| YouTube Channel

कृष्णकलिः (kRSNakaliH)

 
शब्दकल्पद्रुमः
Sanskrit
कृष्णकलिः,
स्त्री,
(कृष्णस्य चूडा इव कलिः कलिकायस्याः ।) स्वनामख्यातपुष्पवृक्षः तस्य शाखारक्ततण्डुलीयनालवद्ग्रन्थियुक्ता पत्रं क्षुद्रताम्बूल-दलवद्भवति तस्य पुष्पं श्वेतरक्तपीतपाटलवर्ण-मिलितपञ्चदलं षट्केशरमध्यं स्वल्पसद्गन्धयुक्तंअपराह्णे प्रस्फुटति तस्य वीजं कृष्णमरि चतुल्यंपुष्पं सर्व्वकाले सुलमं वर्षाकाले प्रचुरं भवति ।तदुत्पत्तिस्तस्य मूलतो वीजतश्च इति लोक-प्रसिद्धम्
अस्या पिष्टपत्रमूलादिना व्रणस्फोटनंभवति इति वैद्यकम्