| YouTube Channel

कृष्णद्वैपायनः (kRSNadvaipAyanaH)

 
Apte Hindi
Hindi
कृष्णद्वैपायनः
पुं*
कृष्ण-द्वैपायनः -
व्यास का नाम
Wordnet
Sanskrit
Synonyms:
व्यासः, वेदव्यासः, महर्षिव्यासः, कृष्णद्वैपायनः, पाराशरः, बादरायणः, वासवेयः, सात्यवतः, कृष्णः
noun
एकः ऋषिः येन वेदाः संगृहीताः तथा सम्पादिताः।
"व्यासेन महाभारतं लिखितुं श्रीगणेशः आमन्त्रितः।"
शब्दकल्पद्रुमः
Sanskrit
कृष्णद्वैपायनः,
पुं,
(द्वीपे भव इत्यण् यद्वा द्वीपःअयनं उत्पत्तिस्थानं यस्य प्रज्ञाद्यण् कृष्ण-श्चासौ द्वैपायनश्चेति ।) वेदव्यासः इति त्रिकाण्ड-शेषः
(यथा, महाभारते १०५ १३ ।“ततस्तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन ! ।कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्”
अस्य यमुनाद्वीपोत्पत्तिकथा यथा तत्रैव ।१०५ -- १४ ।“धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम ।सा कदाचिदहं तत्र गता प्रथमयौवने
अथ धर्म्मविदां श्रेष्ठः परमर्षिः पराशरः ।आजगाम तरीं धीमांस्तरिष्यन् यमुनां नदीम्
तार्य्यमाणो यमुनां मामुपेत्याब्रवीत्तदा ।सान्त्वपूर्व्वं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः
तमहं शापभीता पितुर्भीता भारत ! ।वरैरसुलभैरुक्ता प्रत्याख्यातुमुत्सहे
अभिभूय मां बालां तेजसा वशमानयत् ।तमसा लोकमावृत्य नौगतामेव भारत !
मत्स्यगन्धो महानासीत् पुरा मम जुगुप्सितः ।तमपास्य शुभं गन्धमिमं प्रादात् मे मुनिः
ततो मामाह मुनिर्गर्भमुत्सृज्य मामकम् ।द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि
पाराशर्य्यो महायोगी बभूव महानृषिः ।कन्यापुत्त्रो मम पुरा द्वैपायन इति श्रुतः”
अन्यत् विवरणादिकमस्य व्यासशब्दे द्रष्टव्यम्
)