| YouTube Channel

कृष्णगतरोग (kRSNagataroga)

 
वाचस्पत्यम्
Sanskrit
कृष्णगतरोग
पु०
नेत्रावयवभेदकृष्णगतरोगभेदे तद्विज्ञा-नादि सुश्रुते उक्तंयथा ।“अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।यत्सव्रणं शुक्रमथाव्रणं वा पाकात्ययश्चायजका तथैव ।चत्वार एतेऽभिहिताः विकाराः कृष्णाश्रयाः संग्रहतःपुरस्तात् निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धंप्रतिभाति यद्वै स्रावं स्रवेदुष्णमतीव रुक् चतत्सव्रणं शुक्रमुदाहरन्ति दृष्टेः समीपे भवे-त्तु यच्च चावगाढं संस्रवेद्धि अवेदनावन्नच युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव सितं यदाभात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम् विहा-यसीवाभ्रदलानुकारि तदव्रणं साध्यतमं वदन्ति ग-म्भीरजातं बहलञ्च शुक्लं चिरोत्थितञ्चापि वदन्ति कृ-च्छ्रम् विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्त-मदृष्टिकृच्च द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितञ्चापिविवर्ज्जनीयम् उष्णाश्रुपातः पिडका कृष्णे यस्मि-न् भवेन्मुद्गनिभञ्च शुक्लम् तदप्यसाध्यं प्रवदन्ति केचि-दन्यच्च यत्तित्तिरिपक्षतुल्यम् संछाद्यते श्वेतनिभेनसर्वदोषेण यस्यासितमण्डलन्तु अजापुरीषप्रतिमोरुजावान् सलोहितो लोहितपिच्छिलास्रः विदार्य्यकृष्णं प्रचयोऽभ्युपैति तञ्चाजकाजातमिति व्यवस्येत्”