्दनस्योत्पत्तेः, मैवम्तज्जन्मन्यष्टम्याएव प्रधानप्रयोजकत्वात् रोहिणीतद्योगयोर्विधीमानयोरपि बुधवारादिवदुपलक्षणत्वात् ।अतएव शास्त्रेषु जन्माष्टमीत्येव समाख्यायते अन्यथाजन्मरोहिणीति जन्मयोग इति वा समाख्यायेतक्वचित्सद्भावमात्रेण प्रयोजकत्वे बुधवारोऽपि प्रयोजकःस्यात् अस्त्विति चेत् अतिप्रसङ्गात् तज्जन्मकालेद्वापरावसानस्य संबत्सरविशेषस्य सद्भावेन तयोरपिप्रयोजकत्वं केन वार्य्येत तस्माज्जन्मन्यंष्टम्याएव प्रा-धान्यम् तत्प्राधान्ये श्रुतिलिङ्गादिषु षट्सु समा-ख्यारूपं षष्ठं प्रमाणमुपन्यस्तं वेदितव्यम् तथा प्रत्य-क्षादिषु सम्भवैतिह्यान्तेष्वष्टसु प्रमाणेष्वैतिह्यरूपमागमरूपं वा प्रमाणमुक्तं भवति ननु निरर्थकोऽयं पञ्चवाद-लक्षणः कोलाहलः यद्येकं व्रतं यदि नाम व्रतद्वयं त-थाप्यनुष्ठाने कोविशेषः स्यात् अस्त्येव महानतिशयः ।यस्मिन् संवत्सरे श्रावणबहुलाष्टमीं परित्यज्यान्यस्मिन्न-वम्यादौ रोहिणी भवति तस्मिन् संवत्सरे जयन्तीस्वरूप-मेव नास्ति अतो जयन्तीव्रतस्य तत्र लुप्तत्वात्तस्यैव जन्मा-ष्टमीव्रतत्वे तदपि प्राप्नुयात् भेदपक्षे त्वसत्यामपिजयन्त्यां जन्माष्टमीव्रतं तत्र प्रवर्त्तते इत्ययमनुष्ठानेऽति-शयः भवत्वेवन्तथापि नोपन्यस्तो निमित्तभेदो व्रत-भेदमावहति कर्म्मभेदहेतुषु शब्दान्तराभ्याससं-ज्ञागुणप्रक्रियानामधेयेषु षट्सु प्रमाणेषु निमित्तस्या-नन्तर्भावादिति चेत्, मैवम् तथाहि पूर्व्वोक्तसंज्ञाभेद सम्पादितं व्रतभेदं निमित्तभेद उपोद्वलयति ।तस्मादत्र निमित्तभेदाद्व्रतभेदः २“तथा रूपभेदादपि ब्रतभेदोऽवगन्तव्यः रूपभेदस्यकर्म्मभेदहेतुत्वमामिक्षाधिकरणे निरूपितम् तस्य चाधि-करणस्य संग्राहका वेतौ श्लोकौ भवतः “गुणः कर्म्मान्तरंवा स्याद्वाजिभ्यो वाजिनन्त्विति गुणोदेवाननूद्योक्तःसमुच्चयविकल्पने आमिक्षोत्पत्तिशिष्टत्वात् प्रबला, तत्र व-जिनम् गुणोऽप्रविश्य कर्म्मान्यत् कल्पयद्वाजिदेवकमिति” ।“तप्तेपयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वा-जिनमिति” श्रुतम् अम्लदधिसम्बन्धात् क्षीरनीरयोर्विभेदेसति योघनीभूतः क्षीरभागः साऽऽमिक्षा तस्याश्च विश्वेदेवा देवताः तत्र यत्पृथग्भूतं नीरं तद्वाजिनम् तस्यच वाजिनो देवताः तच्चामिक्षाद्रव्यकं विश्वदेव-देवताकमेकं कर्म्म, तथा सति किमुपरितनेन वाजिभ्योवाजिनमित्यनेन वाक्येन, पूर्वस्मिन्नेव कर्म्मणि वाजिनंगुणोविधीयते उत कर्म्मान्तरमिति संशयः तत्र वाजो-ऽन्नमामिक्षा सा येषां देवानामस्ति ते वाजिन इति व्युत्प-त्त्या प्रकृतान् देवाननूद्य वाजिनङ्गुणो विधीयते चामि-क्षया सह विकल्प्यते समुच्चीयते वेति पूर्वःपक्षः उत्प-त्तिशिष्टामिक्षागुणावरुद्ध्वस्य कर्म्मणो गुणान्तराकाङ्क्षा-ऽभावाद्वाजिनस्य तत्र प्रवेशासम्भवे सत्यन्यथानुपपन्नो-याजिनगुणो वाजिशब्दार्थस्य प्रकृतदेवताव्यतिरिक्तदेवताकत्वं कल्पयित्वा कर्म्मभेदे पर्यवस्यतीति सिद्धान्तः ।अत्र यथा द्रव्यदेवतालक्षणस्य यागरूपस्य भिन्नत्वात् कर्म्मभेदस्तथा प्रकृतेऽपि रूपभोदोऽभ्युपगम्यताम् उपवास-मात्रं जन्माष्टमीव्रतस्वरूपं तदुत्पत्तिवाक्ये तन्मात्रस्य प्र-तीयमानत्वात् ननु जयन्तीव्रतएवोपवासं कुर्य्यादित्यु-त्पत्तिवाक्यं स्मर्य्यते तु जन्माष्टमीव्रते, वाढम् तथाप्यत्र विधिरुन्नेतव्यः अन्नभोजने प्रत्यवायस्मरणा-नुपपत्तेः चोन्नीयमानो विधिरुपवासमात्रं विधत्तेन तु मण्डपनिर्माणजागरणप्रतिमादानादिकं, विधेरुन्नयने हेतुष्वकरणे प्रत्यबायबोधकवाक्येषु भोजननिषे-धमात्रस्मरणात् हि तत्र निद्रायां दानाभावे वाप्रत्यवायः स्मर्य्यते अत उपवासमात्रं तस्य स्वरूपं नतु दानादिकम् अतएवाकरणे प्रत्यवायवाक्यशेषे जय-न्तीप्रयुक्तदानादिशङ्काव्यावृत्तये केवलशब्दौपवासविशेष-णत्वेन पठ्यते “केवलेनोपवासेन तस्मिन्जन्मदिने मम ।शतजन्मकृतात् पापान्मुच्यते नात्र संशयः” इति तस्माज्ज-न्माष्टमीव्रतस्योपवासमात्रं स्वरूपं, यदि शिष्टास्तत्र जाग-रणदानादिकमनुतिष्ठन्त्यनुतिष्ठन्तु नामाविरुद्धैः पुण्य-विशेषैर्व्रतस्योपोद्वलनसम्भवात् शास्त्रेण तु प्रापि-तमुपवासमात्रम् जयन्तीव्रतस्य तु दानादिसहितउपवासः स्वरूपं तद्विधायकेषु शास्त्रेषु तथा विधानात् ।तथा वह्निपुराणे “तुष्ठ्यर्थं देवकीसूनोर्जयन्तीसम्भवंव्रतम् कर्त्तव्यं विधिनानेन भक्त्या भक्तजनैरपीति” ।भविष्योत्तरेऽपि “मासि भाद्रपदेऽष्टम्यां निशीथे कृष्णपक्षगे शशाङ्के वृषराशिस्थेऋक्षे रोहिणीसंज्ञके योगेऽस्मिन्वसुदेवाद्धि देवकी मामजीनत् तस्मान्मां पूजयेत्तत्र शुचिःसम्यगुपोषितः ब्राह्मणान् भोजयेद्भक्त्या ततोदद्याच्च दक्षिणाम् हिरण्यं मेदिनीं गाश्च वासांसि कुसुमा-नि यद्यदिष्टतमन्तत्तत् कृष्णो मे प्रीयतामिति” भविष्यद्विष्णुधर्मोत्तरयोः “जयन्त्यामुपवासश्च महापातकनाशनः ।सर्वैः कार्यो महाभक्त्या पूजनीयश्च केशवः” इति वह्निपुराणे “कृष्णाष्टम्यां भवेद्यत्र कलैका रोहिणी यदि जयन्तीनाम सा प्रोक्ताउपोष्या सा प्रयत्नतः” इति स्मृत्यन्त-रेऽपि “प्राजापत्यर्क्षसंयुक्ता श्रावणस्यासिताष्टमी वर्षेवर्षे तुकर्त्तव्या तुष्ठ्यर्थं चक्रपाणिनः” इति नारदीयसंहितायाम्जयन्तीं प्रकृत्य स्मर्यते “उपोष्य जन्मचिह्नानि कुर्याज्जाग-रणं पुनः अर्धरात्रयुताष्टम्यां सोऽश्वमेधफलं लभेदिति” ।एवमेतेषु विधिवाक्येषु दानादियुक्त उपवासोजयन्ती-ब्रतरूपत्वेन प्रतीयते अतोरूपभेदाद्व्रतभेदः ।तथा शुद्धमिश्रत्वभेदादपि द्रष्टव्यः अकरणे प्रत्य-वायमात्रश्रवणाच्छुद्धं नित्यं जन्माष्टमीव्रतम् करणेफलविशेषश्रवणदकरणे प्रत्यवायश्रवणाच्च नित्यत्वेन का-म्यत्वेन मिश्ररूपं जयन्तीव्रतम् तत्र फलवाक्यानि पूर्व्वपक्षएव प्रसङ्गादुदाहृतानि अकरणेप्रत्यवायश्च जयन्तीं प्रकृत्य कस्मिंश्चित्पुराणे स्मर्य्यते“अकुर्वन् याति नरकं यावदिन्द्राश्चतुर्दशेति” स्कन्दपुरा-णेऽपि “शूदान्नेन तु यत्पापं शवहस्तस्य भोजने तत्पापंलभते कुन्ति! जयन्तीविमुखो नरः” “ब्रह्मघ्नस्य सुरापस्यगोबधे स्त्रीबधेऽपि वा लोकोयदुशार्दूल! जयन्तीवि-मुखस्य क्रियाहीनस्य मूर्खस्य परान्नं भुञ्जतीऽपि वा ।न कृतघ्नस्य लोकोऽस्ति जयन्तीविमुस्वस्य करोतियदा विष्णोर्जयन्तीसम्भवं व्रतम् यमस्य वशमापन्नःसहते नारकीं व्यथाम् जयन्तीवासरे प्राप्ते करोत्युदर-पूरणम् संपीड्यतेऽतिमात्रं तु यमदूतैः सुदारुणैः ।काकोला आयसैस्तुण्डैः कुषन्त्यस्य कलेवरम् यो-भुञ्जीत विमूढात्मा जयन्तीवासरे नृपेति” तैरेतैरकरणेप्रत्यवायवाक्यैर्निष्यत्वं जयन्त्याः नन्वेवमुक्तैरकरणे प्र-त्यवायवाक्यैः केवलेनोपवासेनेति पापक्षयवाक्यात् जन्मा-ष्टमीव्रतमपि नित्यकाम्यं स्यात् मैवम् पापक्षयफलत्वमात्रेणकाम्यत्वे सन्ध्यावन्दनादेरपि काम्यत्वप्रसङ्गात् अतःसत्यपि पापक्षये फलान्तरास्मरणेन केवलनित्यत्वं जन्मा-ष्टमीव्रास्य युक्तम् ततः शुद्धमिश्रभेदाद्ब्रतयोर्भेदः ।तथा निर्देशभेदादपि व्रतभेदो द्रष्टव्यः निर्देश-भेदश्च भृगुवाक्ये दृश्यते “जन्माष्टमी जयन्ती शिव-रात्रिस्तथैव पूर्वविद्धैव कर्त्तव्या तिथिभान्तेच पारणमिति” यत्र जन्माष्टमी रोहिणी चेतिपाठः तत्रापि रोहिणीशब्देन तद्युक्ता तिथिर्विवक्षितान तु केवलरोहिणी, तस्मिन्वाक्ये निर्दिष्टयोः पूर्वोत्तर-योर्जन्माष्टमीशिवरात्र्योस्तिथित्वात् यद्योकमेव व्रतंस्यात्तर्हि र्निदेशभेदोनोपपद्यते ननु व्रतभेदेऽप्यस्त्रिदोषः यदां दिनद्वयेऽष्टमी वर्त्तते रोहिणी तूत्तरएव तदापूर्वदिने जन्माष्टम्युपवासः परेद्युर्जयन्त्युपवास इति नैर-न्तर्य्येणोपवासद्वयं प्रसज्यते प्रसज्यतां नाम प्रमाण-वत्त्वादिति चेत् परदिने भोजनोपवासलक्षणविरुद्ध-धर्म्मद्वयप्रसङ्गात् उपवासस्याङ्गं पारणमिति हि व-क्ष्यते तथा जन्माष्टम्युपवासाङ्गस्य पारणस्य जय-न्त्युपवासस्य चैकत्र प्राप्तिः सोऽयमेकोदोषः व्यतिरेका-नुपलम्भश्चापरो दोषः तथाहि यथा जयन्तीव्यति-रिक्ता जन्माष्टम्युपलभ्यते तथा जन्माष्टमीव्यतिरिक्तापिजयन्ती क्कापि वत्सरौपलभ्येत त्वेवमुपलभ्यते अतोव्रतमेदोऽपि दुष्टएव अत्रोच्यते तावत्पारणोपवाससा-ङ्कर्यलक्षणोदोषोऽस्ति आघ्राणोदकपानादिना पारणेसम्पादितेऽप्युपवाससम्भवात् अन्यथा द्वादशीपारणत्रयो-दशीव्रतयोः क्वचित्साङ्कर्य्यं केन वार्येत नाप्युपवासद्वयनैरन्तर्य्यम् रोहिणीसंयोगसम्भवे जन्माष्टम्या अपि तत्रैवकर्त्तव्यत्वात् सर्वत्र तियिनक्षत्रयोगस्य केवलतिथेरुत्कृ-ष्टत्रेन केबलायास्तिथेस्तत्रोपेक्षणीयत्वात् अतएव व्य-तिरेकानुपलम्भोऽप्यलङ्काराय नतु दोषाय जन्माष्टम्यारोहिणीनिरपेक्षत्वेन व्यतिरेक उपलभ्यतां नाम ।जयन्त्यास्तु योगरूपत्वेन रोहिण्यामिवाष्टम्याअपि सापेक्ष-त्वेन् कथं व्यतिरेकाशङ्कावकाशः तस्माद्व्रतद्वयपक्षे नकोऽप्यस्ति दोषः किं यदा रोहिणीयोगोऽस्तितदा जन्माष्टमीजयन्त्योः सहयोगस्यावश्यम्मावित्वेनजयन्तीव्रतएव जन्माष्टमीव्रतमन्तर्भवति तस्मादपि नोपवासद्वयप्रसङ्गः ५तदेवं व्रतभेदे दोषाभावात्तत्साधकानाञ्च नामभेदा-टीनां पञ्चानां सद्भावाद्व्रतभेदएवावश्यमभ्युप्येः ।व्रतैक्यभ्रमस्तु तयोरुक्तयुक्त्यनुसन्धानाभावादष्टम्पु-पवाससादृश्याच्च केषांचिदुदेति सादृश्यं गुणवि-कृतित्वादाश्रयाश्रयिभावाच्च सम्भाव्यते यथा दर्शयागस्यगुणविकृतिः साकप्रस्थापीयोयागः तत्र दर्शयागे याव-न्तोऽङ्गाङ्गिविषयाः प्रयोगाः, ते सर्वेऽपि साकंप्रस्था-पीये विद्यन्ते भेदस्तु स्वल्पएव भवति दर्शयागे सान्ना-य्यहविषोर्दधिपयसोः पृथगवदानम् साकप्रस्थापीये स-हैव तु प्रस्थापनम् एतावता भेदेन गुणविकृतिरित्यभिधीय-ते तथाग्निष्टोमस्य गुणविकृतिरुक्थः अग्निष्टेमे द्वादशस्तोत्राणि उक्थे द्वादशभ्योऽधिकानि त्रीणि, ततो गुणाधिक्याद्ग णविकृतित्रम् एवमत्रापि जन्माष्टम्यामपवासोऽनु-ष्ठेयः जयन्त्यां तु दानादिरधिकोगुणः अतः सा गुणविकृतिः आश्रयाश्रयिभावश्च ज्योतिष्टोमे तदङ्गावरुद्धोपासने दृष्टः तत्र ज्योतिष्टोम आश्रयः तस्याङ्गान्युक्थादीनि आश्नितानि तत्रोक्थं नाम वहृचा-ध्यायिना होत्रा शस्यमानं मरुत्वतीयनिष्कैवल्यादिनाम-कं शस्त्रम् तच्चोक्थमाश्रित्य वह्वृचब्राह्मणोपनिषत्सूपा-सनानि विहितानि तथाच श्रुतिः “उक्थमुक्थमिति वैप्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवीति अहमुक्थम-स्मीति विद्यादिति च” उद्गीथो नाम सामवेदिनोद्गात्रा-गीयमानः साम्नो भागविशेषः तञ्चोद्गीथ्रमाश्रि-त्य छान्दोग्योपनिषत्सूपासनानि विहितानि “ओमित्येतदक्षरमुद्गीथमुपासीतेति” एवं प्रकृतेऽपि जन्माष्टमीव्रते येयं श्रावणकृष्णाष्टमी तामाश्रित्य रोहिणीयोगनि-मित्तं द्रानादिकं जयन्तीव्रते विधीयते अतोगुणविकृतित्वेनाश्रयाश्रयिभावेन सादृश्यसम्भवादनयोर्व्रतैक्यभ्रमो मन्दबुद्धीनां जायतां नाम प्रमाणन्यायदर्शिभिस्तुसर्वथैव व्रतभेदोऽङ्गीकार्य इति सिद्धम् ।यदेतद्विचारत्रयं पूर्वमुपक्षिप्तं व्रतभेदे तिथिनिणंयेवेधेचेति तत्र व्रतभेदो निर्णीतः अथ तिथिर्निर्णेतव्या तन्नि-र्णयश्च वेधाधीनः अतोवेधः पूर्वमभिधीयते तिथ्यन्तरेष्वह्नएव प्रायेण कर्मकालत्वादुद्रयास्तमयवेलायां त्रिमुहूर्त्तवेधःसामान्येन निरूपितः पञ्चम्यां तु विशेषतः षण्मुहु-र्त्तवेधोदर्शितः जन्भाष्टस्या जयन्त्याश्च रात्रिप्रधानत्वाद्रा-त्रियोगोऽत्र प्रशस्तः एतच्च जाबालिवृद्धगौतमाभ्यांदर्शितम् “अहःसु तिथयः पुण्याः कर्मानुष्ठानतोदिवा ।नक्तादिव्रतयोगेषु रात्रियोगो विशिष्यत” इति यद्यप्यु-पवासस्य व्रतत्वादहनि रात्रौ मुख्यत्वं युक्तितः साम-र्थ्यसिद्धं तथाप्यर्धरात्रस्य मुख्यकालत्वमुक्तं वशिष्ठसंहि-तायाम् “अष्टमी रोहिणीयुक्ता निश्यर्द्धे दृश्यतेयदि ।मुख्यकाल इति ख्यातस्तत्र जातोहरिः स्वयमिति” ।एवं सत्यर्द्धरात्रव्याप्तिरेवात्र कर्मकालव्याप्तिरित्यभिधीयते ।एतदेवाभिप्रेत्य विष्णुरहस्ये पठ्यते “रोहिण्यामर्धरात्रे तु यदा कृष्णाष्टमी भवेत् तस्यामभ्यर्चनं शौरेर्हन्तिपापं त्रिजन्मजमिति” तस्मिन्नर्द्धरात्रे कियत्परिमाणमपेक्षितमित्यपेक्षायामादित्यपुराणे दर्शितम् “अर्द्धरात्रादध-श्चोर्ध्वं कलयापि यदा भवेत् जयन्ती नाम सा प्रोक्ता-सर्वपापप्रणाशिनीति” वराहसंहितायामपि “सिं-हेऽर्के रोहिणीयक्ता नभःकृष्णाष्टमी यदि रात्र्यर्द्धपूर्बा-परगा जयन्ती कलयापि चेति” पूर्बं चाप-रञ्च पूर्बापरे रात्र्यर्द्धे ते पूर्वापरे रात्र्यर्द्धपूर्वापरेतयोर्गच्छति वर्त्तत इति रात्र्यर्द्धपूर्वापरगा घटिका-या अशीत्यधिकशतमोभागः १८० कला तावता परिमाणेनपूर्वार्द्धावसाने उत्तरार्द्धादौ वर्त्तमाना ग्रहीतव्या ।खण्डतिथिरूपा कृष्णाष्टमी द्विविधा पूर्वेद्युः सप्तमीयुक्तापरेद्युर्नवमीयुक्ता चेति तत्र सप्तमीयुक्तायां रात्रि-पूर्वार्धावसाने कलासद्भावोविधीयते उत्तरार्द्धादौ स्वतःसिद्वत्वेनाविधेयत्वात्तद्विपर्ययेण नवमीयुक्तायामुत्तरा-र्द्धादौ कलासद्भावो विधीयते तदा पूर्वार्द्धावसाने स्वतःसिद्धत्वादनुवादः पूर्वार्द्धावसानकलायाः सप्तमीयुतविषयत्वं, विष्णुधर्मोत्तरे स्पष्टमभिहितम् “रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी सप्तम्यामर्धरा-त्राधः कलयापि यदा भवेत् तत्र जातो जगन्नाथःकौस्तुभी हरिरीश्वरः तमेवोपवसेत् कालं कुर्यात्तत्रैवन्तागरमिति” इयमष्टमी कृष्णपक्षादिमासविवक्षयाभाद्रपदे भवति सैवाष्टमी शुक्लपक्षादिमासविवक्षयाश्रावणे भवति अतएव योगीश्वरः “रोहिणीसहिताकृष्णा मासे श्रावणेऽष्टमी अर्द्धरात्रादधश्चोर्ध्वं क-लयापि यदा भवेत् जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनीति” कलाया अतिसूक्ष्मत्वेन दुर्लक्ष्यत्वात्स एव पक्षान्तरमाह “अर्द्धरात्रादधश्चोर्ध्वमेकार्धघ-टिकाचिता रोहिणी चाष्टमी ग्राह्या उपवासव्रता-दिष्विति” एका चार्द्धघटिका चैकार्धघटिके ताभ्यामा-चिता कलामपेक्ष्यार्धघटिका स्थूला तामपेक्ष्य घ-टिका स्थूला तत्रायमर्थः संपद्यते पूर्वभागावसानेएका घटिका उत्तरभागादौ चैका मिलित्वा तन्निशीथश-ब्दवाच्यं मुहूर्त्तं तावत्परिमाणं सर्वैरपि सुलक्ष्यत्वा-न्मुख्यः कल्पः तदसम्भवेऽर्धवटिकान्वेष्टव्या तस्याप्य-सम्भवे कलेति तत्र मुख्यं पक्षमभिप्रेत्य भविष्योत्तरे “नि-शीथे कृष्णपक्षगे” इत्युक्तं तच्च वचनं साकल्येन पूर्वमुदा-हृतम् अत्र जयन्त्यां चन्द्रार्ष्यदानस्यावश्यकर्त्तव्यत्वा-त्तस्य चन्द्रोदयकालीनत्वान्निशीथे योगः प्रशस्तः ।एतदेव विष्णुधर्मोत्तरेऽभिहितम् “श्र्द्धरात्रे तु योगोऽय-न्तारापत्युदये तथा निथतात्मा शुचिः स्नातः पूजांतत्र प्रवर्त्तयेदिति” सोऽयमर्धरात्रयोगो मुख्यः कल्पः ।यस्तु कृत्स्नाहोरात्रयोगः सोऽयं मुख्यतरः यश्च यदाकदाचिदीषद्योगः सोऽनुकल्पः वशिष्ठसंहि-ताषयां दर्शितः “अहोरात्रं तयोर्योगोह्यसंपूर्णोभवेद्यदिमुहूर्त्तमप्यहोरात्रे योगश्चेत्तामुपोषयेदिति” सोऽयजयन्तीव्रते योगनिर्ण्णयः एव जन्माष्टमीव्रते-ऽपि द्रष्टव्यः यस्मिन्वर्षे योगोनास्ति तस्मि-न्वर्षे जन्माष्टमीव्रतमेकमेव प्रवर्त्तते तत्रापि नेतरा-ष्टमीवद्दिवसवेधः किं त्वर्द्धरात्रवेधः तथा चपुराणान्तरे “दिवा वा यदि वा रात्रौ नास्तिचेद्रोहिणीकला रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसं-युताम्” अन्यत्रापि “अष्टमी शिवरात्रिश्च ह्यर्द्धरात्राद-धोयदि दृश्यते घठिकाया सा पूर्वविद्धा प्रकीर्त्तितेति” ।इति वेधीनिरूपितः अथ ग्राह्यतिथिर्निरूप्यते सा चसंवत्सरभेदेन द्विधा भवति रोहिणीरहिता रोहिणी-युक्ता चेति तत्र या रोहिणीरहिताष्टमी सापि-द्विविधा शुद्धा सप्तमीविद्धा चेति सूर्योदयमारभ्यप्रवर्त्तमानाष्टमी शुद्धा निशीथासर्वाक् सप्नम्या कियत्यापियुक्ता विद्धा शुद्धा पुनर्निशीथव्याप्त्यव्याप्निभ्यां द्विवि-धा तत्र निशीथव्यापिनी जन्माष्टमीव्रते मुख्या ।“विशेषेणेन्दुसंयुतामिति” वचनात् निशीथव्याप्निर-हितापि “रात्रियुक्तां प्रकुर्वीतेति” वचनेन ग्रहीतव्याभवति ननु पूर्वेद्युर्निशीथादूर्ध्वमारभ्य परेद्युर्नि-शीथादर्वाक् समाप्यते तस्या उभयत्र रात्रिसंबद्ध-त्वात् कुत्रोप्रवास इति चेत् परेद्युरिति व्रूमःउभयत्र निशीथठ्याप्त्यभावस्य रात्रिसम्बन्धस्य तुल्य-त्वेऽपि परेद्युः प्रातःसंकल्पकालमारभ्य वर्त्तमान-तपा प्राशस्त्यं द्रष्टव्यम् सप्तमीविद्धापि त्रिविधा ।पूर्वेद्युरेव निशीथव्यपिनी परेद्युरेव निशीथव्यापिनीउभयत्र निशीथव्यापिनी चेति तत्र प्रथमद्वितीययोःपक्षयोः निशीथव्याप्तेः प्रयोजकत्वेन या निशीथव्या-पिनी सा “विशेषेणेन्दुसंयुतामिति” वचनेन ग्रही-तव्या भवति या तु दिनद्वये निशीथठ्यापिनी तस्याम्उभयत्र निशीथयोगस्य रात्रियोगस्य तुल्पत्वान्नानेनवचनेन निर्णयः सम्भवति नापि “कृष्णपक्षेऽष्टमी” इत्या-दिभिरष्टमीमात्रमुपजीव्य प्रवृत्तैः निर्णेतुं शक्यते तेषाम-हर्वेधविषयत्वात् अन्यथा व्रतान्तरेष्वपि निशीथवेधःप्रसज्येत तस्मान्न्यायः परिशिष्यते न्यायश्च परेद्युरुप-वासं प्रापयति, संकल्पकालमारभ्य तिथिसद्भावांत् ।न साकल्याभिधायिवचनेन पूर्वेद्युरपि संकल्पकालेतिथिरस्तीति शङ्कनीयम् तस्यामुख्यतिथित्वाभावात् ।किञ्च “सा तिथिः सकला ज्ञेया यस्यामस्तमितोरविरिति” वचनं निशीथव्यापिनीमष्टमीं विषयीरोति तस्मात्परेद्युरेवोपवासः तदेवं चतुर्विधा रोहि-णीरहिताष्टमी निर्ण्णीता अथ रोहिणीसहिताष्टमीनिर्णीयते सापि चतुर्विधा शुद्धा विद्धा शुद्धाधिका विद्धा-धिका चेति तत्र शुद्धायां संपूर्णयोगो निशीथयोगोयत्किञ्चिन्मुहूर्त्तयोगश्चेति त्रैविध्यं भवति एवं विद्धायामपि द्रष्टव्यम् एतेषु षट्सु भेदेषु दिनान्तरे योगा-भावादुपावासे सन्देहो नास्ति किंतु केवलं योगगततारतम्यात्प्राशस्त्यतारतम्यं भवति यत्किञ्चिन्मुहूर्त्ते योगःप्रशस्तः अर्धरात्रयोगः प्रशस्ततरः सम्पूर्ण्णयोगः प्रशस्त-तमः सर्वेष्वपि योगेषु योगमुपजीव्य उपवासो वि-हितः विष्णुधर्म्मोत्तरे “प्राजपत्यर्क्षसंयुक्ता कृष्णा नभसिचाष्टमी मुहूर्त्तमपि लभ्येत सोपेष्या सुमहाफला ।मुहूर्त्तमप्यहोरत्रे यस्मिन् व्यक्तं हि लभ्यते अष्टम्यांरोहिणीऋक्षं तां पुण्यां समुपावसेदिति” शुद्धाधिका तुपूर्व्वेद्युः सूर्योदयमारभ्य प्रवृत्ता परेद्युः सूर्यो-दियमतिक्रम्येषद्वर्त्तते सा त्रिविधा पूर्व्वेद्युरेव रो-हिणीयुक्ता परेद्युरेव रोहिणीयुक्ता दिनद्वयेऽपिरोहिणीयुक्ता चेति तत्राद्ययोर्द्वयोः पक्षयोर्नास्त्युपवाससन्देहः रोहिणीयुक्ताया द्वितीयायाः कोटेरभावात् ।तृतीयपक्षे तु रोहिणीयोगस्योभयत्र समानत्वेऽपिगुणाधिक्यात् पूर्व्वैवोपास्या गुणाधिक्यं दर्शयि-य्यते येयमत्रोपोष्यत्वेनोक्ता पूर्वा तिथिः सापिरोहिणीयोगभेदात्त्रिधा भिद्यते अष्टमीवत्सूर्य्योदय-मारभ्य प्रवृत्ता रोहिणी कदाचित्परेद्युरपि कि-यती वर्त्तते, कदाचित्पूर्व्वेद्युर्निशीथमारभ्य रोहिणीप्रवर्त्तते कदाचिन्निशीथादूर्द्ध्वमारभ्य प्रवर्त्तते तत्रप्रथमपक्षे संपूर्ण्णत्वमेकोगुणः संकल्पकालमारभ्य कृ-त्स्नकर्म्मकालव्याप्तिरपरोगुणः निशीथव्याप्तिस्तृ-तीयोगुणः नचैते त्रयोगुणाः परेद्युः सम्भवन्ति ।द्वितीयपक्षे निशीथे जयन्तीसद्भावोगुण, परेद्युःसोऽस्ति तृतीयपक्षे दिनद्वयेऽपि निशीथयोगो नास्तिपूर्व्वेद्युः केवलाष्टमी परेद्युः केवला रोहिणी तत्रा-ष्टम्याः प्राधान्यात्प्राबल्यमास्थेयम् सर्वत्र हि जय-न्तीवाक्येपु रोहिणीसहिताष्टमीति व्यवहारादष्टमीस-हिता रोहिणीति व्यवहाराभावाच्च तिथिनक्षत्रयोःक्रमेण प्रधानोपसर्जनभावोऽवगन्तव्यः अती गुणाधिक्या-च्छुद्धाधिका पूर्वैवोर्पाष्या निशीथादर्वाक् सप्तम्या युक्तापरेद्युरपि विद्यमाना विद्धाधिका नन्वत्र निशीथवेधो ग्राह्य इत्युक्तम् वाढं वेध्याया अष्टम्या निशीथसद्भावोऽत्र निशीथवेधः तु वेधिकाया सप्तम्याःनिशीथसमये सद्भावः विद्धाधिकायामपि पक्षत्रयम् ।द्वयोः पक्षयोश्च सन्देहाभावः पूर्व्ववद्योजनीयः तत्रया पूर्व्वेद्युरेव रोहिणीयुक्ता विद्धाधिका तस्यामुपवासआदित्यपुराणे स्मर्य्यते “विनाऋक्षं कर्त्तव्या नवमीसंयुताष्टमी कार्य्या विद्धापि सप्तम्या रोहिणीसहिता-ष्टमीति” विष्णुधर्म्मोत्तरेऽपि “जयन्ती शिवरात्रिश्च कार्य्येभद्राजयान्विते कृत्वोपवासं तिथ्यन्ते तथा कुर्य्यात्तुपारणमिति” गारुडपुराणेऽपि “जयन्त्यां पूर्व्वविद्धा-यामुपवासं समाचरेत् तिथ्यन्ते वोत्सवान्ते वा व्रतीकुर्वीत पारणमिति” या परेद्युरेव रोहिणीयुक्ता वि-द्धाधिका तत्रोपवासः पूर्बतिथौ युक्तः, रोहिणीयोगाभावात् परेद्युः तत्सद्भावात्पूर्बोदाहृतेन प्राजापत्येत्यादिनाविष्णुरहस्यवचनेनोपवासोविधीयते या तूभयत्र रोहि-णीयुक्ता विद्धाधिका सापि निशीथे जयन्तीयोगमपेक्ष्यचतुर्धा भिद्यते पूर्व्वेदुरेव निशीथयोगवती परेद्यु-रेव तादृशी, उभयत्रापि निशीथयोगसहिता तद्र-हिता चेति तत्र या पूर्व्वेद्युरेव निशीथयोगवती सापूर्बैवोपोष्या तदुक्तं पद्मपुराणे “कार्य्या विद्धापि सप्तम्यारोहिणी सहिताष्टमी तत्रोपवासं कुर्वीत तिथिभान्तेव्य पारणचिति” अत्राविशिष्टेषु त्रिषु पक्षेषु परदिनएवोपवासः तत्र दिनद्वये निशीथयोगमुपलक्ष्य ब्रह्म-वैवर्त्ते पठ्यते “वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी!सा सर्क्षापि कर्त्तव्या सप्तमीसहिताष्टमी “अविद्धा-यान्तु मर्क्षायां जातो देवकीनन्दनः” इति यदा दिनद्व-येऽपि निशीथयोगे परत्रोपवासस्तदा किमु वक्तव्यं परे-द्युरेव निशीथयोगे दिनद्वयेऽपि निशीथयोगराहित्यंबहुवा जायते तद्यथा पूर्वेद्युर्निशीथादूर्द्ध्वं तिथि-नक्षत्रद्वयं प्रवृत्तं तच्च परेद्यु र्निशीथादर्वागेव समाप्तमि-त्येकः प्रकारः! पूर्बेद्युर्निशीथादर्वागेव नक्षत्रं प्रवृत्तम्अष्टमी तु निशीथादूर्द्ध्वं प्रवृत्ता परेद्युर्निशीथादर्वाग्नक्षत्रं निवृत्तमित्यपरः अष्टमी निशीथादर्वाक् प्रवृत्ताऋक्षं निशीथादूर्द्ध्वं प्रवृत्तम् अष्टम्याःपरेद्युर्निशीथादर्वागेवसमाप्तिरिति तृतीयः त्रिप्वप्येतेषु प्रकारेषु परैवोपो-ष्या दिनद्वयेऽप्यर्धरात्रयोगविषये पूर्वोदाहृतस्य “वर्जनीयाप्रयत्नेन” इत्यादिवचनस्यात्राऽपि चारयितुं शक्यत्वात् ।किञ्च प्रथमप्रकारे न्यावोऽप्युद्वलको भवति सङ्कल्पकाल-मारभ्य तिथिनक्षत्रयोगस्य बहुकालव्यापित्वात् प्रशस्तत्वंद्रष्टव्यम् द्वितीयप्रकारे परेद्युरष्टमीबाहुल्येऽपि नक्षत्र-योगस्याल्पत्वादनुपादेयत्वमित्याशङ्का कर्त्तव्या अतएवस्कन्दपुराणे पठ्यते “सप्रमीसहिताष्टम्यां भूत्वा ऋक्षं द्विजो-त्तम! प्राजापत्यं द्वितीपेऽह्नि मुहूर्त्तार्धं मवेद्यदि तदा-ष्टयामिकं ज्ञेयं प्रोक्तं व्यासादिभिः पुरेति” तृतीयप्रकारेपरेद्युर्नक्षत्रबाहुल्येऽपि अष्टनीयोगस्याल्पत्वादनुपादेयत्वमित्याशङ्का भवति सा पद्मपुराणेन निवर्त्त्यते “पूर्व-विद्धाष्टमी या तु उदये नवमीदिने मुहूर्त्तमपि संयुक्तासंपूर्णा साष्टमी भवेत् कला काष्ठा मुहूर्त्ताऽपि यदा कृष्णाष्टमी तियिः नवम्यां सैव ग्राह्या स्यात् सप्तमीसंयुतान हीति” तदेवं जन्माष्टमीभेदा जयन्तीभेदाश्च निरू-पिताः तत्र जयन्तीभेदेपूपवासदिने यदि बुधवारःसोमवासरोवा भवति तदा फलाधिक्यं भवति तदुक्तंपद्मपुराणे “प्रेतयोनिगतानां तु प्रेतत्वं नाशितं नरैः ।यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता किं पुन-र्बुधवारेण सोमेनापि विशेषतः किं पुनर्नवमीयुक्ताकुलकोट्यास्तु मुक्तिदेति” स्कन्दपुराणेऽपि “उदये चाष्टमीकिंचिन्नवमी सकला यदि भवेत्तु बुधसंयुक्ता प्राजापत्यक्षेसयुता अपि वर्षशतेनापि लभ्यते यदि वा नवेति” ।विष्णुधर्मोत्तरेऽपि “अष्टमी बुधवारेण रोहिणीसहितायदा भवेतु मुनिशार्दूल! किं कृतैर्व्रतकोटिरिति” ।यथीक्तरीत्या विहिततिथावुपवासं कृत्वा परेद्युः पार-णेनोपवासं समापयेत् पार तीर-कर्मसमात्नाकित्यस्माद्धातोःनिष्पन्नः पारणशब्दः यद्यप्यसौ समाप्तिमात्रमभिधत्तेतथाप्युपवाससमप्नावेव लोकशास्त्रयोः प्रयोगात् पङ्कजादि-शब्दवद्योगरूढोद्रष्टव्यः तया योगरूद्योपवासस्यचरमाङ्गं भोजनमभिधत्ते अङ्गत्वञ्चोपवासविधिवाक्येषु“विथिभान्ते पारणमिति” विधानादवगन्तव्यम् ।न रागप्राप्तस्य भोजनस्यानेन वचनेनोपवासाङ्गतिथिनक्षत्रयोनिप्रेधः क्रियते तु पारणनामकं किञ्चिद-ङ्गं विधोयत इति शङ्कनीयम् तथासति पारणशब्दप्रग्रोगानुयपत्तेः रागप्राप्ते ह्यभ्यवहरणे भोजनशब्दः ।तत्र पारणशब्देन रागप्राप्तमोजनविवक्षायां मुख्यार्धोपाधितः स्यात् किञ्चयदि पारणमङ्गं स्यात्तदा प्रति-निधिविधानं नोपपद्येत तद्विधानञ्च द्वादशीप्रस्तावेदेवलेन स्मर्यते “संकटे विषमे प्राप्ते द्वादश्यां पारयत् कथम्? ।अद्भिस्तु पारणां कुर्यात् पुनर्भुक्तं दोषकृदिति” अतःपारणशब्दबलात् प्रतिनिधिविधिबलाच्च पारणस्याङ्गत्वंद्रष्टव्यम् अतएवादित्यपुराणे “पारणान्तं व्रतं ज्ञेयं व्रता-न्ते द्विभोजनम् असमाप्ते व्रते पूर्वं नैव कुर्य्याद्व्रतान्तरमिति” तच्च पारणमुपवासदिनात् परदिनपूर्वाह्णे कर्त्त-व्यम् “उपवासेषु सर्वेषु पूर्वाह्णे पारणं मवेदिति” देवलस्मरणात् एवं सामान्यतः पूर्वाह्णे पारणप्राप्तौ क्वचि-दपवादाय “तिथिमान्ते पारणम्” इत्यभिधीयते ।शुद्धाधिकायां पूर्व्वेद्युरेव जयन्तीयोगः उभयत्रापि वाजयन्तीयोग इत्यनयोः पक्षयोः पूर्व्वेद्युरेवोपवासविधा-नात् परेद्युः केवलतिथेस्तिथिनक्षत्रयोर्वा सद्भावात्तदन्तेपारणविधिः तथा शुद्धाधिकयोर्विद्धाधिकयोरुभयोरपि यदापरेद्युरेव जयन्तीयोगस्तदा परतिथावुपवासविधानात्पार-णदिने तिथ्यभावेऽपि कदाचिन्नक्षत्रावशेषसम्भवात्तदन्तेपारणं विधीयते तिथेर्वा नक्षत्रस्य वावशेषकाले पारणंब्रह्मवैवर्त्ते प्रतिषिध्यते “अष्टम्यामथ रोहिण्यां कुर्या-त्पारणं क्वचित् हन्यात्पुरा कृतं कर्म उपवासार्जितंफलम् तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् त-स्मात् प्रयत्नतः कुर्यात्तिथिभान्ते पारणमिति” स्कन्द-राणेऽपि “तिथिनक्षत्रनियमे तिथिभान्तेच पारणम् ।अतोऽन्यथा पारणे तु व्रतभङ्गमवाप्नुयादिति” ।तिथिभान्तश्च द्विविध उभयान्त एकतरान्तश्चेति दिनद्वयेजयन्तीयोगवत्यां शुद्धाधिकायां परदिने अष्टमी मुहूर्त्तत्र-यं नातिक्रामति रोहिणी तु पूर्वेद्युर्निशीथादर्वाग् यदाकदाचित् प्रवृत्ता तदनुसारेण परेद्युः समाप्येत तत्रयदि दिवैव समाप्येत तदा तामतिवाह्यैव पारणं कुर्यात्उभयान्तस्य मुख्यत्वात् यदि रात्रौ समाप्तिस्तदा तत्समा-प्तर्न प्रतीक्षणीया रात्रिपारणस्य निषिद्धत्वात् तथाच ब्रह्मवैवर्त्ते “सर्वेष्वेवोपवासेपु दिवा पारणमिष्यते ।अन्यथा पुण्यहानिः स्यादृते धारणपारणमिति अन्य-तिथ्यागमोरात्रौ तामसस्तैजणो दिवा तामसे पारणंकुर्वंस्तामसीं गतिमश्नुते” इति दिवापारणं कुर्वन्नापनाष्टमीवेलायां कुर्य्यात् एकतरान्तस्याभावात् अष्टमीम-तिवाह्य रोहिण्यां वर्त्तनायाभपि पारणं कार्यम् अतएवनारदीये “तियिनक्षत्रसंयोग उपवासोयदा भवेत् ।पारणं तु कर्त्तव्यं यावन्नैकस्व रुक्षयः” सांयोगिकेव्रते प्राप्ते यत्रैकोऽपि वियुज्यते तत्रैव पारण कुर्यादेवंवेदपिदोविदुरिति” पूर्व्वेद्युरेव निशीथे जयन्तीयोगवत्यां विद्धाधिकायां पारणदिने तिथिभान्तो बहुधा सं-भाव्यते अहन्युमयान्तएकतरान्तोवा, रात्रावेकतरान्तउभयान्तोवेति तेषु चतुर्षु भेदेषु निर्णयः स्मर्यते“तिथिऋक्षयोर्यदा च्छेदोनक्षत्रान्तमथापि वा अर्द्धरात्रेऽपि वा कुर्यात् पारणञ्च परेऽहनीति” दिवसेयद्युभयान्तस्तदा पारणमिति मुख्यः कल्पः नक्षत्रा-न्तसित्यनेनैकतरान्तत्वं विवक्षितम् सोऽयमनुकल्पः ।यदि रात्रौ निशीथादर्वागुभयान्त एकतरान्तो वा भवतितदा दिवसे मुख्यानुकल्पयोरुभयोरप्यसंभावाद्रात्रौ पा-रणस्य निषिद्धत्वाच्चार्थात्तत्राप्युषवासप्राप्तौ पारणस्यप्रतिप्रसवः क्रियते “अर्धरात्रेऽपि वा कुर्यादिति” ननुपारणेऽष्टम्यन्तस्य प्रतीक्षणीयत्वेऽपि रोहिण्यन्तो प्रती-क्षणीयः “याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्ष्रसं-युताः ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणीम्”इति स्मरणात् मैवम् “नक्षत्रञ्च चतुर्गुणमिति” प्रत्यवायस्योदाहृतत्वात् तस्मात् “विना श्रवणरोहिणी-मिति वचनं केवलनक्षत्रोपवासविषयं पूर्वोक्तानुकल्पवि-षयं वेत्यवगलव्यम् अशक्तस्य तु तिथिनक्षत्नयोरु-भयोरनुवर्त्तमानयोरपि प्रातर्देवं संपूज्य क्रियमाणं पा-रणं दुष्यति “तिथ्यन्ते वोत्सवान्ते वा व्रती कुर्वी-त पारणमिति” स्मरणात् ।तत्र निष्कृष्टार्थस्तु तेनैव कारिकामिर्निबद्धोयथा“जयन्त्याख्यं व्रतं भिन्नं कृष्णजन्माष्टमीव्रतात् शुद्धाच सप्तमोविद्धेत्येवं जन्माष्ठमी द्विधा सप्तमी चेन्नि-शीथात् प्राग्विद्धा शुद्धाऽन्यथा भवेत् शुद्धायां नास्तिसन्देहो विद्धा त्रिविधेष्यते निशीथयीगः पूर्वेद्यु-रुत्तरेद्युर्द्वयोरुत पूर्वैव प्रथमे पक्षे परैवोत्तरपक्षयोः ।अष्टमी रोहिणीयुक्ता जयन्ती सा चतुर्विधा शुद्धा शु-द्धाधिकेत्येवं विद्धा विद्धाधिकेति शुद्धायामपि विद्धायांन संभाव्योत्तरा तिथिः शुद्धाधिकायां योगः स्यादेक-स्मिन्वा दिनद्वये नैकयोगेऽस्ति सन्देहो द्वियोगे प्रथम-न्दिनम् यदा निशीथे पश्चाद्वेत्युत्तमो मध्यमोऽधमः ।योगस्त्रिधापि पूर्वेद्युः संपूर्णत्वादुपोषणम् बिद्धाधि-कायां प्रत्येकदिनयोगे गृह्यताम् द्वयोर्योगस्त्रिधा-मिन्नो निशीथवृत्तिभेदतः तद्युक्तिर्दिन एकस्मिन्नुभयोर्नोभयोरिति एकस्मिंश्चेत्तद्दिनं स्यात् पक्षयोरन्त्ययोःमरा वुधे सोमे जयन्ती चेद्वारे साऽतिफलप्रदा तिथ्यृ-क्षयोर्द्वयोरन्ते उत्तमं कारणं भवेत् एकस्यान्तमध्यमं स्यादुत्सवान्तेऽधमं स्मृतम् यस्मिन्वर्षे जय-न्त्याख्यो योगो जन्माष्टमी तदा अन्तर्भूता जयन्त्यांस्यादृक्षयोगप्रशस्तितः नोपवासद्वयं कार्यमुपोष्यन्तुपरं दिनम्” ।रघुनन्दनमते तु तद्व्यवस्था यथा“यत्रैकदिने जयन्तीलाभस्तत्रैवीपवासः उभयदिनेचेत्तदा परदिने जयन्त्यलाभे रोहिणींयुक्ताष्ट-म्याम् उभयदिने रोहिणीयुक्ताष्टमीलाभे परदिने ।रोहिण्यलाभे तु निशीथसम्बन्धिन्यामष्टम्याम् उभय-दिने निशीथसम्बन्धे तदसम्बन्धे वा परदिन इति ।उपवासपरदिने तिथिनक्षत्रयोरवसाने पारणम् य-दा तु महानिशायाः पूर्व्वमेकतरस्यावसानमन्यत-रस्य महानिशायां तदनन्तरं वा तदैकतरावसाने पा-रणम् यदा महानिशायामुभयस्थितिस्तदोत्सवान्तेप्रातःपारण्णमति” ।तत्प्रमाणवाक्यानि ति० त० जन्माष्टमीतत्त्वेऽनुसन्धेयानिमाववरघुनन्दनमतयोर्युक्तत्वायुक्तत्वे सत्यपि देशविशेषवासिभिस्तत्तद्व्यवस्थे आदर्त्तब्ये एते व्यवस्थे स्मार्त्तैरे-वादर्त्तव्ये वैष्णवैस्तु हरिभक्तिविलासाद्यनुसारिणी व्यव-स्थादर्त्तव्या सा जन्माष्टमीशब्दे दृश्या कृष्णजन्माष्ट-मीशब्दोऽप्यत्र दर्शितकालमाधवीयग्रन्थे उदा० दृश्यम्