कृष्णयजुर्वेद (kRSNayajurveda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English कृष्णयजुर्वेद kRSNayajurveda black yajurveda
शतरुद्रीय zatarudrIya hymn of the yajurveda
याजुष yAjuSa relating to the yajus or yajurveda
हौष्य hauSya particular school of the yajurveda
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiकृष्णयजुर्वेदः
कृष्ण-यजुर्वेदः -
तैत्तिरीय या कृष्ण यजुर्वेद
Shabdartha Kaustubha
Kannadaकृष्णयजुर्वेद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶುಕ್ಲ ಮತ್ತು ಕೃಷ್ಣಗಳೆಂಬ ೨ ಯಜುರ್ವೇದಗಳಲ್ಲಿ ಒಂದು ಭೇದ
वाचस्पत्यम्
Sanskritकृष्णयजुर्वेद तैत्तीरीयरूपयजुर्वेदभेदे । तस्य कृष्णत्वञ्चतस्य पाठे प्रतिपदायुक्तपूर्ण्णिमायाग्राह्यत्वत् । यजुर्वे-दस्य द्वौ भेदौ शुक्लकृष्णभेदात् तदवान्तरभेदाश्च चरणव्यू-हभाष्ययो दर्शिताः यथा“यजुर्वेदस्य षडशीतिर्भेदा भबन्ति । तत्र चरका नामद्वादशभेदा भवन्ति “चरका आह्वरकाः कठाः प्राच्यकठाःकपिष्ठलकठाश्चारायणीया वार्त्तान्तरीयाः श्येताश्वतरावाराहा औपमन्यवश्छागलेया मैत्रायणीयाश्चेति । मैत्रा-यणीयानाम सप्तभेदा भवन्ति मानवामैत्रायणीया दुन्दु-भाश्चैकेया हारिद्रवेयाः श्यामाः श्यामायनीयाश्चेति । ते-षामध्ययनमष्टशतं यजुःसहस्राण्यधीत्य शाखापारो भवतितान्येव द्विगुणान्यधीत्य पदपारो भवति तान्येव त्रिगुणा-न्यधीत्य क्रमपारो भवति षडङ्गान्यधीत्य षडङ्गविद्भवतिशिक्षाकल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्यङ्गानिभवन्ति तत्र प्राच्य उदीच्यां, नैरृत्यां निरृत्यस्तत्रवाजसनेयानां पञ्चदश भेदा भवन्ति काण्वा माध्य-न्दिनाः शावीयाः श्यामायनीयाः कापोलाः पौण्ड्रवत्साआवटिकाः परमावटिकाः पाराशर्य्याः वैधेया वैनेयाऔधेया गालया वैजपाः कात्यायनीयाश्चेति प्रतिपदमनु-पदं छन्दो भाषा धर्मोमीमांसा न्यायस्तर्क इत्युपाङ्गानि उप-ज्योतिषं साङ्गलक्षणं प्रतिज्ञानुवाक्यः परिसंख्या चरणव्यूहः श्राद्धकल्पः प्रवराध्यायश्च शास्त्रक्रतुसंख्यानुगम-यज्ञपार्श्वाणि हौत्रिकम्पाशवोक्थानि कूर्मलक्षणम् इत्य-ष्टादश परिशिष्टानि भवन्ति । द्घे सहस्रे शते न्यूने मन्त्रेवाजसनेयके । इत्युक्तमेतत्सकलं स शुक्रियञ्च कीर्त्तितम् ।ग्रन्थाश्च परिसंख्याता ब्राह्मणञ्च चतुर्गुणम् । तत्र तैत्ति-रीयकानाम द्विभेदा भवन्ति । औख्याः काण्डिकेयाश्चेति ।काण्डिकेयानाम पञ्चभेदा भवन्ति । आपस्तम्बी बौधायनीसत्यार्षाढी हिरण्यकेशी औधेयी चेति तत्र कठानां तुप्रमृथचतुःश्चत्वारिंशदुपग्रन्थाः मन्त्रब्राह्मणयोर्वेदस्त्रिगुणंयत्र पट्यते । यठुर्बेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ।तेषामध्ययनं प्रवचनीयाश्चेति” मू० । विवृतमेतद्भाष्येयथा “यजुर्वेदस्य षडशीतिर्भेदा भवन्ति” अत्र शाखा-भेदो ग्राह्यः । षडुत्तराशीतिभेदा इत्यर्थः । “तत्रचरका-नाम द्वादशभेदा भवन्ति” इतिस्पष्टार्थः । ते के भेदा इत्याहचरका इत्यादि मैत्रायणीयानाम सप्तभेदा मवन्ति । मैत्रा-यणीया मानवा इत्यादि । मैत्रायणीयशाखागण इत्यर्थः ।मैत्रायणीयस्तु वाजसनीयवेदाध्यायी । मानवं कल्पसूत्रम् ।तेषामध्ययनमष्टोत्तरशतं यजुःसहस्राण्यधीत्य शाखापारोभवति तेषामध्ययने द्विचत्वारिंशदध्यायाः अष्टशता-धिकसहस्रमन्त्रा इत्यर्थः । तान्येव द्विगुणान्यधीत्य पद-पारोभवति द्विवारपठनात्पदपारायणफलं भवति इत्यर्थः ।तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति त्रिवारपठनात्क्रमपारायणफलं भवतीत्यर्थः । पदक्रमाध्ययनफलं भवतीत्यर्थः । तत्र प्राच्य उदीच्यां, नैरृत्यां निरृत्यस्तत्र वाजसनेयानां पञ्चदश भेदा भवन्ति प्राच्य उदीच्यनैरृत्यइति तिसृषु दिशासु । वाजसनेयवेदोत्पत्तिमग्रे वक्ष्यामःइतरदेशेषु वेदशाखयोर्विभाग उच्यते तच्च माहार्णवे उक्तम्“पृथिव्यामध्यरेखायां नर्मदा परिकीर्त्तिता । दक्षिणोत्तर-योर्भागे शाखावेदश्च उच्यते । नर्मदादक्षिणे भागे आपस्तम्बाश्वलायनी । राणायनी पिष्पला च यज्ञकन्याविभागिनः ।मान्ध्यन्दिनी शाङ्खायनी कौथुमी शौनकी तथा नर्मदो-त्तरभागे च यज्ञकन्याविभागिनः । तुङ्गकृष्णा तथा गोदासह्याद्रिशिखरावधि । आआन्ध्रदेशपर्यन्तम् बह्वृ चश्चाश्वला-यनी । उत्तरे गुर्जरे देशे वेदो बह्वृच इरितः । कौषीत-किब्राह्मणं च शाखा शाङ्खायनी स्थिता । आन्ध्रादिदक्षिणाग्नेय्यां गोदासागरकाबधि । यजुर्भेदस्य तैत्तिर्य्याआपस्तम्बी प्रतिष्ठिता । सह्याद्रिपर्वतादाराद्दिशाम् नैरृ-त्यसागरात् । हिरण्यकेशी शाखा च पर्शुरामस्य सन्निधौ । मयूरपर्वताच्चैव यावद्गुर्जरदेशतः । व्याप्ता वायव्य-देशात्तु मैत्रायणी प्रतिष्ठिता । अङ्गवङ्गकलिङ्गाश्च कानीनीगुर्जरस्तथा । वाजसनेयी शाखा च माध्यन्दिनी प्रतिष्ठिता ।ऋषिणा याज्ञवल्केन सर्वदेशेषु विस्तृता । वाजसनेय-वेदस्य प्रथमा काण्वसंज्ञकाः” इति व्यासशिष्योवैश म्पाय-नोनिगदाख्ययजुर्वेदम्पठित्वा शिष्यान् चकार । तच्चाह भा-गवते १२ । ६ अ० “वैशम्पायनशिष्यवै चरकार्ध्वर्यवोऽभवन् ।यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम् । याज्ञवल्क्यश्च त-च्छिष्य आहांहोभगवन्! कियत् । चरितेनाल्पसाराणां च-रिष्येऽहं सुदुश्चरम् । इत्युक्तो गुरुरप्याह कुपितोयाह्यलंत्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजत्विति । देरातः सुतः सोऽपि छर्दित्वा यजूषांगणम् । ततोऽगतोऽथसुतयो ददर्शुस्तान् यजुर्गणान् । यजूंषि तित्तिरीभूत्वातल्लोलुपतयाऽऽददुः । तैत्तिरीया इति यजुःशाखा आसन्सुपेशलाः” । याज्ञवल्क्यः “ॐ नमो भगवते” इत्यादिनासूर्य्यं तुष्टाव । “एवमुक्तः म भगवान् वाजिरूपधरोहरिः ।यजूंष्य्यातयामानि मुनयेऽदात् प्रसादितः” (अजीर्णभुक्तेउच्छिष्टवान्ते यातयामशब्द इति निघण्टुः तदन्यत् अयात-यामम्) “यजुर्भिरकरोच्छाखादश पञ्च शनैर्विभुः । जगृहु-र्वाजसन्यस्ताः काण्वा माध्यन्दिनादयः” इत्यादि ग्रन्थ-पर्यालोचनपा यजुर्वेदत्यागानन्तरं देवरातः सुतेनाब्राह्मण-त्वभिया प्रसादितः सूर्य्यो वाजिरूपेण तस्मै दत्ता वाजेभ्यःकेसरेभ्यः वाजेन वेगेन वा संन्यस्ताः शाखा वाजसनेयसंज्ञा । तस्य शाखारण्डत्वपरिहारार्थं चातुर्वेद्यत्वसंरक्ष-णार्थं च वाजिरूपेण सूर्य्येणायातयामानि यानि यजूंषिमुनये दत्तानि तैर्यजुर्भिरर्कापितैः स मुनिस्ताः वाज-सन्यः पञ्चदश शाखा अकरोत् । तस्माच्च मुनेः काण्वमाध्यन्दिनादयः अध्ययनं चक्रुः । ते पञ्चदश भवन्तितथा च विष्णुपुराणे यजुर्वेदस्य विस्तारविभागमाह“यजुर्वेदतरोः शाखाः सप्तविंशन्महामुने! । वैशम्पायननामासौ व्यासशिष्यश्चकार वै । शिष्येभ्यः प्रददौ ताश्चजगृहुस्तेऽप्यनुक्रमात् । याज्ञवल्क्यस्तु तस्याभूद्ब्रह्म-रातः सुतोद्विजः । शिष्यः परमधर्म्मज्ञो गुरुवृत्तिरतःसदा । ऋषिर्यश्च महामेरोःसमाजेष्वागमिष्यति । तस्य वैसप्त रात्रन्तु व्रह्महत्या भविष्यति । पूर्वमेवं मुनिगणैःसमयोऽयं कृतोद्विज! । वैशग्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा । स्वस्रियं तं च हंसोऽथ पदघृष्टमवातयत् ।शिष्यानाह च भो शिष्या ब्रह्महत्यापरं व्रतम् ।चरध्वं मत्कृते सर्वे न विचार्यमिदन्तथा । अथाहयाज्ञवल्क्यस्तङ्किमेतैर्बहुभिर्द्विजैः । क्लेशितैरल्पतेजो-भिश्चरिष्येऽहमिदं व्रतम् । ततः क्रुद्वो गुरुः प्राहयाज्ञवल्क्यं महामुनिम् । मुच्यतां यत् त्वयाऽधीतं यतोविप्रायमानकः । निस्तजसोवदस्येतान् यस्त्वं ब्रह्म-णपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्ग-कारिणा । याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयो-दितम् । ममाप्यलन्त्वया त्वत्तोयदधीतं द्विज! त्विदम् ।श्रोपराशर उवाच इत्युक्त्वा रुधिराक्तानि सरूपाणियजूंव्यथ । छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छपामुनिः । यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज! ।जगृहुस्तित्तिरीभूतास्तित्तिर्यास्तु च ते ततः । ब्रह्महत्याव्रतंचीर्णं गुरुणा नोदितैस्तु यैः । चरकाध्वयवस्ते तु चर-ण्णान्मुनिसत्तम! । याज्ञवल्क्योऽपि मैत्रेष! प्राणायामप-रायणः । तुष्टाव प्रणतः सूर्यं यजूंष्यभिलषं स्ततः ।याज्ञवल्क्य उवाच । नमः सवित्रे द्वाराय मुक्तेरमितते-जसे । ऋग्यजुःसामरूपाय त्रयीधामात्मने नमः” इत्यादि ।पराशर उवाच । इत्येवमादिभिस्तेन स्तूयमानः सवै रविः ।वाजिरूपधरः प्राह प्रीयमाणोऽभिवाञ्छितम् । याज्ञ-वल्क्यस्तथा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मेदेहि यानि सन्ति न मे गुरौ । पराशरौवाच । एवमुक्तोददौ तस्मै यजूंषि भगवान् रविः । अयातयामसंज्ञानियानि नो वेत्ति तद्गुरुः । यजूंषि यैरधीतानि तानिविप्रैर्द्विजोत्तम! । वाजिनस्ते समाख्याता सूर्य्याश्वोद्भवयोगतः । शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम्काण्वाद्यास्तु महाभाग! याज्ञवल्क्यप्रवर्त्तिताः”काण्वा माध्यन्दिनाः शावीया श्यामायनीया कापो-लाः पौण्ड्रवत्साःआवटिकाःपरमावटिकाः पारशर्यावैधेया वैनेया ओघेया गालवा वैजपाः कात्या-यनीयाश्चेति पञ्चदश शाखा इत्यर्थः । प्रतिपदमनुपदम् प्रतिपदे अनुपदम् अल्पपदं कर्त्तव्यमित्यर्थः ।छन्दः छन्दोरत्नाकारादि । भाषा शब्दपरिभाषा, धर्म्मःधर्मशास्त्रं मन्वादि, मीमांसा प्रसिद्धा न्यायः तर्कःइति षडुपाङ्गानि । उपज्योतिषं ज्योतिःशास्त्रम्साङ्गलक्षणं सामुद्रिकादि प्रतिज्ञानुवाक्यः अनेन वाक्येनअयं सिद्धान्तः । परिसंख्या सूगोलादि । अयं रणव्यूहः ।आद्धकल्पः प्रवराध्यायश्च शास्त्रं क्रतुसंस्याकल्पादिषुज्ञातव्यम् । अनुगमयज्ञा यज्ञक्रियापार्श्वानि हौत्रि-कभेदाः । हौत्रं यज्ञक्रियाः । पाशवोक्थानि पशुयज्ञाःकूर्मलक्षणं यज्ञे प्रसिद्धम् । इति अष्टादश परिशिष्टानिभवन्ति । द्वे सहस्रेशतन्यूने मन्त्रे वाजसनेयके इत्युक्तेःसकलं सशुक्रियं ग्रन्थाश्च परिसंख्यात मित्यर्थः । वाजस-नेयवेदे च नवशताविकसहस्रमन्त्रा इत्यर्थः । एतत्स-कलं सशुक्लियं मध्याह्ने शुक्लवर्णेन सूर्येणदत्तं सशुक्रियसंज्ञंपरिसंख्यातमित्यर्थः । वेदोपक्रमणे चतुर्दशीयुक्त-पूर्णिमाग्रहणात् शुक्लयजुः प्रथितमित्यर्थः । प्रतिपदा-युक्लपूर्णिमाग्रहणात् कृष्णयजुरिति च । ब्राह्मणञ्च चतु-र्गुणं ब्राह्मणमित्यर्थः, यजुर्वेदतरोरासन् शाखा ह्येकोत्त-रं शतम् । तत्रापि च शिवाकारा दश पञ्च च वाजिनाम् ।“तत्रापि प्रथमा मुख्या शाखेयं काण्वसंज्ञिका” इतिग्रन्थान्तरे । तैत्तिरीयानाम द्विभेदा भवन्ति औख्याः का-ण्डिकेयाश्चेति । काण्डिकेयानां पञ्च भेदा भवन्ति आ-पस्तम्बी बौधायनी सत्याषाढी हिरण्यकेशी औधेयी चेतितेषामध्ययनं परिमाणम् । “काण्डास्तु सप्त विज्ञेयाप्रश्नाश्च चतुरुत्तराः । चत्वारिंशत्तु विज्ञेया अनुवाकाःशतानि षट् । एकपञ्चाशदधिका संख्या पञ्चाश्यथोच्यते ।द्विसहस्रञ्चैकशतमष्टानवतिकाधिकन् । लक्षैकन्तु द्विन-वतिः सहह्राणि प्रकीर्त्तितम् । पदानि नवतिश्चैव तथाक्ष-रन्तदुच्यते । लक्षद्वयं त्रिपञ्चाशत् सहस्राणि शताष्टकम् ।अष्टषष्ट्यधिकं चेव यजुर्वेदप्रमाणकम्” । काण्डाः ७ । प्रश्नाः१४४ । अनुवाकाः ६५१ । पञ्चाशी २१९८ । पदानि १९२०९० । अक्ष-रसंख्या २५३८६८ । इति शाखावाक्यान्ययुतानि सहस्राणिनवानि च । चतुःशतान्यशीतिश्च अष्टौ वाक्यानि गण्यतेतत्र इति ब्राह्मणे वाक्यसंख्या १९४८० तैत्तिरीयनिगदवेदा-ख्यसंख्या उक्ता इत्यर्थः । तत्र कठानां तु प्रगाथचतुश्चत्वा-रिंशदुपग्रन्थाः । मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते ।यजुर्वेदः स विज्ञेयो अन्ये शास्वान्तराः स्मृताः”चतुश्चत्वारिंशदुपग्रन्थाः मन्त्रब्राह्मणयोर्वेदस्य अध्यायसमीपे उक्ताः चतुश्चत्वारिंशत् । मन्त्रश्च ब्राह्मणं चमन्त्रब्राह्मणे तयोः मन्त्रब्राह्मणयोः तयोश्च वेद इतिसंज्ञा तदुक्तं “मन्त्रब्राक्षणयोर्वेद” इति नामधेयमित्यृक्-शाखीयप्रातिशाख्याभाष्यकारेण, आपस्तम्बसानान्यसू-त्रभाष्यकारकपर्दिना धूर्त्तखामिना च । तथाचसति मन्त्रोनाम संहितामन्त्रस्तादृङ्मन्त्ररूपसंहितायाःमध्ये एव तदग्रे ब्राह्मणत्वेन पठनमित्युभययापिसंहितात्वेन पदत्व न क्रमत्वेन च पठनं त्रिगुणपठनमिति समन्त्रब्राह्मणयो र्वेदस्त्रिमुणो यत्र पठ्यते इत्यर्थःएतादृशं पठनं शाखाया अध्ययनं स यजुर्वेदस्तच्च तैत्तिरीयशाखायामेवास्ति” भाकम् । अयमत्र शाखाभेदसंस्व्या-निर्णयः । चरकादिकानां द्वादशानां प्रत्येकं मानवादि सप्तभेदैर्मुणितानां ८४ संख्या सम्पद्यते तैत्तिरीयस्य द्वौ भेदौएवं पडशीतिसंख्या वाजसनेयसंख्या पञ्चदशेतिएकोत्तरशतसंख्या । अतएवमुक्तिकोपनिषदि “एकोत्तरशतं चैव यजुःशाखाः प्रकीर्त्तिताः” इत्युक्तम् दर्शितविष्णुपु० सप्तविंशतिभेदोक्तिः चरकादिद्वादशभेदाः काण्वादिपञ्चदशभेदाश्चेति मुख्यभेदाभिप्रायेणेति न विरोधः ।कृष्णयजुर्वेदगतोपनिषदश्च उपनिषचच्छब्दे दर्शिताः
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
