| YouTube Channel

कृष्णद्वैपायन (kRSNadvaipAyana)

 
शब्दसागरः
English
कृष्णद्वैपायन
m.
(-नः) A name of VYASA, the compiler of the Vedas, and
Puranas.
E.
A compound of two other names of the sage: see कृष्ण,
and द्वैपायन.
Yates
English
कृष्ण_द्वैपायन (नः) 1.
m.
Vyāsa.
Wilson
English
कृष्णद्वैपायन
m.
(-नः) A name of VYĀSA, the compiler of the
Vedas, and Purāṇas.
E.
a compound of two other names of the sage: see कृष्ण, and
द्वैपायन.
Monier Williams Cologne
English
कृष्ण—द्वैपायन
m.
‘black islander’,
N.
of Vyāsa (compiler of the
MBh.
and of the Purāṇas
so named because of his dark complexion and because he was brought forth by Satyavatī on a dvīpa or island in the Ganges),
MBh.
Hariv.
Bādar.
iii, 3, 32, Sch.
VP.
Apte Hindi
Hindi
कृष्णद्वैपायनः
पुं*
कृष्ण-द्वैपायनः -
व्यास का नाम
Shabdartha Kaustubha
Kannada
कृष्णद्वैपायन
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಾಶರ ಮಹರ್ಷಿಯ ಪುತ್ರ /ವೇದವ್ಯಾಸಮಹರ್ಷಿ
निष्पत्तिः - > "अण्" (५-४-३८)
व्युत्पत्तिः - > द्वीपोऽयनं जन्मभूमिरस्य द्विपायन एव
प्रयोगाः - > "तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे" "कृष्णद्वैपायनं व्यासं विद्धि नारायणं विभुम् कोह्यन्यः पुण्डरीकाक्षात् महाभारतकृद्भवेत् ॥"
उल्लेखाः - > वेणी० १-४, विष्णुपु०
L R Vaidya
English
kfzRa-dvEpAyana {% m. %} a name of Vyāsa, तमहमरागमकृष्णं कृष्णद्वैपायनं वंदे Ve.i.
Mahabharata
English
Kṛshṇa-Dvaipāyana = Vyāsa, q.v.
पुराणम्
English
कृष्णद्वैपायन / KṚṢṆADVAIPĀYANA. vyāsa. (See under vyāsa).
शब्दकल्पद्रुमः
Sanskrit
कृष्णद्वैपायनः,
पुं,
(द्वीपे भव इत्यण् यद्वा द्वीपःअयनं उत्पत्तिस्थानं यस्य प्रज्ञाद्यण् कृष्ण-श्चासौ द्वैपायनश्चेति ।) वेदव्यासः इति त्रिकाण्ड-शेषः
(यथा, महाभारते १०५ १३ ।“ततस्तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन ! ।कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्”
अस्य यमुनाद्वीपोत्पत्तिकथा यथा तत्रैव ।१०५ -- १४ ।“धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम ।सा कदाचिदहं तत्र गता प्रथमयौवने
अथ धर्म्मविदां श्रेष्ठः परमर्षिः पराशरः ।आजगाम तरीं धीमांस्तरिष्यन् यमुनां नदीम्
तार्य्यमाणो यमुनां मामुपेत्याब्रवीत्तदा ।सान्त्वपूर्व्वं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः
तमहं शापभीता पितुर्भीता भारत ! ।वरैरसुलभैरुक्ता प्रत्याख्यातुमुत्सहे
अभिभूय मां बालां तेजसा वशमानयत् ।तमसा लोकमावृत्य नौगतामेव भारत !
मत्स्यगन्धो महानासीत् पुरा मम जुगुप्सितः ।तमपास्य शुभं गन्धमिमं प्रादात् मे मुनिः
ततो मामाह मुनिर्गर्भमुत्सृज्य मामकम् ।द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि
पाराशर्य्यो महायोगी बभूव महानृषिः ।कन्यापुत्त्रो मम पुरा द्वैपायन इति श्रुतः”
अन्यत् विवरणादिकमस्य व्यासशब्दे द्रष्टव्यम्
)
वाचस्पत्यम्
Sanskrit
कृष्णद्वैपायन
पु०
द्वीपे यमुनाद्वीपे भषः फक् द्वीपोऽयनंजन्मभूमिर्वास्य प्रज्ञाद्यण् कर्म्म० वेदव्यासे तस्य यमुना-द्वीपोत्पत्तिकथा भा० आ० १०५ अ० ।“धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम सा कदा-चिदहं तत्र गता प्रथमयौवना अथ धर्मविदा श्रेष्ठःपरमर्षिः पराशरः आजगाम तरीं धीमांस्तरिष्यन्-यमुनां नदीम् तार्य्यमाणो यमुनां मामुपेत्याब्रवी-त्तदा सान्त्वपूर्वं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः तमहंशापभीता पितुर्भीता भारत! वरैरसुलभैरुक्ता नप्रत्याख्यातुसुत्सहे अभिभूय मां बालां तेजसा वश-मानयत् तमसा (कुज्झटिकया) लोकमावृत्य नौगता-मेब भारत! मत्स्वगन्धो महानासीत्पुरा मम जुगुप्-सितः तमपास्य शुभं गन्धमिमं प्रादात् मे मुनिः ।ततो मामाह मुनिर्गर्भमुत्सृज्य मामकम् द्वोपेऽस्याएव सरितः कन्यैव त्वं भविष्यसि पाराशर्य्यो महायोगी बभूव महानृषिः कन्यापुत्रो मम पुरा द्वैपायनइति श्रुतः योव्यस्य वेदांश्चतुरस्तपसा भगवानृषिः लोकेव्यासत्वमापेदे कार्ष्ण्यात् कृष्णत्वमेव सत्यवादी शम-परस्तपस्वी दग्धकिल्विषः सद्योत्पन्नः तु महान् सहपित्रा ततो गतः” “श्रुत्वा तु सर्पसत्राय दीक्षितं जन-मेजयम् अभ्यगच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा ।जनयामास यं काली शक्त्रेः पुत्रात्पराशरात् कन्यैययमुनाद्वीपे पाण्डवानां पितामहम् जातमात्रश्च यःसद्य इष्टं देहमवीवृधत् वेदांश्चाधिजगे साङ्गान् सेति-हासान्महायशाः यन्नैति तपसा कश्चिन्न वेदाध्ययनेनच व्रतैर्नोपवासैश्च प्रसूत्या मन्युना विव्या-सैकं चतुर्द्धा यो वेदं वेदविदांवरः परावरज्ञो ब्रह्मषिःकविः सत्यव्रतः शुचिः यः पाण्डुं धृतराष्ट्रञ्चविदुरं चाप्यजीजनत् शान्तनोः सन्ततिं तन्वन्पुण्यकीर्त्तिर्महायशाः” ।“मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य धीमतः क्षेत्रे विचित्रवीर्य्यस्य कृष्णद्वैपायनः पुरा त्रीनग्नीनिव कौरव्यान्जनयामास वीर्य्यवान् उत्पाद्य धृतराष्ट्रञ्च पाण्डुं वि-दुरमेव जगाम तपसे धीमान् पुनरेवाश्रमं प्रति” ।“कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः विचित्रवीर्य्यक्षेत्रे पाण्डुश्चैव महाबलः धर्मार्थकुशलो धीमा-न्मेधावी धूतकल्मषः विदुरः शूद्रयोनौ तु जज्ञे द्वै-पायनादपि” भारते नानास्थान“कृष्णद्वैपायनं व्यासं विद्धि नारायणं विभुम् कोह्यन्यःपुण्डरीक्षात् महाभारतकृत् भवेत्” बिष्णुपु० तस्य विष्णोरबरतारत्वकथा भाग० “ततः सप्तदशे जातः सत्य-बत्यां पराशरात् चक्रे वेदतरोः शाखा द्वापरे सोऽल्प-मेधसः” अवतारशब्दे ४२२ पृ० विवृतिः कृष्णेति द्वैपा-यनोति तस्य नामद्वयम् कर्म्म० क्वचिदेकनामताऽपि ।“द्वैपायनेन कृष्णेन नगरे वारणावते” भा० स० ७६ अ० ।“कार्ष्ण्यात् कृष्णत्वमेव च” “कार्ष्णं वेदमिमं शृणु” इतिच ब्यस्तप्रयोगः “तमहमरागमतृष्णं कृष्णद्वैपायनंवन्दै” वेणीस० प्रागुक्तभारते समस्तप्रयोगः